Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
Catalog link: https://jainqq.org/explore/022431/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री जेन ग्रन्थप्रकाशक सभा अन्धांक-५३ श्रीजिनशासनमाहात्म्यस्तुत्यात्मकं - परमश्रेयोमार्गप्रख्यापकम् श्रीजगत्कर्तृत्वमीमांसाप्रकरणम् ॥ प्रणेता: प्राच्य नव्यन्याय निष्णातः मुनिमहाराज श्रीशिवानन्दविजय Page #2 -------------------------------------------------------------------------- ________________ ॥ श्री जैन ग्रन्थप्रकाशक सभा-ग्रन्थांक ५३ ॥ ॥ ॐ अनमः WATRING __ सकललब्धिसम्पन्नाय श्रीगौतमस्वामिने नमः॥ सर्वतंत्रस्वतंत्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु-प्रौढप्रताप-प्रभूततीर्थोद्धारक-तपागच्छाधिपति__ भट्टारकश्रीविजयनेमिसूरीशभगवद्भ्यो नमः ।। मुनिश्रीशिवानन्दविजयप्रणीतम् श्रीजिनशासनमाहात्म्यस्तुत्यात्मकपरमश्रेयोमार्ग प्रख्यापकम् श्रीजगत्कर्तृमीमांसाप्रकरणम् ॥ तच्चेदं अहम्मदावादस्थ श्रीजैनग्रन्थप्रकाशकसभैककार्यवाहक श्रेष्ठि ईश्वरदास मूलचन्द्रेण भावनगरस्थ सुप्रसिद्धमहोदयमुद्रणालये तदधिपति-श्रेष्ठि। गुलाबचंद लल्लुभाईद्वारा मुद्रयित्वा प्रकाशितम् ॥ - - - 11 वीर सं. २४७०] चैत्र शुक्ला त्रयोदशी [विक्रम सं. २००० । __ महावीर जन्मकल्याणक तिथि । Page #3 -------------------------------------------------------------------------- ________________ ॥ श्री जैन ग्रन्थप्रकाशक सभाप्रकाशितग्रन्थाः ॥ १ हारिभद्राष्टकवृत्ति ३३१ संवादपाठयुक्तवृत्ति ड्रोइंगपेपर... २-८ ग्लेझपेपर...२-० "" " २ संबोध प्रकरण ... ३-० ३ हरिभद्रसूरिग्रन्थसंग्रह ... ३-० ४ हारिभद्राष्टक प्रकरण (मूल) ०-४ ...4-0 ८ समुद्धाततत्त्व ९ जैनन्यायमुक्तावली सटीक १-० जैनन्याय मुक्तावली समु. भेगा १-४ १० नवतत्त्व विस्तरार्थ... • ३-० ५ स्याद्वाद रहस्य पत्र सटीक ०-१२२९ ६ न्यायालोक सटीक ...५-० ७ अष्टसहस्री तात्पर्यविवरण १०-० ३० योगदृष्ट्यादिनवग्रन्थपद्यानुक्रम ०-६ ...०-६ | ३१-३२-३३-३४ भाषारहस्य प्रकरण सटीक, योगविंशिका व्याख्या, तत्त्वविवेकविवरणसमेतकूपदृष्टान्तविशदीकरणप्रकरण, निशाभते स्वरूपतो दूषितत्त्वविचार. २-० ज्ञानार्णवप्रकरण मूल ... ११ दंडक विस्तरार्थ ...910 ... 018 १२ हैमधातुमाला १२ जैनतत्त्व परिक्षा १४ स्तोत्रभानु २४-२५ योगदृष्टियोगबिन्दु सटीक २-८ ...०-४ ...४-० | ३५ ...०-४ ३६ थी ४६ श्रीयशोविजयवाचकग्रन्थ संग्रह पातंजलयोगदर्शन विवरणादि ११ प्रन्थो ... .. २-० ४७ सविवरणधर्मपरीक्षा टिप्पणी यु. ४-० ४८ अनेकान्तव्यवस्था जैनतर्क.. ४-० २६ १२५-१५०-३५० ना स्तवनो, सज्झाय, द्रव्यगुणपर्यायरास४९-५०-५१-५२ उत्पादादिसिद्धिविवरण - वादमालादि संग्रह १-८ ॥ मुद्रयमाणाः शासनप्रभावका ग्रन्थाः ॥ १ ज्ञानार्णवः सटीकः, ज्ञानबिन्दुश्च. २ मार्गपरिशुद्धिः -यतिलक्षणसमुच्चयश्च संस्कृतच्छाया समेतः. ३ मयूरदूतं खण्डकाव्यं पञ्जिकासमेतं. प्राप्तिस्थानं - शेठ ईश्वरदास मूलचंद, कीका भट्टनी पोल - अमदावाद. ... ... ... ... ... २७ ... सम्यकत्ब-योगदृष्टि-संयमश्रे - णिविचार - सज्झायादिसंग्रह. .०-८ पारमर्षस्वाध्याय ग्रन्थसंग्रह ७ ग्रन्थो ( बुक ) पारमर्षस्वाध्याय ग्रन्थसंग्रह ९ ग्रन्थो ( पत्राकारे )... ०-८ सम्मतितर्क प्रकरण सटीक प्र० भा० २८ ... ...०-६ Page #4 -------------------------------------------------------------------------- ________________ ॥ अनन्तलब्धिमाचीसोजमस्यामि नमो नमः ॥ ॥ परमपरमगुरुभगवद्भ्यः श्रीविजयनेमिसूरीश्वरेभ्यो नमो नमः ॥ ॥ किञ्चित्प्रास्ताविकम् ॥ orgaऐन्द्रपूज्यं महावीरं, कादम्बतीर्थशेखरम् । नत्वा प्रस्ताव्यते किश्चिद्, गुरुं कल्पद्रुमं तथा ॥१॥ इह खलु संसारसमुद्रेऽपारपारावारेऽतिगहने निरन्तरज्वलकामौर्वाग्निभयङ्करे विकरालविकृतितटिनीसङ्गमसञ्जनितक्रोधावर्ते उत्सर्पद्रागद्वेषादिद्वन्द्वकल्लोलमालाकोलाहले महामोहजलपरिपूरिते परिवर्तमानानां स्वस्वसमुपार्जितादृष्टानुगुणानुगतानेकविधदुःखोद्विग्नमानसानां सकलक्लेशार्तिहेतुपरिजिहीर्षणामैकान्तिकात्यन्तिकपरमानन्दात्मकसुखनिमित्तोपादानलालसानां धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एवोपादेयोऽन्येषां प्रत्यक्षानुमानादिनाऽनित्यत्वस्यावधारणात, स च मोक्षोऽनादिमोहान्धकारविलुप्तालोकलोकानां शास्त्रैकदर्शितमार्गेण लभ्योऽन्यथा शास्त्रोपदेशस्यैव वैय र्थ्यप्रसङ्गात् । शास्त्रविषये च विप्रतिपद्यन्ते दार्शनिका इति तेषां भिन्नभिन्नदार्शनिकाभीष्टानां शास्त्राणां मध्ये कतमच्छास्त्रं श्रेयोमार्ग? इति भवत्येव जिज्ञासितार्य शास्त्रं श्रेयोमार्गरूपेण प्रेक्षावताम् । _अत्रैकेऽनाद्यनिधनजगजननस्थेमविनाशविहितादरवदीश्वरविरचितत्वेनैव शास्त्रस्य श्रेयोमार्गत्वमभिमन्यन्ते,अन्ये पुनरनाद्यनिधनताऽऽगमस्यैव श्रेयोमार्गत्वप्रयोजिका, अपरे तु कर्मकाण्डा Page #5 -------------------------------------------------------------------------- ________________ त्मकस्य वेदस्य मलविक्षेपनाशकत्वद्वारेण श्रेयोमार्गप्रयोजकत्वं मोक्षे तु वेदान्तस्य ब्रह्मविषयकाज्ञाननाशकत्वेन ब्रह्मसाक्षात्काररूपे हेतुत्वम् ,इत्याद्या अनेका भिन्न भिन्नरूपेण शास्त्रस्य श्रेयोमार्गत्वं प्रति वि. प्रतिपत्तयः । तत्र केन रूपेण शास्त्रस्य श्रेयोमार्गत्वमनाबाधम ? तच्च कस्मिन् शास्त्रे निराबाधमितियुक्त्या मृग्यम् , श्रेयोमार्गप्रयोजकत्वञ्च शास्त्रे प्रमाणत्वेनैव स्वीकरणीयम् , प्रमाणप्रयोजकत्वञ्च सक. लजन्तुजातहितोपदेशदायक-सकलज्ञक्लप्त-मुमुक्षुसत्साधुपरिग्रहपूर्वापरार्थाविरुद्धाभिधायकत्वरूपेणैव प्रामाणिकपरिषदामभिप्रेतम् , तथा चोक्तमनवद्यचातुर्वैद्यविशारदेन श्रीहेमचन्द्रप्रभुणाहितोपदेशात्सकलज्ञक्लप्ते-मुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्व विरोधसिद्धे-स्त्वदागमा एव सतां प्रमाणम् ।। ॥ अयोगव्यवच्छेदद्वात्रिंशिका ११ ॥ इति, अन्यथोन्मत्तवाक्यादीनामपि प्रमाणत्वापत्तिः, न च प्रमाणप्रयोजकमपि हितोपदेशदायकत्वादिकं विप्रतिपत्तिविषय एवेति कथं निर्णय इति वाच्यं, सद्युक्तिसाम्राज्यजागरूकत्वात् । न च तत्त्वनिर्णये युक्तेरेव प्रयोजकत्वस्वीकारे “ हस्ती हन्तीतिवचने, प्राप्ताप्राप्तविकल्पवत्" गगनमेव विलोकनीयमिति वाच्यं, हस्तीत्यादिवाक्येऽनुभवबाधिकानामेव कुयुक्तीनां निषेधस्यैव स्वीकारात् न तु युक्तिसामान्यानां, अन्यथा प्रामाणिकस्य सदसद्व्यवहारस्य लोपप्रसङ्गः । न च तद्व्यवहारलोपे कर्तुं शक्येष्टापत्तिः, प्रामाणिकपरिषत्प्रवेशाधिकारभङ्गप्रसङ्गात् । तस्मात् “ परीक्षन्ते कपच्छेद-तापैः स्वर्ण यथा जनाः ॥ शास्त्रेऽपि वर्णिकाशुद्धि, Page #6 -------------------------------------------------------------------------- ________________ परीक्षन्तां तथा बुधाः ॥ १॥" इति, शास्त्रं युक्त्या परीक्षणीयम् । न तु पक्षपातेन “मनोवत्सो युक्तिगवी, मध्यस्थस्यानुधावति ॥ तामाकर्षति पुच्छेन, तुच्छाग्रहमन:कपिः ॥ १॥" इति माध्यस्थ्यस्यैव तत्त्वनिर्णयमुख्याङ्गत्वात् , पक्षपातस्य तु माध्यस्थ्यविधातकत्वेन तत्त्वबुभुत्सायाः प्रतिबन्धकत्वात् , तत्वबुभुत्साऽभावे च कथं तत्त्वनिश्चायकरूपायां धर्मकथायां प्रवेश ? इति तत्त्वबुभुत्सुना माध्यस्थ्यमास्थाय कपच्छेदतापरूपाभियुक्तिभिः शास्त्रं परीक्षणीयम् । अथ किंस्वरूपास्ते कषच्छेदतापाः यैः शास्त्रस्य परीक्षा स्यात् ? इति चेत्, अभियुक्तवचनेनैवोच्यते-- "विधयः प्रतिषेधाश्च, भूयांसो यत्र वर्णिताः ॥ एकाधिकारा दृश्यन्ते, कषशुद्धिं वदन्ति ताम् ॥ १ ॥ विधीनां च निषेधानां, योगक्षेमकरी क्रिया ॥ वर्ण्यते यत्र सर्वत्र, तच्छास्त्रं छेदशुद्धिमत् ।। २ ।। यत्र सर्वनयालम्बि-विचारप्रबलानिना ॥ तात्पर्यश्यामिका न स्यात् , तच्छास्त्रं तापशुद्धिमत् ॥३॥" ___ इतिस्वरूपैः कषच्छेदतापैः परीक्ष्यमाणं शास्त्रं दोषरहितं प्रतिभाति, तस्यैव शास्त्रस्य सकलजन्तुजातहितोपदेशदायकत्वादिमत्त्वेन प्रमाणविषयत्वात् श्रेयोमार्गत्वम्, न त्वन्येषां शास्त्राभासानामिति । ___ नन्वनाद्यनिधनवेदस्यैव प्रामाण्यं पुरुषस्य भ्रान्तिधर्मत्वेन तद्रचितागमे प्रामाण्यस्याभावादिति चेत् । न, पुरुषसामान्यस्य Page #7 -------------------------------------------------------------------------- ________________ भ्रान्तिधर्मस्वेनासिद्धत्वात् , अस्मादृशां तु ज्ञानावरणादिकर्मसाचि. व्येन भ्रान्तत्वसम्भवात् , न तु स्वभावात् , तस्य ज्ञानस्वभावाच्च । किश्च कथं तस्य वर्णसमूहस्वरूपवाक्यात्मकशास्त्रस्यानाद्यनिधनता?, वर्णमात्रं हि कण्ठताल्वाधभिघातमूलकं, तस्य च पुरुषनियतत्वात् । ___ अथ न खलु शास्त्रं पुरुषं नापेक्षत इति, किन्तु कल्पक पुरुषो न इति चेत् , अस्माकमपीदमभीष्टमेव, तथाचागमः " इच्चेइयं दुवालसंग न कयाइ नासी न कयाइ न भवइ न कयाइ न भविस्सइ धुवे निचे" इत्यादिः।। किञ्च पुरुषमात्रस्य भ्रान्तिस्वभावत्वस्वीकारे शास्त्रस्यानाद्यनिधनत्वाभ्युपगमेऽपि न निस्तारः, तदुक्तार्थावगमनिश्चयाभावात् , उच्चारयितरि पुरुषे विश्वासाभावात् पुरुषधर्मानतिलङ्घनात् । तस्मात्प्रामाण्यविषयकविप्रतिपत्तिनिराकरणे पूर्वोक्तस्वरूपकषच्छेदतापाप्रतिमैकबलं युक्तिसाम्राज्यमेवानन्यशरणम् । एवं तस्य वेदस्यानाद्यनिधनत्वेनाभ्युपगतस्य