Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ८ )
साधयत्येव सकलदोषरहितत्वादिति, ते न समञ्जसवाचः । तनुभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलब्ध्या बाधितत्वात्कार्यत्वहेतोः कालात्ययापदिष्टत्वाच्च । तथाहि, तनुभ्रुवनादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलम्भात् । यत्र यदन्वयव्यतिरेकानुपलम्भस्तत्र न तनिमित्तकत्वं दृष्टं यथा घटघटीशरावोदञ्चनादिषु कुविन्दाद्यन्वयव्यतिरेकाननुविधायिषु कुविन्दाद्यनिमित्तकत्वम् | बुद्धिमदन्वयव्यतिरेकानुपलम्भश्च तनुभुवनादिषु, तस्मान्न तनुभुवनादेर्बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलम्भः, तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भेन व्याप्तत्वात् । भवति च व्यापक निवृत्तौ व्याप्यनिवृत्तिः । न च तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भव्याप्तत्वमसिद्धं, कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलम्भप्रसिद्धेः सर्वत्र बाधकप्रमाणाभावेन तस्य तद्व्याप्तत्वव्यवस्थापनात्, न चायं व्यापकानुपलम्भो व्यतिरेकानुपलम्भस्वरूपोऽसिद्धः तन्वादीनामीश्वरव्यतिरे कोपलम्भस्य कालकृतस्य देशकृतस्य वा महेशस्य नित्यविभुत्वेनासम्भवात् तेषां तद्व्यतिरेकानुपलम्भस्य प्रमाणसिद्धत्वात् । न चेश्वरेच्छानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति वाच्यं तस्या अपि विकल्पाक्षमत्वात् । विकल्पाक्षमत्वं च यथा तस्या नित्यत्वे व्यतिरेकाभावात न कारणत्वम् । कारणत्वे सर्वदा सद्भावात्सर्वदा कार्योत्पत्तिप्रसङ्गात् । न च तदिच्छाया नित्यत्वेऽपि सर्वगतत्वाभावान्न व्यतिरेका सिद्धिरिति वाच्यम्, तद्देशे व्य
"
9

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88