Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 50
________________ ( ३५ ) चारिककर्मकर्तृकारयित्रोः, अहीनयागकर्तृकारयित्रोश्च कृच्छ्त्रयरूपप्रायश्चित्तविधानस्य वैयापत्तेरिति दिग्। किञ्च, अलसस्य यागादिदुःखेऽपि बलवद्वेषेण यजेत इत्यादी बाधात् । किश्च बलवदनिष्टाननुबन्धित्वादिरूपधर्मस्य शक्यतावच्छेदकत्वकल्पनापेक्षयकेच्छात्वस्य शक्यतावच्छेदकत्वौचित्यादासाभिप्रायस्यैव विध्यर्थत्वात् , तादृशाभिप्रायवदीश्वरसिद्धिः ॥ श्रुतिः-ईश्वरविषयो वेदः, ततः " यज्ञो वै विष्णुः" इत्यादेविध्येकवाक्यतया “ यन्न दुःखेन सम्भिन्नम्" इत्यादिवत् तस्य स्वार्थ एव प्रामाण्यात् । वाक्यात्-वैदिकप्रशंसा-निन्दावाक्यात् , तस्य तदर्थज्ञानपूर्वकत्वात् । संख्या "स्याम् , अभूवम् , भविष्यामि" इत्याधुक्ता । ततोऽपि स्वतन्त्रोचारयिनिष्ठाया एव तस्या अभिधानादिति रहस्यम् ।। अत्र प्रतिविधीयते-तस्य महेश्वरस्य धर्मादिस्वीकारेऽस्मदादिवत्संसारी एव स्यादिति विरुद्धसाधनं स्यात् ।। किश्च तस्य धर्मविशेषे स्वीकृते सति देहविशेषोऽपि स्वीकार्यः, अन्यथा तमन्तरेण धर्मविशेषस्याप्यनुपपत्तिप्रसङ्गः, तदनुपपत्तौ सत्यामैश्वर्यायोगात् कुतो जगनिमित्तकारणत्वं सिध्येत् मुक्तात्मवत् । अत्र केचित्-"कस्यचिद्दुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करोतीश्वरः प्रभुत्वात् लोकप्रसिद्धपभुवत् । न चैवं नानेश्वरसिद्धिः, नानाप्रभूणामेकमहाप्रभ्वायत्तत्वदर्शनात् । तथा हि-विवादाध्यासिता नानाप्रभवः एकमहाप्र. भ्वायत्ता एव नानाप्रभुत्वात् , ये ये नानाप्रभवस्ते ते एक

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88