पूर्वोक्तस्वरूपकषादिभिः शुद्धत्वाभावान्न प्रामाण्यम् , अशुद्धत्वञ्च यथा तस्य वेदस्यार्थकामविमिश्रक्लप्तकथाव्याप्तत्वेन मोक्षैकगोचराणां विधिप्रतिषेधानां प्रतिपादकत्वाभावात् , आनुषङ्गिकमोक्षार्थप्रतिपादकत्वेऽपि तस्य मुख्यैकप्रतिपादकत्वाभावान्न तस्य कषपरीक्षायां शुद्धत्वम् । एवं छेदपरीक्षायामपि न तस्य शुद्धत्वम् , अन्यार्थोत्सृष्टान्यार्थापोह्यत्वप्रतिपादकत्वेन दुर्विधविधिप्रतिषेधाभिधायकत्वात् , एवं “ उदिते जुहोति, अनुदिते जुहोति" " मा हिंस्यात्सर्वाभूतानि " " पशूनालभेत" इत्यादिपरस्परविरुद्धार्थप्रतिपादकत्वेन तात्पर्यस्यैवानवधारणात् , तदश्या Page #8 -------------------------------------------------------------------------- ________________ मिकारूपा तापशुद्धिरपि न तस्य । एवं " पशुना रुद्रं यजेत" इत्यादिना हिंसोपदेशकत्वेन सकलजन्तुजातहितोपदेशदायकत्वाभावः, अर्थकामरूपार्थाभिधायकत्वेन मुमुक्षुसत्साधुपरिग्रहायोग्यत्वम् , " मा हिंस्यात्सर्वाभूतानि" " पशुना रुद्रं यजेत" इत्यादिपूर्वापरविरुद्धार्थप्रतिपादकत्वेन सर्वज्ञक्लप्तत्वाभावोऽपि चानुमेयः । एवं बौद्धादिशास्त्राणामपि दृष्टेष्टार्थविरुद्धार्थप्रतिपादकत्वेन प्रामाण्याभावान्न श्रेयोमार्गत्वम् । नन्वेवं जिनशासनस्य शुद्धिरपि कथमवगता ?, पूर्वोक्तपरीक्षयैव, तथाहि, ध्यानाध्ययनादिविधीनां हिंसादिनिषेधानाञ्च मोक्षकगोचराणां प्रतिपादकत्वेन न तस्य कषाशुद्धिः। एवं तेषां विधिनिषेधानां योगक्षेमकारिण्याः समितिगुप्त्यादिरूपयतनायाः सर्वकार्येषु प्रतिपादकत्वान्न छेदाशुद्धिरपि तस्य । एवं सर्वनयाभिमतैकवस्तुप्रतिपादकत्वेन सर्वनयावलम्बिविचाररूपवह्निना न तस्य तात्पर्यश्यामिकारूपा तापाशुद्धिरपि । न च परस्परविरुद्धानां नयानामभिमतैकवस्तुप्रतिपादकत्वं शास्त्रस्य कथं प्रमाणविषय इति वाच्यं, अपेक्षाभेदेन तेषां विरुद्धार्थाभिधायकत्वाभावात् , परस्परसापेक्षत्वेनैव तेषां प्रमाणागत्वात् , केवलमाभासमात्रेण विरुद्धार्थप्रतिपादकत्वस्वीकार एकस्मिन्पुरुषे सर्वानुभाविकेऽन्यान्यापेक्षया पितृपुत्रत्वादिके कथं सङ्गतिः स्यादिति सूक्ष्मेक्षिकया निभालनीयम् , अनुभवस्यापलपितुमशक्यत्वात् । न च सर्वस्य वस्तुनोऽनेकान्तत्वे स्वपररूपविषयकनिश्चयाभावादिदोषाणामापत्तिः स्यादिति वाच्यं, तेषां दोषाणामनेकधा तत्तच्छालेऽभियुक्तैर्निराकृतत्वात् तथाहि Page #9 -------------------------------------------------------------------------- ________________ ८ यथाह सोमिलप्रश्ने, जिनः स्याद्वादसिद्धये । द्रव्यार्थादहमे कोऽस्मि, हग्ज्ञानार्थादुभावपि अश्चयश्चाव्ययश्चास्मि, प्रदेशार्थविचारतः । अनेक भूतभावात्मा, पर्यायार्थपरिग्रहात् द्वयोरेकत्वबुद्ध्यापि यथा द्वित्वं न गच्छति । नयैकान्तधियाप्येव-मनेकान्तो न गच्छति सामग्र्येण न मानं स्याद् द्वयोरेकत्वधीर्यथा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका एकदेशेन चैकत्व - धीर्द्वयोः स्याद्यथा प्रमा । तथा वस्तुनि वस्त्वंश - बुद्धिर्ज्ञेया नयात्मिका इत्थं च संशयत्वं यद्, नयानां भाषते परः । तदपास्तं विलम्बानां, प्रत्येकं न नयेषु यत् सामय्येण द्वयालम्बे -ऽप्यविरोधे समुच्चयः । विरोधे दुर्नयत्राताः, स्वशस्त्रेण स्वयं हताः कथं विप्रतिषिद्धानां न विरोधः समुच्चये १ | अपेक्षाभेदतो हन्त, केव विप्रतिषिद्धता १ भिन्नापेक्षा यथैकत्र, पितृपुत्रादिकल्पना | नित्यानित्याद्यनेकान्त - स्तथैव न विरोत्स्यते ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ 118 11 11 4 11 11 & 11 119 11 116 11 118 11 ॥ १० ॥ व्यापके सत्यनेकान्ते, स्वरूपपररूपयोः । आनेकान्त्यान्न कुत्रापि, निर्णीतिरिति चेन्मतिः अव्याप्यवृत्तिधर्माणां यथावच्छेदकाश्रया । नापि ततः परावृत्ति - स्तत् किं नात्र तथेक्ष्यते ? ॥ ११ ॥ Page #10 -------------------------------------------------------------------------- ________________ आनैगमान्त्यभेदं तत् परावृत्तावपि स्फुटम् । अभिप्रेताश्रयेणैव, निर्णयो व्यवहारकः ।। १२ ।। अनेकान्तेऽप्यनेकान्ता - दनिष्ठैवमपाकृता । नयसूक्ष्मक्षिकाप्रान्ते, विश्रान्तेः सुलभत्वतः आत्माश्रयादयोऽप्यत्र, सावकाशा न कर्हिचित् । ते हि प्रमाणसिद्धार्थात्, प्रकृत्यैव पराङ्मुखाः ॥ १३ ॥ ॥ १४ ॥ उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन्, स्याद्वादद्विड् जनोऽपि कः ॥ १५ ॥ इच्छन् प्रधानं सत्वाद्यै- विरुद्वैर्गुम्फितं गुणैः । साङ्ख्यः सङ्ख्यावतां मुख्यो, नानेकान्तं प्रतिक्षिपेत् ॥ १६ ॥ विज्ञानस्यैकमाकारं, नानाकारकरम्बितम् । इच्छंस्ताथागतः प्राज्ञो, नानेकान्तं प्रतिक्षिपेत् ॥ १७॥ चित्रमेकमनेकं च, रूपं प्रामाणिकं वदन् । योगो वैशेषिको वापि, नानेकान्तं प्रतिक्षिपेत् ॥ १८॥ प्रत्यक्षं मितिमात्रंशे, मेयांशे तद्विलक्षणम् । गुरुर्ज्ञानं वदनेकं, नानेकान्तं प्रतिक्षिपेत् ॥ १९ ॥ जातिव्यक्त्यात्मकं वस्तु, वदन्ननुभवोचितम् । भट्टो वाऽपि मुरारिर्वा, नानेकान्तं प्रतिक्षिपेत् ||२०|| अबद्धं परमार्थेन, बद्धं च व्यवहारतः । ब्रुवाणो ब्रह्मवेदान्ती, नानेकान्तं प्रतिक्षिपेत् ॥ २१ ॥ बुवाणा भिन्नभिन्नार्थान्, नयभेदव्यपेक्षया । प्रतिक्षिपेयुनों वेदाः स्याद्वादं सार्वतान्त्रिकम् ॥ २२ ॥ , Page #11 -------------------------------------------------------------------------- ________________ विमतिः सम्मतिर्वापि, चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेषु, यस्य मुह्यति शेमुषी ॥ २३ ॥ तेनानेकान्तसूत्रं यद् , यद्वा सूत्रं नयात्मकम् ।। तदेव तापशुद्धं स्याद्, न तु दुर्नयसंज्ञितम् ॥ २४ ॥ नित्यकान्ते न हिंसादि, तत्पर्यायापरिक्षयात् । मनःसय्योगनाशादौ, व्यापारानुपलम्भतः ॥ २५ ॥ बुद्धिलेपोऽपि को नित्य-निर्लेपात्मव्यवस्थितौ। सामानाधिकरण्येन, बन्धमोक्षौ हि सङ्गतौ ॥ २६ ॥ अनित्यैकान्तपक्षेऽपि, हिंसादिकमसङ्गतम् । खतो विनाशशीलानां, क्षणानां नाशकोऽस्तु कः? ॥ २७ ॥ आनन्तय क्षणानां तु, न हिंसादिनियामकम् । विशेषादर्शनात्तस्य, बुद्धलुब्धकयोमिथः ॥२८ ।। सक्लेशेन विशेषश्चे-दानन्तर्यमपार्थकम् ।। न हि तेनापि सक्लिष्ट-मध्ये भेदो विधीयते ॥ २९ ॥ ____ मनोवाकाययोगानां, भेदादेवं क्रियाभिदा । समग्रैव विशीर्येते-त्येतदन्यत्र चर्चितम् ॥३०॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते । तदृष्ट्यैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥३१ ॥ यस्य सर्वत्र समता, नयेषु तनयेष्विव । तस्यानेकान्तवादस्य, क न्यूनाधिकशेमुषी ॥३२ ।। स्वतन्त्रास्तु नयास्तस्य, नांशाः किन्तु प्रकल्पिताः। रागद्वेषौ कथं तस्य, दूषणेऽपि च भूषणे ? ॥३३ ॥ Page #12 -------------------------------------------------------------------------- ________________ अर्थे महेन्द्रजालस्य, दक्षितेऽपि च भूषिते । यथा जनानां माध्यस्थ्यं, दुर्नयार्थे तथा मुनेः ॥ ३४ ॥ दूषयेदज्ञ एवोच्चैः, स्याद्वाद्वं न तु पण्डितः। अज्ञप्रलापे सुज्ञानां, न द्वेषः करुणैव तु ॥ ३५ ॥ इति सिद्धं जिनशासनस्य कषच्छेदतापपरीक्षायां शुद्धत्वेन प्रामाण्यात् श्रेयोमार्गत्वम् । शास्त्रलक्षणमपीत्थमेवाहुराप्ताः शासनात्राणशक्तेश्च, बुधैः शास्त्रं निरुच्यते, वचनं वीतरागस्य, तच्च नान्यस्य कस्यचित् ॥१॥ इति वीतरागवचनत्वञ्च तस्य पूर्वोक्तदोषाभाव एव सम्भवति, दोषसद्भावे च तस्य न वीतरागवचनत्वमपि तु महामोहावस्थावस्थितपुरुषकल्पितमित्यलं प्रसङ्गायातविचारचर्चया । एवं च जगत्कर्तृप्रतिपादितागमस्यापि न प्रामाण्यमर्हति, ईशस्य जगत्कर्तृत्व एव प्रमाणाभावात् । न च जगतः कार्यत्वेनासिद्धत्वात् कार्य तिम च कर्तृत्वेन कारणत्वादस्माकञ्च तत्कर्तृत्वासम्भवात्तत्कर्तृत्वेनैव तत्कार्यकारणभावनिर्वाहात्कथं प्रमाणाभाव इति वाच्यं, सामान्यकर्तृत्वेन कार्यत्वेन कार्यकारणभावस्वीकारेऽपि दृष्टेष्टार्थबाधादिदोषापत्त्या तन्नियमशरीरेऽसति बाधके इत्यधिकस्यापि प्रवेशनीयत्वेनेशस्य जगत्कर्तृत्वे प्रमाणस्यासिद्धत्वात् , प्रयोजनाभावाच्च दृष्टेष्टार्थबाधादिदोषश्च यथा स्यात्तथाऽस्मिन् ग्रन्थे पूर्वाचार्यविरचितग्रन्थवाक्येनैव प्रदर्शितं मया स्वाभ्यासार्थं, न तु ग्रन्थकर्तृत्वख्यातिगौरवेच्छया. इति, प्रमादबाहुल्येन क्षयोपशममान्येन च Page #13 -------------------------------------------------------------------------- ________________ १२ शब्दतदर्थं तदुभयगोचरायाः काश्चानाशुद्धयः स्युस्ता धीधनैः कृपया शोधनीयाः क्षन्तव्यश्च तद्विषये यत आप्ता उपदिशन्ति । " 46 शुभे यथाशक्ति यतनीयम् " निवेदक :शिवानन्दविजयो मुनिः श्रीकादम्ब गिरितीर्थे वीरनिर्वाणसंवत् २४७० वर्षे वसन्तपञ्चम्यां ॥ शुद्धिपत्रकम् ॥ पृष्ठ पंक्तिः अशुद्धं शुद्धं एवस्या अशुद्धं शुद्धं नाद्धिरुद्धं नाद्विरुद्धंनिमित्तकका निमित्तका १० ७ प्रत्येकस्ये प्रत्येकस्यैव ११ जन्मतः जन्मनः तत्रेव तत्रैव 'नविश्वा 'नाविश्वा रणत्वप्र रणप्र कायाव कामाव भावात् भावेन तस्या दोषत्वात् सर्वाभू सर्वभू ७ ६ १३ २ १४ १९ २२ ८ २३ ४ २५ २ २६ १५ ३४ १३ र्घटादि तद्भा विशेष संसृक्ता पदाथ एव स स्या ३५ १४ न फलमुख न, उत्तर गौरवस्या कालीनोप• स्थितबाध कस्या घटादि पृष्ठः पंक्ति तदभा विशेष्य संपृक्ता पदार्थ ४२ २२ ૪૬ ७ ५० १० ५४ १५ ६१ ११ ૬૪ १ Page #14 --------------------------------------------------------------------------  Page #15 -------------------------------------------------------------------------- ________________ सर्वतंत्रस्वतंत्र-शासनसम्राट्-सूरिचक्रचक्रवर्ति-जगद्गुरु तपागच्छाधिपति तीर्थोद्धारक प्रौढप्रभावशालि भट्टारक . आचार्य महाराजाधिराज श्रीविजयनेमिसूरिश्वरः जन्म सं. १९२९ कार्तिक शुद १ महुवा ॥ दीक्षा १९४५ जेठ शुद ७ भावनगर. गणिपद १९६० कार्तिक वदि ७ वळा (वल्लभीपुर). आचार्यपद १९६४ जेठ शुदि ५ भावनगर, पन्यासपद १९६० मागशर शुदि ३ वळा (वल्लभीपुर) भूरिभूपालसद्बोध-दायिनं भवितायिनम् । नौमि श्रीनेमिसूरीशं, प्रौढसाम्राज्यशालिनम् ॥१॥ Page #16 -------------------------------------------------------------------------- ________________ ॥ ॐ अर्हम् नमः ॥ ॥ सर्वलब्धिसम्पन्नश्रीगौतमस्वामिने नमः ॥ सर्वतंत्रस्वतंत्र-शासनप्रभावक-सूरिचक्रवर्ति-जगद्गुरुतपागच्छाधिपति-प्रौढप्रभाव-प्रभूततीर्थोद्धारकश्रीमद्विजयनेमिसूरिभगवद्भयो नमः ॥ जगत्कर्तृत्ववादनिरासात्मकं ॥ जगत्कर्तृमीमांसाप्रकरणम् ॥ -~-S etप्रणौमि श्रीमहावीरं, छेत्तारं कर्मभूरुहाम् । मोक्षमार्गप्रवक्तारं, सुरेन्द्रेज्यक्रमाम्बुजम् ॥ १॥ भत्तया प्रणम्य गच्छेशं, श्रीनेमिसूरिपुङ्गवम् । कुर्वे कर्तृत्वमीमांसां, शिवानन्दाभिधो मुनिः ॥२॥ अथ सर्वेषां प्राणिनां श्रेयोमार्गावाप्तिमन्तरेण न निःश्रेयसाधिगम इति, तथा चोक्तं कलिकालसर्वज्ञेन श्रीहेमचन्द्रप्रभुणापरः सहस्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा ॥ तथापि ते मार्गमनापतन्तो, न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१॥ इति Page #17 -------------------------------------------------------------------------- ________________ स च श्रेयोमार्गो न जिनशासनादन्यो भवितुमर्हति जिनशासनस्यैव सतां प्रमाणविषयत्वात् , उक्तं चहितोपदेशात् सकलज्ञक्लुप्ते मुमुक्षुसत्साधुपरिग्रहाच । पूर्वापरार्थेष्वविरोधसिद्धे स्त्वदागमा एव सतां प्रमाणम् ॥१॥ इति ननु मोक्षोपायानुष्ठानोपदेशमात्रे न दार्शनिका विप्रतिपद्यन्त इति जिनशासनादिवान्यशासनादपि न मोक्षावाप्तिरनुपपन्ना इति कश्चित् । स न विशेषज्ञः, सम्यगमिथ्योपदेशविशेषाभावप्रसङ्गात् । स्यादेतद्, वैशेषिकाभिमतस्याऽऽप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । तदभिमताप्तस्योपदेशोऽयं-" श्रद्धाविशेषोपगृहीतं हि सम्यरज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नं निःश्रेयसहेतुः," तत्र श्रद्धाविशेषश्चोपादेयेषूपादेयतया हेयेषु हेयतया श्रद्धानं, सम्यग्ज्ञानं तु यथावस्थिततत्त्वावगमलक्षणं तद्धेतुकं वैराग्यं च रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यास इति, एतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते, जीवन् मुक्तः प्रत्यक्षतः केषाश्चित् स्वयं संवेदनात्, परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् “ जीवन्नेव हि विद्वान् संहर्षाया• साभ्यां विमुच्ये" इत्युपदेशाच, नानुमानागमाभ्यां बाध्यते । Page #18 -------------------------------------------------------------------------- ________________ एवं जीवन्मुक्तिवत् परमुक्तेरप्यत एवानुष्ठानात् सम्भावनोपपत्तेः। न चान्यत् प्रमाणं तदुपदेशस्य बाधकं, तद्विपरीतार्थव्यवस्थापकत्वाभावादिति, तदपि न रमणीयम् । तदुपदिष्टश्रद्धा. विशेषविषयपदार्थानां यथावस्थितार्थत्वाभावात् , उक्तं चस्वतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ । अधिकं तु स्याद्वादमञ्जरी-स्याद्वादकल्पलता-अष्टसहस्री-सम्मतिवृत्यादावस्मत्कृतायोगव्यवच्छेदस्तुतिटीकायां वा विलोकनीयं विस्तृतत्वभयादप्रस्तुतत्वाचेह न प्रपञ्चयत इति । नचानादिसंसिद्धज्ञानेच्छाप्रयत्नादिमद्विहितशासनमेव श्रेयोमार्ग इति वाच्यं, तस्यैवासिद्धेः। अत्राहुर्गोतमीयाः तनुभुवनकरणादौ निमित्तकारणत्वादीश्वरस्य तदनादित्वं सिद्धमेव । न चैतदसिद्धं । तथाहि, तनुभुवनकरणादिकं विवादास्पदीभूतं बुद्धिमनिमित्तकं, कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमनिमित्तकं दृष्टं । यथा घटादिः । कार्यं चेदं तनुभुवनादिकं ततो बुद्धिमनिमित्तकम् , योऽसौ बुद्धिमान् तन्निमित्तं स ईश्वर इति प्रसिद्ध साधनं तदनादित्वं साधयत्येव । तत्सादित्वे ततः पूर्व तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्धेतुत्वाभावप्रसङ्गात् । यदि पुनस्ततः पूर्वमन्य इति परम्पराकल्पनेऽनादि Page #19 -------------------------------------------------------------------------- ________________ ( ४ ) 9 सन्ततिः सिद्ध्येत् । ननु को दोषः, युक्त्यभाव एंव दोषः । किश्च पूर्वपूर्वकल्पने उत्तरोत्तरस्य वैयर्थ्यापातात् परस्परमिथ्याव्याघातप्रसङ्गात्, अनेकेश्वरस्वीकारापत्तेश्चेति सुदूरमपि गत्वाऽनादिरेक एवेश्वरोऽनुमन्तव्यः । स पूर्वेषामपि गुरुः कालेनाविच्छेदादिति तस्य जगन्निमित्तत्वसिद्धेरनादित्वमन्तरेणानुपपत्तेरित्यनादित्वसिद्धिः । न चेदं कार्यत्वमसिद्धं तन्वादेर्वादिप्रतिवादिनोः कार्यत्वस्वीकारात् । नाप्यनैकान्तिकत्वं कार्यत्वहेतोः कस्यचित्कार्यस्याबुद्धिमन्निमित्तकस्यासम्भवाद्विपक्षाद् व्यावृत्तत्वात् । न चेश्वरशरीरेण व्यभिचारः, ईश्वरशरीरानभ्युपगमात् । नापीश्वरज्ञानेन व्यभिचारस्तस्य नित्यत्वस्वीकारेण कार्यत्वासिद्धेः । नापि तदिच्छया, तस्या अपि नित्यत्व स्वीकारात् । नापि तत्प्रयत्नेन तस्यापि नित्यत्वाभ्युपगमात्, अत एव न विरुद्धत्वमपि, विपक्षेऽत्यन्तासम्भवात् । न चायं हेतुः कालात्ययापदिष्टः, प्रत्यक्षादिप्रमाणेन 1 । पक्षस्याबाधात् । न च तनुभ्रुवनादौ प्रत्यक्षेण कर्त्रनुपलब्ध्या 1 प्रत्यक्षबाधितत्वमिति वाच्यं तस्यातीन्द्रियत्वाभ्युपगमेन प्रत्यक्षानुपलब्ध्या अभावनिश्चयाभावात् । नापि अनुमानेन, तद्विपरीतसाधनस्यानुपलम्भाद् । | , अथ तनुभ्रुवनादीनां घटादिभ्यो विलक्षणत्वान्न बुद्धिमनिमित्तकत्वमाकाशादिवदित्यनुमानं बाधकं स्यादिति चेत्, न, तेषु घटादिभ्यो विलक्षणत्वस्यासिद्धेः, रचनाविशेषवत्त्वेन तेषां दृष्टकर्तृकघटादितोऽविलक्षणत्वात् । यदि पुनरगृहीतसम Page #20 -------------------------------------------------------------------------- ________________ ( ५ ) यानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तन्वादीनां दृष्टकर्तृकघटादिविलक्षणत्वमिष्यते तदा कृत्रिमाणामपि मौक्तिकादीनामगृहीतसमयानां सकर्तृकबुद्ध्यनुत्पादकत्वात्तेषामपि अबुद्धिमन्निमित्तकत्वापत्तिर्दुर्निवारा। किञ्च दृष्टादृष्टकर्तृकत्वाभ्यां न बुद्धिमनिमित्तेतरत्वसिद्धिायभावाद् , अदृष्टकर्तृकाणामपि जीर्णप्रासादादीनां बुद्धिमनिमित्तत्वस्य सर्वलोकसिद्धत्वान्नानु. मानबाधितपक्षः । नापि आगमस्तद्बाधकः, तत्साधकस्यैवागमस्य प्रसिद्धेः " द्यावाभूमी जनयन्देव एक आस्ते विश्वस्य कर्ता भुवनस्य गोप्ता" इत्याद्यागमस्य पक्षानुग्राहकत्वमेव न तु बाधकत्वम् , तस्मान्न कालात्ययापदिष्टो हेतुरबाधितपक्षनिर्देशानन्तरप्रयुक्तत्वात् । तत एव न सत्प्रतिपक्षः, विप. रीतानुमानाभावादित्यनवा कार्यत्वसाधनं तन्वादीनांबुद्धिमनिमित्तकत्वं साधयत्येव । यत्तु कैश्चिद् बुद्धिमनिमित्तकत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनं, अनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः तेषां तददृष्टनिमित्तत्वाददृष्टस्य च चेतनारूपत्वात् चेतनायाश्च बुद्धिलक्षणत्वादित्युच्यते, तन्न विद्वद्भयो रोचते, तन्वादिभोक्तृणां प्राणिनामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासम्भवात्तस्य न बुद्धित्वम् । 'अर्थग्रहणस्वरूपं हि बुद्धिश्चेतना,' न खलु धर्माधर्मयोरर्थग्रहणत्वं सि. द्धमिति न तन्वादीनामनेकबुद्धिमनिमित्तकत्वं सिद्ध्यति येन बुद्धिमनिमित्तकत्वसामान्ये साध्ये सिद्धसाधनं स्यात् । ननु घटादीनां सशरीरेणासर्वज्ञेन च बुद्धिमता कुलालादिना करणं Page #21 -------------------------------------------------------------------------- ________________ (६) दृष्टमिति तन्वादीनामपि सशरीरासर्वज्ञबुद्धिमनिमित्तकत्वं स्यादितीष्टविरुद्धसाधनाविरुद्धसाधनं स्यात् । अशरीरिणा सर्वज्ञेन कृतस्य कस्यचिदपि कार्यस्याभावात्साध्यविकलमुदाहरणमिति कश्चित् , सोऽपि न सन्मानयोग्यो, यतः सर्वानुमानोच्छेदप्रसङ्गः । तथाहि पर्वतो वह्निमान् धूमात् महानसवदित्यत्रापि पर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निमात्रस्य साधने विरुद्धसाधनाद्धिरुद्धं साधनं, तार्णाद्यग्निमत्त्वस्यैव साध्यत्वे तस्य महानसादावसिद्धत्वात्साध्यवैकल्यमुदाहरणस्य च स्यादिति । यदि पुनरग्निमत्त्वसामान्यं देशाधविशिष्टं पर्वतादौ साध्यत इति नानिष्टसाधनम् , नापि साध्यवैकल्यं दृष्टान्तस्य, महानसादावपि देशाद्यविशिष्टस्याग्निमत्त्वस्य भावात् इति मतं, तदा तन्वादिष्वपि बुद्धिमनिमित्तकत्वसामान्यमेव साध्यत इति नेष्टविरुद्धसाधनो हेतुः, नापि साध्यविकलत्वमुदाहरणस्य, घटादावपि तस्य सद्भावात् । सिद्धे च बुद्धिमनिमित्तकत्वसामान्ये किमयं सशरीरोऽशरीरो वेति विप्रतिपत्तौ तस्याशरीरत्वं सिद्ध्यति सशरीरत्वे बाधकप्रमाणसद्भावात् । बाधकप्रमाणं