Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 61
________________ ___( ४६ ) ततो यो योगा बहुभिरिह गाडैरिव जलैविशुद्धः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो। बुपास्यत्वे तन्त्रं न तु विमतकरैंकविभुता ॥६॥" इति दिग् ॥ अत एवाग्रिमाण्यनुमानान्यप्यपास्तानि । किञ्च द्वितीयानुमाने 'स्वोपादानं' इत्यत्र स्वपदस्य व्यणुकादिपरत्वे साध्याप्रसिद्धिः, घंटादिपरत्वे पटादौ सन्दिग्धानैकान्तिकत्वम् , स्वोपादानगोचरत्वादिनाऽऽपाततोऽपि हेतुत्वाभावतोऽप्रयोजकत्वं च ॥ तृतीये ज्ञानेच्छापदोपादानप्रयासः॥ चतुर्थे सर्गासिद्ध्या परं प्रति पक्षासिद्धिः॥ पश्चमे तु क्षित्यादावकर्तृकत्वस्यैव व्यवहाराद् बाधः। विशेषान्वय-व्यतिरेकाम्यां कर्तृत्वेन कार्यसामान्य एव हेतुत्वग्रहाद् न बाध इति चेत् , तर्हि शरीरचेष्टयोरप्यन्वयव्यतिरेकाम्यां कार्यसामान्यहेतुत्वात्तयोरपि नित्ययोगीश्वरे प्रसक्तिरित्युक्तमेवानेकधा । अथ नित्यशरीरमिष्यते एव भगवतः । तत्र परमाणव एव प्रयत्नवदीश्वरात्मसंयोगाधीनचेष्टावन्त ईश्वरस्य शरीराणि इत्येके । वायुपरमाणव एव नित्यक्रियावन्तस्तथा, अत एव तेषां सदागतिमत्त्वमित्यन्ये । 'आकाशशरीरं ब्रह्म' इति श्रुतेः 'आकाशस्तच्छरीरम् 'इत्यपरे । चेष्टाया नित्यत्वे तु मानामावः, नित्यज्ञानसिद्धौ तु श्रुतिरपि पक्षपातिनी, 'नित्यं विज्ञानं आनन्दं ब्रह्म' इति, अत एव ज्ञानत्वावच्छेदेनात्ममनो

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88