च यथा यदि तस्य सशरीरत्वं स्यात् तदा तस्य शरीरस्य नित्यत्वमनित्यत्वं वा भवेत् , तृतीयविकल्पाभावात् । न तावन्नित्यत्वं, सावयवत्वादस्मदादिशरीरवत् । अत एव न अनादित्वमपि । नापि अनित्यत्वं, तदुत्पत्तेः पूर्वमीश्वरस्याशरीरत्वसिद्धिप्रसङ्गात् । अत एव नापि सादित्वम् । शरीरान्तरेण सशरीरत्वेऽनवस्थातो न Page #22 -------------------------------------------------------------------------- ________________ ( ७ ) मुक्तिरिति सशरीरत्वे बाधकप्रमाणसद्भावात्तस्याशरीरत्वलक्षणविशेषः सिध्यत्येव, सामान्यस्य विशेषविनिर्मुक्तत्वाभावात् । एवं सर्वज्ञासर्वज्ञत्वेऽपि विवादे सति तस्य सर्वज्ञत्वमेव सिध्यति, असर्वज्ञत्वे बाधकप्रमाणभावात् । तथाहि, तस्यासकलज्ञत्वे समस्त कार्यप्रयोक्तृत्वानुपपत्तिः, तदनुपपत्तेः तन्वादिकार्याभावप्रङ्गात् तत्समस्तकारणपरिज्ञानाभावात् समस्तकारणपरिज्ञानाभावेऽपि तत्कार्यप्रयोक्तृत्वे व्याघातप्रसङ्गात्, कुलालादेर्घटादिसकलकारणापरिज्ञाने घटादिकार्यव्याघातवत् । न चेश्वरकार्यस्य तनुभुवनादेर्व्याघातसिद्धिः तत्समीहितकार्यस्य विचित्रादृष्टादेरव्याघातदर्शनादिति न कार्यत्वानुमानस्येष्टविरुद्धत्वं साध्यविकलत्वं च दृष्टान्तस्य सम्भवति । ननु तनुभ्रुवनादेर्विचित्रकार्यत्वदर्शनान्न तदेकस्वभावेश्वरकृतं सम्भवति यथा घटपटकटमुकुटशकटादीनां विचिकार्याणां नैकस्वभावकारणकृतत्वमिति चेत्, न, अस्माकमिष्टस्यैव साधितत्वात् । न ह्यस्माभिरेकस्वभावमीश्वराख्यं तनुभुवनादेर्विचित्रकार्यस्य निमित्तकारणमिष्यते तस्य ज्ञानेच्छाप्रयत्नत्रितयस्वभावत्वाङ्गीकारात्, तनुभुवनाद्युपभोक्तृ प्राणिगणादृष्टविशेषवैचित्र्यस्य सहकारित्वाच्च विचित्रस्वभावकार्योंपपत्तेः, घटपटकटमुकुटशकटादिकार्यस्यापि दृष्टान्तस्य तदुपादानविज्ञानेच्छाप्रयत्नशक्तिविचित्रतदुपकरणतदुपभोक्तृविचिश्रादृष्टसचिवेनैकेन पुरुषेण समुत्पादनसम्भवात्साध्यवैकल्याननुषङ्गात् । तदेवं कार्यत्वं हेतुस्तनुभुवनादेर्बुद्धिमन्निमित्तकत्वं Page #23 -------------------------------------------------------------------------- ________________ ( ८ ) साधयत्येव सकलदोषरहितत्वादिति, ते न समञ्जसवाचः । तनुभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलब्ध्या बाधितत्वात्कार्यत्वहेतोः कालात्ययापदिष्टत्वाच्च । तथाहि, तनुभ्रुवनादयो न बुद्धिमन्निमित्तकास्तदन्वयव्यतिरेकानुपलम्भात् । यत्र यदन्वयव्यतिरेकानुपलम्भस्तत्र न तनिमित्तकत्वं दृष्टं यथा घटघटीशरावोदञ्चनादिषु कुविन्दाद्यन्वयव्यतिरेकाननुविधायिषु कुविन्दाद्यनिमित्तकत्वम् | बुद्धिमदन्वयव्यतिरेकानुपलम्भश्च तनुभुवनादिषु, तस्मान्न तनुभुवनादेर्बुद्धिमन्निमित्तकत्वमिति व्यापकानुपलम्भः, तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भेन व्याप्तत्वात् । भवति च व्यापक निवृत्तौ व्याप्यनिवृत्तिः । न च तत्कारणत्वस्य तदन्वयव्यतिरेकोपलम्भव्याप्तत्वमसिद्धं, कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलम्भप्रसिद्धेः सर्वत्र बाधकप्रमाणाभावेन तस्य तद्व्याप्तत्वव्यवस्थापनात्, न चायं व्यापकानुपलम्भो व्यतिरेकानुपलम्भस्वरूपोऽसिद्धः तन्वादीनामीश्वरव्यतिरे कोपलम्भस्य कालकृतस्य देशकृतस्य वा महेशस्य नित्यविभुत्वेनासम्भवात् तेषां तद्व्यतिरेकानुपलम्भस्य प्रमाणसिद्धत्वात् । न चेश्वरेच्छानिमित्तत्वात्तन्वादिकार्यस्यायमदोष इति वाच्यं तस्या अपि विकल्पाक्षमत्वात् । विकल्पाक्षमत्वं च यथा तस्या नित्यत्वे व्यतिरेकाभावात न कारणत्वम् । कारणत्वे सर्वदा सद्भावात्सर्वदा कार्योत्पत्तिप्रसङ्गात् । न च तदिच्छाया नित्यत्वेऽपि सर्वगतत्वाभावान्न व्यतिरेका सिद्धिरिति वाच्यम्, तद्देशे व्य " 9 Page #24 -------------------------------------------------------------------------- ________________ तिरेकासिद्धेर्देशान्तरे सर्वदा तदनुपपत्तेः सर्वदा कार्यानुत्पादप्रसङ्गाच्च, अन्यथा तस्या अनित्यत्वापत्तेः, नन्वनित्यैव साऽस्तु को दोष इति चेत् , सा तर्हि महेशस्येच्छोत्पद्यमानाsन्येच्छापूर्विका यदीष्यते तदानवस्था परापरसिसृक्षोत्पत्तावेव महेशस्योपक्षीणशक्तित्वात् प्रस्तुततन्वादीनामनुदय एव स्यात् । यदि पुनः प्रकृततन्वादिकार्योत्पत्तौ महेश्वरस्येच्छोत्पद्यते सापि अपरेच्छापूर्विका एवं सापि अन्यापरपूर्विका इत्यनादिसिसृक्षासन्तति नवस्थादोषमास्कन्दति, सर्वत्र कार्यकारणलक्षणसन्तानस्यानादिसिद्धत्वात् बीजाङ्कुरादिसन्ततिवदित्यभिधीयते तदा युगपन्नानादेशेषु तन्वादिकार्यस्योत्पादो नोपपद्येत यत्र यत्कार्योत्पत्यर्थं महेश्वरेच्छोत्पत्तिः तत्र तस्यैव कार्यस्योत्पत्तिः स्यात् । न च यावत्सु देशेषु यावन्ति कार्याणि सम्भूष्णूनि तावत्यः सिसृक्षास्तस्येश्वरस्य युगपदुपजायन्त इति वक्तुं शक्यम् , युगपदनेकेच्छोत्पत्तिविरोधादस्मदादिवत् । यदि पुनरेकैवेश्वरेच्छा नानादेशेषु अनेककार्योत्पत्त्यर्थं प्रजायत इतीष्यते तदा क्रमतोऽनेककार्योत्पत्तिर्न स्यात् विरोधात् । न च यत्र यदा यथा यत्कार्यमुत्पित्सु तत्र तदा तथा तत्कार्योत्पादनेच्छा महेश्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्वेकदेशे च क्रमेण युगपच्च तादृशी अन्यादृशी च तन्वादिकार्योत्पत्तिन विरुध्यत इति वाच्यं, कचिदेकत्र प्रदेशे समुत्पन्नाया इच्छाया दविष्ठदेशेषु विभिन्नषु नानाविधेषु नानाकार्यजनकत्वविरोधात् । तस्याः सर्वगतत्वाभ्युपगमे Page #25 -------------------------------------------------------------------------- ________________ ( १० ) देशकृतव्यतिरेकानुपपत्तेः । यदि हि यद्देशा सिसृक्षा तद्देशमेव कार्यजन्म नान्यदेशमिति व्यवस्था स्यात्तदा देशतो व्यतिरेकसिद्धिः स्यान्नान्यथेति तदिच्छाया न व्यतिकोपलम्भो महेश्वरवत् । व्यतिरेकाभावे चान्वयनिश्चयोऽपि कर्तुमशक्यः, सति महेशे तन्वादिकार्योत्पाद इत्यन्वयो हि पुरुषान्तरेष्वपि समानः तेष्वपि सत्सु तन्वादिकार्योत्पत्तेः सिद्धत्वात् । न च तेषां सर्वकार्योत्पत्तौ निमित्तककारणत्वं दिक्कालाकाशानामिव सम्मतं परेषां सिद्धान्तविरोधान्महेश्वरकल्पना वैयर्थ्याच्च । ननु तेषु पुरुषान्तरेषु सत्स्वपि कदाचित्कार्यानुत्पत्तिदर्शनात् न तेषां तन्निमित्तकारणत्वं न तदन्वयभावश्चेति चेत्, मैवम्, ईश्वरे सत्यपि कदाचित्कार्यानुत्पतिदर्शनस्य समानत्वात् तस्यापि तदनिमित्तकारणत्वं तदन्वयाभावश्च स्यात्, एतेनेश्वरेच्छायां नित्यायां सत्यामपि कदाचित्तन्वादिकार्यानुत्पत्तिदर्शनेन तस्या तन्निमित्तकारणत्वाभा वोऽन्वयाभावश्च साधितः । एवं कालादिषु सत्स्वपि कदाचि - त्कार्यानुत्पत्तेः तेषामपि न निमित्तकारणत्वं अनन्वयात् । अथ सामग्रीजन्यत्वं कार्यस्य न तु तदेकैककारणजन्यत्वमिति न तदन्वयव्यतिरेकावन्वेषणीयौ सामग्र्या अन्वयव्यतिरेकाभ्यां तस्याः कारणत्वस्य सिद्धत्वात्, सामग्र्यन्तर्गतत्वादीश्वरस्यापि कारणत्वं सिद्धमेव, सत्यमेतत्, केवलं यथा समवाय्यसमवायिकारणानामनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि न तथेश्वरस्य नित्य सर्वग Page #26 -------------------------------------------------------------------------- ________________ ( ११ ) तस्य तदिच्छाया वा नित्यस्वभावाया इति न तदन्वयव्य. तिरेकप्रसिद्धिः। न च सामय्यन्तर्गतैकान्वयव्यतिरेकसिद्धौ सत्यां कार्यजन्मनि सकलसामग्र्यास्तदन्वयव्यतिरेकसिद्धिरिति वक्तुं युक्तं, सामध्यन्तर्गतानां प्रत्येकानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् घटसामग्र्यन्तर्गतानां कुलालचक्रदण्डादीनां प्रत्येकस्ये । यथैव हि मृत्पिण्डचक्रदण्डादीनामन्वयव्यतिरेकाभ्यां घटस्योत्पत्तिदृष्टा तथा कुलालान्वयव्यतिरेकाभ्यामपि तदुपभोक्तृजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतम् । ननु सर्वकार्योत्पत्ती दिक्कालाकाशादिसामग्र्यन्वयव्यतिरेकानुविधानवदीश्वराद्यन्वयव्यतिरेकविधानस्य सिद्धत्वान्न व्यापकानुलम्भः सिद्ध इति चेत्, न, दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वेनान्वयव्यतिरेकानुविधानासम्भवात् । ननु तेषां परिणामित्वसप्रदेशत्वाभ्यां सर्वकार्योत्पादे निमित्तकारणत्वसिद्धौ का क्षतिरिति चेत्, तर्हि महेशस्यापि परिणामित्वसप्रदेशत्वापत्तिः । ननु महेश्वरस्यापि बुद्ध्यादिपरिणामः स्वतोऽर्थान्तरभृतैः परिणामित्वस्य सकृत्सर्वमूर्तद्रव्यसंयोगनिबन्धनसप्रदेशत्वस्य च सिद्धत्वान्न तस्य तन्वादिकार्योत्पत्ती निमित्तकारणत्वमनुपपन्नं तस्य स्वतोऽनन्तरभूतैरेव हि ज्ञानादिपरिणामैः परिणामित्वं स्वारम्भकावय. वैश्च सावयवत्वमनिष्टं न त्वन्यथा विरोधाभावात् । न चैवं द्रव्यान्तरपरिणामैरपि तस्य परिणामित्वापत्तिरिति वाच्यं, Page #27 -------------------------------------------------------------------------- ________________ ( १२ ) तेषां तस्मिन् समवायाभावाद्, ये हि यत्र समवयन्ति परिणामास्तैरेव तस्य परिणामित्वमिष्यते, परमाणोरपि स्वारम्भका - वयवाभावेऽपि सप्रदेशत्वप्रसङ्गो नानिष्टापत्तये तार्किकाणाम् । परमाण्वन्तरसंयोग निबन्धनस्य सप्रदेशत्वस्य परमाणाविष्ट - त्वात् न चोपचरितप्रदेशप्रतिज्ञा आत्मादिषु विरुद्ध्यत इति वाच्यम्, स्वारम्भकावयवलक्षणप्रदेशानां तत्राप्रतिज्ञानेनोपचरितत्वाभावात् । मूर्त्तद्रव्यसंयोगनिमित्तानां तु प्रदेशानां पारमार्थिकत्वात्, अन्यथा सर्वमूर्त्तद्रव्यसंयोगानां युगपद्धाविनामुपचरितत्वप्रसङ्गाद् विभुद्रव्याणां सर्वगतत्वमप्युपचरितं स्यात् । परमाणोश्च परमाण्वान्तरसंयोगस्यापारमार्थिकत्वे द्वणुरूप कार्यद्रव्यस्याप्यपारमार्थिकत्वापत्तिः । कारणस्योपचरितत्वे कार्यस्याननुपचरितत्वादर्शनादिति केचित् । तदपि स्याद्वादमतस्य घुणाक्षरन्यायेनानुसरणं न महेशस्य कारणत्वं समर्थयितुमलम् । तदन्वयतिरेकानुविधानासम्भवस्य प्रतिपादितत्वात् । अन्यथा तन्वादिकार्योत्पादे क्षेत्रज्ञानामपि कारणत्वापत्तिः स्यादविशेषात् । अथेश्वरस्य सकलज्ञत्वेन विश्वकारकपरिज्ञानयोगात्तत्प्रयोक्तृत्वलक्षणे समस्तकार्यनिमित्तकारणत्वे न कापि क्षतिः, न पुनः क्षेत्रज्ञानां समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तत्परिज्ञानाभावादिति, तदपि न समीचीनं, सर्वज्ञत्वे समस्तकारकप्रयोक्तृत्वस्यासिद्धेः, योग्यन्तरवत् । न हि योग्यन्तराणां सकलज्ञत्वेऽपि समस्तकारकप्रयोक्तृत्वमिष्यते । Page #28 -------------------------------------------------------------------------- ________________ ( १३ ) ननु तेषां समस्तपदार्थज्ञानस्यान्त्यस्य योगाभ्यासविशेषजन्मतः सद्भावे समस्तमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःखपरिक्षयात् परमनिःश्रेयससिद्धेः समस्तकारकप्रयोक्तृत्वासिद्धिः, न पुनरीश्वरस्य, सदामुक्तत्वात् सर्वदैवेश्वरत्वात् संसारिमुक्तविलक्षणत्वाच्च । न हि संसारिवदज्ञो महेश: साध्यो नापि मुक्तवत् समस्तज्ञानेश्वर्यरहित इति तस्यैव समस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वं तन्वादिकार्योत्पत्तौ सम्भाव्यत इति केचित् । तेऽपि न विचारचतुरचेतसः। तनुभुवनादीनां कार्याणां महेश्वराभावे क्वचिदभावासिद्धेर्व्यतिरेकानुपलम्भस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्यभावात् । एवं तदन्वयव्यतिरेकानुविधानस्यासिद्धौ व्यापकानुलम्भः प्रसिद्ध एव पक्षस्य बाधक इति प्रकृतानुमानस्य बाधितपक्षकत्वात् कालात्ययापदिष्टहेतुकत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः । तथा बुद्धिमनिमित्तकं इति साध्यनिर्देशे 'बुद्धिमत्' इति मतुबर्थस्य साध्यधर्मविशेषस्यानुपपत्तिः, तज्ज्ञानस्य ततो व्यतिरेके अकार्यत्वे च तस्यैव तद्गुणो नाकाशादेरिति व्यवस्थापयितुमशक्यत्वात् । समवायो व्यवस्थाकारीति चेत्, न, तस्यापि पूर्वोक्तदोषानतिक्रमात् । अथेश्वरात्मकार्यत्वाद् बुद्धेरीश्वरगुणत्वं तस्याः, किन्तु नान्यगुणत्वमिति चेत् , कुतो निश्चितमेतत् , तदन्वयाचुविधानादिति चेत् , न, आकाशादावपि तदन्वयानुविधानस्य सत्त्वात् । ननु खादावन्वयस्य समानत्वेऽपि व्यतिरेकासम्भवात् न तत्कार्य Page #29 -------------------------------------------------------------------------- ________________ ( १४ ) त्वमिति चेत् , ईश्वरस्यापि नित्य-व्यापकत्वाभ्युपगमेनेश्वरेऽपि व्यतिरेकाभावः सिद्ध एव, इति न किश्चिदेतत् ॥ ननु महेशे तत्समवायात् तत्रैव तस्या वर्त्तनं नाकाशादाविति चेत् , तत्र तस्या व्याया समवायेन वर्त्तनं उताऽव्याप्त्या, यदि व्याप्त्या तदास्मदादिज्ञानवैलक्षण्यं यथा तज्ज्ञानस्यादृष्टस्यापि कल्प्यते तथाऽदृष्टकर्तृकेषु तनुभुवनादिषु घटादौ कर्म-कर्तृ-करणनिर्वयं कार्यत्वमुपलब्धमपि बुद्धिमनिमित्ताभावेऽपि भविष्यतीति तनुभुवनादौ बुद्धिमनिमित्ताभावे वर्तमानस्य कार्यत्वहेतोरनैकान्तिकत्वमिति लाभमिच्छतो मूलक्षतिरायाता । अथ अव्याप्त्या तत् तत्र वर्तते, तदा देशान्तरोत्पत्तिमत्सु तन्वादिषु तस्यासन्निधानेऽपि यथा व्यापारस्तथाऽदृष्टस्याप्यग्न्यादिदेशेष्वसन्निहितस्यापि ऊर्ध्वज्वलनादिविषयो व्यापारो भविष्यतीति “अग्नरूद्धज्वलनम् , वायोस्तिर्यक् पवनम् , अणु-मनसोश्चाद्यं कर्माऽदृष्टकारितम्।" इत्यनेन सूत्रेण सर्वगतात्मसाधकहेतुसूचनं यत् कृतं तदसङ्गतं स्यात् , ज्ञानादिवददृष्टस्यापि तत्रासन्निहिताग्न्यायूद्धज्वलनादिकार्येषु व्यापारसम्भवात् । न च सामान्यविशेषगुणत्वलक्षणो विशेषो गुणगुणिनोर्मेंदे सम्भवति, किश्च समवायस्य सर्वत्राविशेषे " तत्रेव तेन तस्य वर्त्तनं नान्यत्र" इति स्वकल्पनाशिल्पिविनिर्मितमेव । किश्चात्यन्तभेदे तस्यैव तदिति सम्बन्धानुपपत्तेः । नन्वत्यन्तभेदेऽपि समवायरूपसम्बन्धस्य सत्वेन नायं दोष इति चेत्, न, तस्यापि भेदे पूर्वोक्तदोषा Page #30 -------------------------------------------------------------------------- ________________ ( १५ ) नतिक्रमात् समवायस्यान्यत्रापास्तत्वात् । तदेवं बुद्धस्तदास्मनो व्यतिरेके सम्बन्धस्यासिद्धेर्मतुबर्थानुपपत्तिः। अथ अव्यतिरिक्ता तदात्मनस्तबुद्धिस्तथाऽपि तदनुपपत्तिस्तदवस्थैव न हि तदेव तेनैव तद्वद् भवतीति कचिदृष्टम् । किञ्च तदास्मनस्तबुद्धेरव्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशस्तदा बुद्धेरभावात् बुद्धिविकलो गगनादिवद् जडस्वरूपस्तदात्मा कथं जगत्स्रष्टा स्यात् ? बुद्ध्यादिविशेषगुणवैकल्ये च तदात्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्याद् मुक्तात्मन इव संसारित्वं न स्यात् , नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् तस्य चास्मदाद्यात्मस्वपि समानत्वात् भवदभ्युपगमप्रकारेण । अथ आत्मत्वाविशेषेऽपि तदात्मा अस्मदाद्यात्मभ्यो विलक्षणोऽभ्युपगम्यते, तर्हि कार्यत्वाविशेषेऽपि घटादिकार्येभ्यः तनुभुवनादिकार्यमकर्तृकत्वेन विलक्षणं किं नाभ्युपगम्यते ?, तथा च कार्यत्वलक्षणहेतोरनुपलभ्यमानकरीकेषु तनुभुवनादिषु सत्त्वेनानैकान्तिकत्वापत्ति रित्युभयतः पाशारज्जुः । अथ तबुद्धौ तदात्मनोऽनुप्रवेशस्तदा बुद्धिमात्रमाधारशून्यमभ्युपगन्तव्यं भवति । तथा चास्मदादिबुद्धरपि तद्वदाधारविकलत्वेन मतुवर्थासम्भवेन घटादावपि बुद्धिमनिमित्तकत्वस्यासिद्धत्वापत्तेर्दुष्परिहारत्वात्साध्यविकलो दृष्टान्तः। अथ अस्मदादिबुद्धिभ्यो बुद्धित्वे समानेऽपि तद्बुद्धेरेवानाश्रितत्वलक्षणो विशेषोऽङ्गीक्रियते तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽपि Page #31 -------------------------------------------------------------------------- ________________ - ( १६ ) अकर्वपूर्वकत्वलक्षणो विशेषः कुतो न स्वीक्रियते ? इति पुनरपि प्रकृतहेतोर्व्यभिचारित्वं स्यात् । किञ्च तज्ज्ञानं क्षणिकमक्षणिकं वा स्वीकर्तव्यम् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः ॥" इति वचनात् । तत्र यदि क्षणिक तदात्मानं समवायिकारणम् , आत्म-मनःसंयोगं चाऽसमवायिकारणम् , तच्छरीरादिकं च निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्योत्पत्तिः १ तदनुत्पत्तौ चाचेतनस्य परमाण्वादेश्चेतनानधिष्ठितस्य कथं तन्वादिकार्यकरणे प्रवृत्तिः? वास्यादेरिवाचेतनस्य चेतनानधिष्ठितस्य भवता प्रवृत्यनभ्युपगमात् , ततश्चेदानीं भूभूधरादिकार्याणामनुत्पत्तिप्रसङ्गात् का. यशून्यं जगत्प्रसज्येत । न च समवाय्यादिकारणमन्तरेणापि तद्बुद्धिभावे को दोषः, भवदभ्युपगतकार्यकारणव्यवस्थालोपं मुक्त्वा नान्य इति । किञ्च यदि तद्बुद्धेर्बुद्धित्वेनास्मदादिबुद्धितौल्येऽपि तस्याः समवाय्यादिकारणमन्तरेण भवनलक्षणो विशेषोऽभ्युपगम्यते तदा कार्यत्वेन घटादिना समानत्वेऽपि भूरुहादिकार्यस्य विलक्षणत्वं किं नाभ्युपगम्यत इति व्यभिचारस्तदवस्थ एव । अथ यदि तबुद्धिरक्षणिका तदाऽस्मदादिबुद्धेरक्षणिकत्वेन किं अपराद्धं येन बुद्धित्वेन तौल्येऽपि तयोः क्षणिकत्वाक्षणिकत्वलक्षणो विशेषोऽभ्युपगम्यते । अथ प्रत्यक्षादिप्रमाणविरोधानास्मदादिबुद्धिरक्षणिका तर्हि भूरुहादीनामपि तत एव बुद्धिमनिमित्तकत्वं नाभ्युपगन्तव्यम् । नन्वस्मदादिबुद्धेः क्षणिकत्वसाधकानुमानस्याक्षणिकत्वाभ्यु. Page #32 -------------------------------------------------------------------------- ________________ ( १७ ) पगमवाधकस्य सद्भावान तस्या अक्षणिकत्वमिति चेत्, न, भूभूधरादीनामपि बुद्धिमनिमित्तकत्वाभ्युपगमबाधकस्य समानत्वात् , तथा हि भूभूधरादिर्यदि बुद्धिमनिमित्तकः स्यात्तदा शरीरवन्निमित्तकोऽपि स्यात् , तनिमित्तकत्वं तु तस्यानुपलम्भान्न स्वीकर्तव्यम् । किञ्च बुद्धेः क्षणिकत्वसाधकानुमानस्यानेकदोषदुष्टत्वम् , तच्च ग्रन्थगौरवभयादिह न प्रपञ्च्यते । किश्च यदि बुद्धित्वेन समानत्वेऽपि महेशास्मदादिबुद्ध्योरयमक्षणिकत्वक्षणिकत्वलक्षणो विशेषः स्यात्तदा भूरुहघटादिकार्ययोरप्यक-कतपूर्वकत्वलक्षणोऽपि विशेषः कस्मान स्यात् इति पुनरपि तदेवानैकान्तिकत्वदूषणं कार्यत्वहेतोः । तदेवं बुद्धिमत्कारणपूर्वकत्वलक्षणे साध्ये मतुवर्थासम्भवात् तन्वादीनामनेकधा प्रमाणबाधासम्भवाच्च शास्त्रव्याख्यानादिलिङ्गानुमीयमानपाण्डित्यगुणस्य देवदत्तस्य मूर्खत्वस्वरूपे साध्येऽनुमानबाधितकर्मनिर्देशानन्तरप्रयुक्तस्य कार्यत्वलक्षणस्य हेतोः कालात्ययापदिष्टत्वेन तत्पुत्रत्वादेरिवागमकत्वम् , अनुमानबाधितत्वं वा पक्षस्येति । किञ्च किंनाम कार्यत्वं-स्वकारणसत्तासमवायः, स्यादभूत्वाभावित्वम् , अक्रियादर्शिनोऽपि कृतबुद्धयुत्पादकत्वं, कारणव्यापारानुविधायित्वं वा स्याद् गत्यन्तराभावात् । तत्र यदि प्रथमपक्षस्तदा योगिनामशेषकर्मक्षये पक्षान्तःपातिनि हेतोः कार्यत्वलक्षणस्याप्रवृत्तेर्भागासिद्धत्वम् । न च तत्र सत्तासमवायः स्वकारणसमवायो वा Page #33 -------------------------------------------------------------------------- ________________ ( १८ ) समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवायस्वकारणसमवाययोरभावात्, सत्ताया द्रव्यादित्रयाणामेवाधारत्वाभ्यनुज्ञानात् समवायस्य च द्रव्यादिपञ्चसम्बन्धित्वस्वीकारात् । अथ अभावपरित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशभागिति चेत् तर्हि मुक्त्यर्थिनां तदर्थमीश्वराराधनमनर्थकमेव स्यात् तत्र तस्याकिञ्चित्करत्वात् । सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धत्वं च कार्यत्वस्य स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा, यदि समुत्पन्नानां तदा सतामसतां वा, न तावदसतां, गगनारविन्दादेरपि तत्प्रसङ्गात् । सतां चेत्, सत्तासमवायात्स्वतो वा न तावत्सत्तासमवायादनवस्थावल्लीविस्तारप्रसङ्गात् प्रागुक्तविकल्पद्वयानतिवृत्तेश्च । स्वतः सतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम्, तदा सत्तासम्बन्ध उत्पादाद्भिन्न उताभिन्नः १ यदि भिन्न इति पक्षस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्यभावयोः किं कृतो भेदः, अथोत्पत्तिसमाक्रान्तवस्तु सच्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतम् । तदा अतिजाड्यवल्गितमेव । उत्पत्तिसवं प्रति विवादे वस्तुसच्वस्यातिदुर्घटत्वात् । इतरेतराश्र - यदोषोऽपि स्यात्, तथाहि - उत्पत्तिसच्चे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्य सत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोषपरिजिहीर्षया तयोरैक्यमभ्युपगम्यते, , Page #34 -------------------------------------------------------------------------- ________________ ( १९ ) तर्हि तत्सम्बन्ध एव कार्यत्वमिति बुद्धिमनिमित्तकत्वे साध्ये गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः । अथोमयसम्बन्धः कार्यत्वम् , तदपि न, तत्सम्बन्धस्यापि कादाचित्कत्वे समवायस्यानित्यत्वप्रसङ्गात् । अथाकादाचित्कत्वं तदा सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककार. णानां सन्निधानाभावान्न सर्वदोपलम्भप्रसङ्गः, ननु तदुत्पत्यर्थ कारणानां व्यापारः, उत्पादश्च स्वकारणसत्तासमवाय एव स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि मृढभाषितम् । उत्पादापेक्षाया अभिव्यक्तेरघटनात् । उत्पादापेक्षाया अस्वीकारे कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् तल्लक्षणत्वाद्वस्तुसत्वस्य । प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमसि तिरोहितस्य घटस्येव प्रदीपादिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न खकारणसत्तासमवायः कार्यत्वम् । नाप्यभूत्वाभावित्वम्, विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्धे सिद्धिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भूत्वा व्रजतीत्यादिवाक्यार्थवत् । न चात्र भवनाभव. नयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्यायमात्रता किन्तु न वास्तविको भेद इति । अस्तु वा कथश्चिदभूत्वाभा Page #35 -------------------------------------------------------------------------- ________________ ( २० ) वित्वम् । तथापि तनुभुवनादौ सर्वत्रानभ्युपगमाद् भागासिद्धो हेतुः । नहि महीमहीधरादयः प्रागभूत्वा भवन्तोऽभ्युपगम्यन्ते परैः, तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्वेन तेषामपि सादित्वं प्रसाध्यते इत्येतदप्यशिक्षितलक्षितम् । तथाहि, सावयवत्वं नाम किं अवयवेषु वृत्तित्वमुतावयवैरारब्धत्वम् । तत्र न तावत्प्रथमपक्षः, अवयवत्वसामान्येन व्यभिचारात् । न द्वितीयः, साध्याविशिष्टत्वात् । अथ सनिवेश एव सावयवत्वं तच्च घटादाविव पृथिव्यादावप्युपलभ्यते इत्यभूत्वाभावित्वमभिधीयते, तदपि न पेशलं, विचारासहत्वात् , स हि अवयवसम्बन्धो वा रचनाविशेषो वा स्याद् । तत्र तावद् यदि प्रथमपक्षः तदा गगनादिना व्यभिचारः तत्र सकलमूर्तिमद्रव्यसम्बन्धस्य सत्वेन तनिबन्धनप्रदेशनानात्वस्य सद्भावेन तत्प्रदेशरूपावयवसम्बन्धस्य सद्भावात् । अथ तत्र प्रदेशनानात्वस्य सद्भावेऽपि तस्योपचरितत्वेनावयवस्वरूपत्वाभावान व्यभिचार इति चेत् , न, तत्र सकलमूर्तिमद्रव्यसंयोगस्याप्युपचरितत्वेन सर्वगतत्वलक्षणविभुत्वस्याप्युपचरितत्वापत्तेः श्रोत्रलक्षणाकाशस्याप्युपचरितप्रदेशत्वेनार्थक्रियाकारित्वाभावापत्तेश्च । न च धर्मादिना संस्कारान्न तत्रार्थक्रियाकारित्वाभाव इति वाच्यं, उपचरितस्यासद्रूपस्य तेनोपकारायोगात् खरविषाणस्येव, ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परं प्रति भागासिद्धत्वं तदवस्थमेव, तथाहि, एकनिष्ठरचनाविशेषस्यापरनिष्ठत्वाभा Page #36 -------------------------------------------------------------------------- ________________ ( २१ ) वात् , यदि विजातीयेष्वपि एकरचनाविशेषः स्वीक्रियते तदा बुद्धिमनिमित्तकेतरलक्षणवैजात्येऽपि एककार्यत्वस्वीकारे का क्षतिरिति नाभूत्वाभावित्वमपि विचारं सहते । नापि अक्रियादर्शिनोऽपि कृतबुद्धथुत्पादकत्वम् । तद्धि गृहीतकृतसमयस्यागृहीतकृतसमयस्य वा भवेत् । यदि गृहीतकृतसमयस्य, तदा आकाशादेरपि बुद्धिमद्धेतुकत्वं स्यात् तत्रापि खननोत्सेचनात् कृतमिति गृहीतसङ्केतस्य कृतबुद्धिसम्भवात् । सा मिथ्या इति चेत् , भवदीया बुद्धिर्न मिथ्येत्यत्र किं विनिगमकम् । बाधासद्भावस्य प्रतिप्रमाणविरोधस्य चोभयत्रापि समानत्वात् । प्रत्यक्षेणोभयत्र कृतबुद्ध्यभावात् । क्षित्यादिकं न बुद्धिमनिमित्तकं भवति अस्मदाद्यनवग्राह्यपरिमाणाधारत्वात् गगनवदिति प्रमाणस्य साधारणत्वात् । तन्न गृहीतकृतसमयस्य कृतबुद्धयुत्पादकत्वम् । नाप्यगृहीतकृतसमयस्य तस्यासिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च । नापि कारणव्यापारानुविधायित्वं, विकल्पाक्षमत्वात् , तथाहि, तत्कि कारणमात्रव्यापारानुविधायित्वं कारणविशेषव्यापारानुविधायित्वं वा । न तावत्प्रथमपक्षो युक्तः, स्वमते विरुद्धसाधनात् परमते कारणसामान्यव्यापारानुविधायित्वस्य स्वीकृतत्वेन सिद्धसाध्यताप्रसङ्गाच । नापि द्वितीयः अन्योन्याश्रयदोषभाक्त्वात् । तथाहि, सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वं सिद्धिमध्यास्ते, तत्सिद्धेः कारणविशेषसिद्धिरिति । सन्निवेशविशिष्टत्वमचेतनोपादानत्वं Page #37 -------------------------------------------------------------------------- ________________ . ( २२ ) 'च पूर्वोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते स्वरूपभागासिद्ध्यादेस्तत्रापि सुलभत्वात् ।। ____स्यादेतत् , मोक्षमार्गप्रणीतिरनादिसिद्धसर्वज्ञमन्तरेण नो. पपद्यते सोपायसिद्धस्य सर्वज्ञस्यावस्थानासम्भवेन मोक्षमार्गप्र. णीतेरसम्भवात् । अवस्थाने वा तस्य समुत्पन्नतत्वज्ञानस्यापि साक्षान्न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावेऽप्यभावात् तत्त्वज्ञानात्पूर्व मोक्षमार्गस्य प्रणयने तदुपदेशस्य प्रामाण्यायोगादज्ञवचनत्वाद् , रथ्यापुरुषवचनवत् । तदन्यस्मिन्नविश्वसा-न्न विधान्तरसम्भवः' इति वचनात् ।। न च समुत्पन्नसाक्षात्तत्त्वज्ञानस्यापि परमवैराग्योत्पत्तेः पूर्वमवस्थानसम्भवान्मोक्षमार्गप्रणीतो का क्षतिरिति वाच्यम् । साक्षात्तत्वज्ञानस्यैव परमवैराग्यस्वभावत्वात् । इदमपि स्वमताग्रहग्रहिलचेष्टितमेव, तथा हि, सोऽशरीरो वा स्यात् सशरीरो वा, गत्यन्तराभावात् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः" इति वचनात् , तत्र न तावत्प्रथमपक्षः सम्भवति, तदन्यमुक्तवद्वाक्प्रवृत्तेरयोगात् “ध. धिमौं विना नाङ्गं, विनाङ्गेन मुखं कुतः ।। मुखाद्विना न वक्तृत्वं तच्छास्तारः परे कथम् ॥१॥" नापि सशरीरः, धर्माधर्मयोगस्यानभ्युपगमात् " धर्माधौं विना नाङ्गम्" इति वचनात् । तन्नानादिसिद्धसर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षा क्षमते । ननु सशरीराशरीरत्वयोर्मोक्षमार्गप्रणीतिं प्रत्यनङ्गत्वात् ज्ञानेच्छाप्रयत्ननिमित्तकत्वेन तस्याः कायादिकार्योत्पादनवत् , तन्मात्रनिबन्धनत्वोपलब्धेः कार्योत्पादनस्य । तथा हि, Page #38 -------------------------------------------------------------------------- ________________ ( २३ ) यदि कुम्भकारः कुम्भादिकार्य कुर्वन् सशरीरत्वेन कुर्वीत तदा सर्वस्य सशरीरस्य कुविन्दादेरपि कुम्भादिकरणप्रसङ्गात् । नाप्यशरीरत्वेन कश्चित्कुम्भादिकायं कुरुते, मुक्तस्यापि तत्करणत्वप्रसङ्गात् । किं तर्हि ? कुम्भादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुम्भकारः कुम्भादिकार्य कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः, ज्ञानापाये कस्यचिदिच्छतोऽपि कार्योत्पादनादर्शनात् , कार्योत्पादनेच्छापाये च ज्ञानवतोऽपि तदनुपलब्धेः, प्रयत्नापाये च ज्ञानेच्छावतोऽपि तदसम्भवात् । ज्ञानादित्रयसद्धावे तु कार्योत्पत्तिदर्शनात् इति ज्ञानादित्रयनिमित्तमेव कार्यमनुमन्तव्यम् । ज्ञानादित्रयं च महेश्वरेऽस्त्येव, ततोऽसौ महेशो मोक्षमार्गप्रणयनं कायादिकार्यवत्करोत्येव, विरोधाभावात् इति केचित् , तेऽपि न युक्तिवादिनः, तथाहि, कर्मरहितस्य क्वचिदिच्छाप्रयत्नयोरयोगात्, न हि कुम्भकारस्येच्छाप्रयत्नौ कुम्भाधुत्पत्तौ निष्कर्मणः प्रतीतौ, सकर्मण एव तस्य तत्प्रसिद्धेः । ननु निष्कर्मण इच्छाप्रयत्नविरहेऽपि ज्ञानशक्तिस्तु तस्य न विरुध्यते इति ज्ञानशक्त्या एव सर्वकार्याण्युत्पादयति इति न कश्चिद्दोष इति चेत्, न, दृष्टान्ताभावात् , न च साधोदाहरणाभावेऽपि यो ज्ञानशक्त्यैव न कार्यमुत्पादयति स न प्रभुः यथा संसारी कर्मपरतन्त्र इति वैधर्योदाहरणसम्भवादुदाहरणाभावोऽसिद्ध इति वाच्यं, साधोदाहरणविरहेऽन्वयनिर्णयाभावान्यतिरेकनिश्चयस्य कर्तुमशक्यत्वात् शक्रादेर्शानेच्छाप्रयत्नविशेषैः स्वकार्य कुर्वतः Page #39 -------------------------------------------------------------------------- ________________ ( २४ ) प्रभुत्वेन व्यभिचाराच्च, न हीन्द्रो ज्ञानशक्त्यैव स्वकार्यं कुरुते, तस्येच्छाप्रयत्नयोरपि भावात् । न चास्य प्रभुत्वमसिद्धं, प्रभुत्वसामान्यस्य सकलामरस्वामिरूपस्य स्वातन्त्र्यलक्षणस्वामिरूपस्य वा सद्भावात् । , 9 अथ महेश्वरः समीहामन्तरेणापि केवलज्ञानशक्त्यैव मोक्षमार्गप्रणयनं तन्वादिकार्यं च कुर्वीत महेश्वरत्वात् यथा भवन्मते जिनेश्वरः प्रवचनोपदेशमिति केचित् तेऽपि विचारशून्या एव, अस्माभिः स्याद्वादिभिः प्रतिज्ञायमानस्य जिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्य करणाप्रसिद्धेः, सत्येव तीर्थप्रवर्तनफलतीर्थ करनामकर्मरूपपुण्यातिशये दर्शनविशुद्ध्यादिभावनाविशेषनिबन्धने समुत्पन्न केवलज्ञानस्य तदुदयप्राप्तौ प्रवचनाख्यतीर्थकरणप्रसिद्धेः तथा च प्राहुर्वाचकमुख्याः "तीर्थप्रवर्तन फलं, यत्प्रोक्तं कर्म तीर्थकरनाम । तस्योदयात्कृतार्थोऽप्यहस्तीथं प्रवर्तयति ।। " इति प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तेरसम्भवात् इति धर्मविशेषविशिष्ट एवोत्तम संहननशरीरः केवली प्रवचनलक्षणतीर्थस्य कर्त्ता प्रसिद्ध इति । ननु महेश्वरस्य धर्मविशेषोऽपि नो न किञ्चिदनिष्टम्, तथा चागमःज्ञानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । ऐश्वर्यं चैव धर्मश्व, । सहसिद्धं चतुष्टयम् ॥ १ ॥ इति । अस्यार्थः - यस्य जगत्पतेर्ज्ञानम्, अप्रतिघम्-नित्यत्वेन सर्वविषयत्वात् क्वचिदप्यप्रतिहतम् । वैराग्यं च माध्यस्थ्यं च रागाभावादप्रतिघम् । चः समुच्चये । " एवकारोऽवधारणे, ऐश्वर्यं च पारतन्त्र्याभावादप्रतिघम्, तच्चा Page #40 -------------------------------------------------------------------------- ________________ ( २५ ) ष्टविधम्-तथाहि-अणिमा-लधिमा-प्राप्तिः प्राक्राम्यं महिमा तथा । ईशित्वं च वशित्वं च यत्र कायावसायिता ॥१॥ यतो महानणुर्भवति सर्वभूतानामप्यदृश्यः सोऽणिमा १, यतो लघुर्भवति सूर्यरश्मीनप्यालम्ब्य सूर्यलोकादिगमनसमर्थः स लघिमा २, यतो भूमिष्ठस्याप्यङ्गुल्यग्रेण गगनस्थादिवस्तुप्राप्तिः सा प्राप्तिः ३, यतः इच्छानभिघात उदक इव भूमावुन्मजति निमजति च तत्प्राकाम्यम् ४, यतोऽल्पोऽपि नाग: नगादिमानो भवति स महिमा ५, यतस्तेषु प्रभव-स्थितिव्ययानामीष्टे तदीशित्वम् ६, वशित्वं यतो भूतभौतिकेषु स्वातन्त्र्यम् ७, यत्र कामावसायित्वं यतः सत्यसङ्कल्पता भवति यथेश्वरसङ्कल्पमेव भूतभावादिति ८ । धर्मश्च प्रयत्नसंस्काररूपोऽधर्माभावादप्रतिषः। एतच्चतुष्टयं सहसिद्धम् अन्यानपेक्षतयाऽनादित्वेन व्यवस्थितम् । अत एव नेश्वरस्य कूटस्थताव्याघातः, जन्यधर्मानाश्रयत्वादिति बोध्यम् ।। एतच्चतुष्टयसहसिद्धस्यैव कर्तुत्वं विरोधाभावात् , तथा चोक्तं "अज्ञो जन्तुरनीशोऽय-मात्मनः सुखदुःखयोः ॥ ईश्वरप्रेरितो गच्छेस्वर्ग वा श्वभ्रमेव वा ॥ १॥" अयं संसारी जन्तुः आत्मनः सुखदुःखयोर्जायमानयोः, अनीशः अकर्ता यतोऽज्ञः हिताहितप्रवृत्तिनिवृत्त्युपायानभिज्ञः, अतः स्वर्ग वा श्वभ्रमेव नरकमेव वा ईश्वरप्रेरितो गच्छेत्, अज्ञानां प्रवृत्ती परप्रेरणाया हेतुत्वावधारणात् पश्वादिप्रवृत्तौ तथादर्शनात् , अचेतनस्यापि चेतनाधिष्ठानेनैव व्यापाराच्च । अत एव " मयाऽध्यक्षेण Page #41 -------------------------------------------------------------------------- ________________ ( २६ ) प्रकृतिः, सूयते सचराचरम् ॥ तपाम्यहमहं वर्ष, निगृह्णाम्युत्सृजामि च ॥१॥" इत्यागमेन भगवतः सर्वाधिष्ठानत्वं श्रूयते । एवं इयमनुमानख्यापककारिकाऽपि तस्य कर्तृत्वसाधने प्रभवति-कार्यायोजनधृत्यादेः, पदात् प्रत्ययतः श्रुतेः । वाक्यात् संख्याविशेषाच्च, साध्यो विश्वविदव्ययः ॥१॥ अस्यार्थः-कार्यादीश्वरसिद्धिः कार्य सकर्तृकं कार्यत्वात् घटवदिति अनुमानात , न च कार्यत्वस्य कृतिसाध्यत्वलक्षणस्य क्षित्यादावसिद्धिरिति वाच्यं, कालवृत्त्यत्यन्ताभावप्रतियोगित्वे सति प्रागभावप्रतियोगित्वे सति ध्वंसप्रतियोगित्वे सति वा सत्त्वस्य हेतुत्वात् । न चात्र कार्यत्वसामानाधिकरण्येन साध्यसिद्धेरुद्देश्यत्वे दृष्टान्ते घटादौ सिद्धसाधनमिति वाच्यं, पक्षतावच्छेदकावच्छेदेनैव साध्यसिद्धेरुद्देश्यत्वात् , न च पक्षतावच्छेदकहेत्वोरैक्यप्रसङ्गदोष इति वाच्यं, कार्यत्वं साध्यसमानाधिकरणम् इति सहचारग्रहेऽपि कार्य सकर्तृकम् इति बुद्धेरभावात् । ननु तथापि सकरीकत्वं यदि कर्तृसाहित्यमानं तदाऽस्मदादिना सिद्धसाधनम् । यदि च कर्तृजन्यत्वं तदा बाधोऽपि, ज्ञानादेरेव जनकतया कर्तुरजनकत्वादिति चेत् , न, प्रत्यक्षजन्येच्छाजन्यत्वादिना साध्यतायामदोषात् । विशेध्यतासम्बन्धावच्छिन्नकारणताप्रतियोगिकसमवायावच्छिन्नजन्यत्वस्य साध्यत्वेन नादृष्टद्वाराऽस्मदादिज्ञानजन्यत्वेन सिद्धसाधनं अर्थान्तरं वा । अथात्र शरीरजन्यत्वमुपाधिः, तस्य घटादौ साध्यव्यापकत्वाद्, अङ्कुरादौ साधनाव्यापकत्वाच, Page #42 -------------------------------------------------------------------------- ________________ ( २७') न चारादौ सकतकत्वरूपमाध्यसन्देहेनोपाघेः साध्यव्यापकत्वसंशयानोपाधिनिश्चय इति वाच्यं, तथापि सन्दिग्धोपा. धित्वस्य दुर्वारत्वात् । न चोपाधिसन्देहाहितो व्यभिचारस. न्देहोऽत्र पक्षीयव्यभिचारसन्देह एव स च न प्रतिबन्धक इति वाच्यं, पक्षतत्समयोर्व्यभिचारसंशयस्यापि प्रतिबन्धकत्वस्वीकारात् । न चैवं सति अनुमानमात्रोच्छेदापत्तिरिति वाच्यं, धूमो यदि वहिव्यभिचारी स्यात्तदा वह्निजन्यो न स्यादित्याद्यनुकूलतर्केण व्यभिचारसन्देहस्यापाकतुं शक्यत्वेनानुमानोच्छेदाभावात् । न च व्यभिचारनिश्चयस्यैव प्रतिबन्धकत्वभिति वाच्यं, लाघवाद् व्यभिचारज्ञानत्वेनैव व्याप्तिधीविरोधित्वसम्भवाद् इति चेत्, न, कार्यत्वेन कृतित्वेन कार्यकारणभावरूपस्यानुकूलतर्कस्यात्रापि सत्वेन कार्यत्वरूपहेतोः कृतिजन्यत्वव्याप्यत्वनिर्णयेन कृतिजन्यत्वव्याप्य. कार्यत्वरूपसाधनाव्यापकत्वेन हेतुना शरीरजन्यत्वरूपोपाधौ कृतिजन्यत्वरूपसाध्याव्यापकत्वानुमाननिश्चयात् इति, अनु. कूलतर्कानवतार एव सन्दिग्धोपाधेय॑भिचारसंशयाधायकत्वात् , अन्यथा पक्षेतरत्वोपाधिशङ्कया प्रसिद्धानुमानस्याप्युच्छेदप्रसङ्गादित्येके । परे तु स्वोपादानगोचरा स्वजनकाऽहष्टाऽजनिका या कृतिस्तदजन्यं समवेतं जन्यं खोपादानगोचरखजनकादृष्टजनकान्यापरोक्षज्ञानचिकीर्षाजन्यम् , कार्यत्वात् । घटादावंशतः सिद्धसाधनवारणाय तदजन्यान्तम् , तादृशकतिजन्यं यत् यत्स्वं तद्भिन्नत्वं तदर्थः, नातो घणुकादेरुपादा Page #43 -------------------------------------------------------------------------- ________________ ( २८ ) नगोचरतादृशकृत्य प्रसिद्ध्या पक्षत्वाभावप्रसङ्गः । तत्र शब्द-फूत्कारादेरपक्षत्वे सन्दिग्धसाध्यकत्वेन तत्रानैकान्तिकत्वसंशयः स्यात्, अतः प्रतियोगिकोटौ गोचरान्तम् तेन शब्दादेर्मृदङ्गादिगोचरतादृशकृतिजन्यत्वेऽपि न स्वोपादानगोचरतादृशकृतिजन्यत्वमिति न दोषः । मन्त्रविशेषपाठपूर्वक स्पर्शजन्यकांश्यादिगमनस्य स्पर्शजन्यादृष्टद्वारा स्वोपादानकांश्यगोचरस्पर्शजनकजन्यकृतिजन्यस्यापक्षत्वे तत्र सन्दिग्धानैकान्तिकत्वं स्यात् । एवं स्वोपादानशरीरगोचरोर्ध्व चरणादितपः कृतिजन्यश्यामशरीरीयगौररूपादौ तत् स्यात् अतः तत्कोटौ स्वजनकेत्यादि । कांश्यगमनादिकं तु स्वजनकादृष्टजनकजन्यकृतिजन्यमेवेत्यदोषो, ध्वंसस्य पक्षतावारणाय समवेत मिति, गगनैकत्वादेः पक्षतावारणाय जन्यमिति । शब्द - फूत्कारादौ सिद्धसाधनवारणाय साध्ये गोचरान्तम् । उक्तकांश्यचालनादौ तद्वारणाय स्वजनकेत्यादि, न च साध्ये पक्षे च गोचरान्तद्वयं माऽस्तु मृदङ्गादिगोचरकृतिजन्यशब्दादिस्तु पक्षबहिर्भूत एव दृष्टान्तोऽस्त्विति वाच्यम्, अदृष्टेतरव्यापारद्वाराऽस्मदादिकतिजन्यत्वसिद्ध्यार्थान्तरप्रसङ्गवारणाय साध्ये तन्निवेशावश्यकत्वे शब्दादावनैकान्तिकत्वसंशयवारणाय पक्षेऽपि तदावश्यकत्वात् तादृशशब्दादिकर्तृतयापि भगवत्सिद्धये पक्षे तनिdisशतः सिद्धसाधनवारणाय साध्ये तन्निवेशावश्यकत्वाच्च । एतेन 'स्वजनकादृष्टजन्यकान्यत्त्वमप्युभयत्र माऽस्तु' इत्यपास्तम्, तादृशकांश्यचालनादिकर्तुतयाऽपि भगवत्सिद्ध्यर्थं पक्षे - Page #44 -------------------------------------------------------------------------- ________________ ( २९ ) तदुपादाने साध्येऽपि तदावश्यकत्वात् । यदि च खजनकादृष्टजनककृतेन स्वजनकत्वम् मानाभावादिति विभाव्यते तदा पक्षे तद् नोपादेयम् , साध्ये तु देयमेव, अन्यथा सर्गान्तरीयज्ञानादीनां व्यणुकाद्युपादानागोचरत्वेन व्यणुकादौ सिद्धसाधनाभावेऽप्युक्तकाश्यचालनादावदृष्टजनककृतिजन्यत्वसिद्ध्या अर्थान्तरापत्तेर्वस्तुगत्या स्वोपादानगोचरकृतिजन्यं यत् , तत्त्वावच्छिन्नभेदकूटवत्त्वेन काश्यचालनादेरपि पक्षान्तर्गतत्वात् इत्याहुः। अन्ये तु द्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यात् कपालवत् , साध्यता त्वत्र विशेष्यतया हेतुता च समवायेन इति न दोषः। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाद् नांशतः सिद्धसाधनम् । न च बहिरिन्द्रियग्राह्यत्वमुपाधिः, अनुकूलतर्केण हेतााप्यतानिर्णये तदनवकाशात् । न च त्रितयस्य मिलितस्य साध्यत्वेऽप्रयोजकत्वम् , मिलितत्वेनाहेतुत्वात् प्रत्येकं साध्यत्वे ज्ञानेच्छावत्वेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यं । मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् । सर्गाद्यकालीनं द्रव्यं ज्ञानवत् कार्यात् पक्षतावच्छेदककालावच्छेदेन साध्यसिद्धरुद्देश्यत्वान दोष इत्यप्याहुः । क्षित्यादिकं सकर्तृकं कार्यत्वात् इत्येवाऽनुमानम् प्रकृतविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः, सकर्तकत्वं च प्रतिनियतकर्वनिरूपितः सम्बन्धो व्यवहारसाक्षिको घटादिदृष्टान्तदृष्टो नित्यवर्गव्यावृत्त इति नानुपपत्तिः इत्यपि केचित् । आयोजनादपि, सर्गाद्यकालीनद्व्यणु Page #45 -------------------------------------------------------------------------- ________________ ( ३० ) कोत्पादकं कर्म स्वसमानकालीनप्रयत्नजन्यं कर्मत्वात् अस्मदादिशरीरकर्मवत् इत्यनुमानात् । न च विपक्षे बाधकाभाव इति वाच्यं, परमाणोरेव तादृशप्रयत्नववे जडताहानिप्रसङ्गात् । इदमत्र हृदयम्-तादृश-प्रयत्नवत्वस्यैव स्वातन्त्र्यपदार्थस्वात् , तस्य च चेतनाधिष्ठानाविनाभावादिति । न चादृष्टमेव तत्र हेतुः, अदृष्टस्य दृष्टहेत्वपेक्षत्वेनैव हेतुत्वात् , अन्यथा दृष्टहेतुमात्रोच्छेदापत्तिः स्यात् , न च इष्टापत्तिरिति वाच्यं, व्यणुकादीनामप्यदृष्टादेवोत्पत्तेः कर्मण एवानुत्पत्तिप्रसङ्गात् , “खातव्ये जडताहानिः, नादृएं दृष्टघातकम ॥ हेत्वभावे फलाभावो, विशेषस्तु विशेषवान् ।" इति वचनात् । तस्मात्परमाण्वादयो हि चेतनायोजिता एव प्रवर्तन्ते अचेतनत्वाद् वास्यादिवत् । अन्यथा कारणं विना कार्यानुत्पत्तिप्रसङ्गः। अचेतनक्रियायाश्चेतनाधिष्ठानकार्यत्वावधारणात् । ननु क्रियासामान्यविश्रान्तः क्रियाविशेषविश्रान्तोवाऽयं नियमो,यदि क्रियासामान्यगोचरस्तदा तस्य चेतनाधिष्ठितत्वे मानाभावात् , यदि च क्रियाविशेषे विश्रान्तः, तदा सा क्रिया चेष्टैव चेष्टा हि यदि चेतनाधिष्ठानमपेक्षते इति चेत् केयं नाम चेष्टा ? साच यदि प्रयत्नवदात्मसंयोगासमवायिकारणिका क्रिया तदा तन्न तत्रैव तस्योपाधित्वाभावात् परमाणुक्रियायां प्रयत्नवदात्मसंयोगासमवायिकारणकत्वस्यैव साध्यत्वादिति तच्च नोपाधिः साधनव्यापकत्वेन साधनाव्यापकत्वघटितस्योपाधिलक्षणस्यानन्वयादिति । अथ हिताहितप्राप्तिपरिहारफलिकैव सा इति चेत्,न, तस्या विषभक्षणाहिलङ्घ Page #46 -------------------------------------------------------------------------- ________________ ( ३१ ) नाद्यव्यापनात् । इष्टानिष्टप्राप्तिपरिहारफलत्वमपि एवं कर्तारं प्रत्यन्यं प्रति वा ? उभयथाऽपि परमाण्वादिक्रियासाधारण्यादविशेषः । भ्रान्तसमीहाया अतथाभूताया अपि चेतनव्यापाराऽपेक्षणाच्च । शरीरसमवायिक्रियात्वमिति चेत् , न, मृतशरीरक्रियायां चेतनव्यापारानपेक्षणात् , जीवत एव इति चेत्, न, नेत्रस्पन्दादेरतथात्वात् । स्पर्शवद्रव्यान्तराप्रेरणे सति शरीरक्रियात्वं तत्, शरीरक्रियोपादानाद् ज्वलनपवनादिक्रियायामतिव्याप्त्यभाव इति चेत् , न, शरीरत्वस्य चेष्टाघटितत्वात् । चेष्टात्वं क्रियाविशेष एव यत उनीयते प्रयत्नपूर्विकेयं क्रियेति चेत् , क्रियामात्रेणैव तदुन्नयनात् ॥ एवं धृतेरपि, ब्रह्माण्डादिपतनाभावः पतनप्रतिबन्धकप्रयत्नप्रयुक्तो धृतित्वाद् उत्पतत्पतत्रिपतनाभाववत् , तत्पतत्रिसंयुक्ततृणादिधृतिवद् वा । एतेनेन्द्रा-ऽग्नि-यमादिलोकपालप्रतिपादका आगमा अपि व्याख्याताः, तेषां तदधिष्ठानदेशानामीश्वरावेशेनैव पतनाभाववत्त्वात् , तथा च श्रुतिः " एतस्य चाक्षरस्य प्रशासने गार्गी द्यावापृथीवी विधृते तिष्ठतः" इति ।। प्रशासन-दण्डभूतःप्रयत्ना, आवेशस्तच्छरीरावच्छिन्नप्रयत्नवत्त्वमेव, सर्वावेशनिबन्धन एव च सर्वतादात्म्यव्यवहार इति ॥"आत्मैवेदं सर्वम् , ब्रह्मवेदं सर्वम्" इत्यादिकम् ।। आदिना नाशादपि, तथाहि, ब्रह्माण्डनाशः प्रयत्नजन्यः नाशत्वात् पाट्यमानपटनाशवदिति ॥ पदादपि-पद्यते गम्यतेऽनेनेति पदं व्यवहारः, ततः, घटादिव्यवहारः स्वतन्त्र Page #47 -------------------------------------------------------------------------- ________________ ( ३२ ) पुरुषप्रयोज्यः व्यवहारत्वात् , आधुनिकपुरुषप्रकल्पितलिप्यादिव्यवहारवत् , न च पूर्वपूर्वकुलादिनैवाऽन्यथासिद्धिः, प्रलयेन तद्विच्छेदात् ॥ प्रत्ययतः प्रमायाः, वेदजन्यप्रमा वक्त्यथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् अर्वाचीनवाक्यजशाब्दप्रमावत् ।। श्रुतेरपि, वेदोऽस्मदादिविलक्षणासंसारिपुरुष. प्रणीतो वेदत्वात् इति व्यतिरेकिणः । न च परमते साध्याप्रसिद्धिः, आत्मत्वमसंसारिवृत्ति जातित्वात् , पटत्ववदित्यनुमानेन पूर्व साध्यसाधनात् । स चासंसारी किश्चिद्वाक्यप्रणेता पुरुषत्वादिति साध्यसिद्धौ सत्यां वेदोऽस्मदादिविलक्षणेत्यादेः साध्यत्वेन दोषाभावादितिभावः । न चास्मदाधुच्चरिते वेदे व्यभिचारः । वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति ॥ एवं वाक्यादपि, वेदः पौरुषेयः वाक्यत्वात् , भारतवत् । एवं संख्याविशेषादपि-संख्याविशेषो द्वयणुकपरिमाणजनिका संख्या इयं सङ्ख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वात् , इत्यस्मदाद्यपेक्षाबुद्धिजन्यत्वाभावेनातिरिक्तापेक्षाबुद्धिसिद्धौ तदाश्रयतयेश्वरसिद्धिः ॥ नचासिद्धिय॑णुकपरिमाणं संख्याजन्यम् , जन्यपरिमाणत्वाद् , घटपरिमाणवदितितत्सिद्धेः। नवा दृष्टान्तासिद्धिः द्विकपालजघटादिपरिमाणात् त्रिकपालजघटादिपरिमाणोत्कर्षादितिदिग् ॥ अथवा कार्य-तात्पर्य वेदे यस्य स एवेश्वरः ॥ आयोजनं सद्व्याख्या, वेदाः केनचिद् व्याख्याताः महाजनपरिगृहीतवाक्यत्वात् , अव्याख्यातत्वे तदर्थानवगमेऽननुष्ठानापत्तेः, एकदेशदर्शिनोऽसदादेश्च व्याख्या Page #48 -------------------------------------------------------------------------- ________________ ( ३३ ) यामविश्वासः,इति तद्व्याख्यातृतयेश्वरसिद्धिः॥धृतिर्धारणं मेधाख्यज्ञानम् , आदिपदार्थोऽनुष्ठानम् , ततोऽपि वेदा वेदविषयकजन्यधारणान्यधारणाविषयाः, धृतिवाक्यत्वात् , लौकिकवाक्यवत् । यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् , अनुष्ठितत्वात् , गमनवत् इति प्रयोगः ॥ पदं प्रणवेश्वरादिपदम् , तत्सार्थक्यात् , स्वतन्त्रोच्चारयितृशक्तश्रुत्यादिस्थाहंपदाद् वा । न चेश्वरादिपदस्य स्वपरता, यदाह" सर्वज्ञता तृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः ॥ अनन्तशक्तिश्व विभोविधिज्ञाः, षडन्तरङ्गाणि महेश्वरस्य ॥१॥" इत्यादिवाक्यशेषेण 'ईश्वरमुपासीत' इत्यादिविधिस्थेश्वरादिपदशक्तिग्रहात् , 'यथा यवमयश्चरुर्भवति' इत्यत्र यवपदस्य दीर्घशूकविशेष आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम् । तत्र हि यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमाना इवोत्तिष्ठन्ति । "वसन्ते सर्वसस्यानां, जायते पत्रशातनम्॥मोदमानाश्च शोभन्ते, यवाः कणिशशालिनः॥१॥" इति वाक्यशेषाद्दीर्घशूके शक्तिर्निीयते, कङ्गौ तु शक्तिभ्रमात्प्रयोगः । प्रत्ययो विधिप्रत्ययः, ततोऽपि, आप्ताभिप्रायस्यैव विध्यर्थस्वात् । न हीष्टसाधनत्वमेव तथा, "अग्निकामो दारुणी मथ्नीयाद्" इति श्रुत्वा कुत इति प्रश्ने यतो दारुमथनमग्निसाधनम् , इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थवत्वानुमानानुपपत्तेः, अभेदे हेतुत्वेनोपन्यासानौचित्यात् । 'तरति मृत्यु योऽश्वमेधेन यजत' Page #49 -------------------------------------------------------------------------- ________________ ( ३४ ) इत्यादौ विधिवाक्यानुमानानुपपत्तेश्चेष्टसाधनताया:प्रागेव बोधनात् , 'कुर्याः कुर्याम्' इत्यादौ वक्तृसङ्कल्पस्यैव बोधात् , आज्ञा-ऽध्येषणा-ऽनुज्ञा-सम्प्रश्न-प्रार्थना-ऽऽशंसादिष्विच्छाशक्तस्वस्यैव कल्पनाच,उल्लङ्घने क्रोधादिभयजननेच्छा आज्ञा,अध्येषणीये प्रयोक्तुरनुग्रहयोतिका अध्येषणा, निषेधाभावव्यञ्जिका अनुज्ञा, प्रयोजनादिजिज्ञासा सम्प्रश्नः, लाभेच्छा प्रार्थना, शु. भेच्छाऽऽशंसा ॥ निषेधानुपपत्तेच, तथाहि, 'न कलशं भक्षयेद्' इत्यत्रेष्टसाधनत्वरूपविध्यर्थे कथं नअर्थान्वयः इष्टसाधनत्वाभावस्य तत्र बाधात् । न च बलवदनिष्टाननुबन्धित्वमपि तदर्थः। श्येनेन अभिचरन् यजेद्' इत्यादौ श्येनस्य शत्रुमरणानुकूलव्यापारस्य हिंसात्वेन नरकसाधनतया बलवदनिष्टानुबन्धित्वाभावस्य बाधात् । न च श्येनस्य नरकसाधनत्वमसिद्धमिति वाच्यं, 'मा हिंस्यात् सर्वभूतानि' इति निषेधविधिना हिंसासामान्यस्य निषिद्धत्वप्रतिपादनेन निषिद्धाचरणस्य नरकसाधनत्वस्यावश्यं स्वीकार्यत्वात् । न च 'अग्निपोमीयं पशुमालभेत' इति विधिचोदिताग्निषोमीययागस्यापि पशुहिंसासाधनत्वेन तस्यापि नरकसाधनत्वापत्त्या 'मा हिंस्यादिति' सामान्यशास्त्रस्य विशेषविधिचोदितयागीयहिंसातिरिक्तहिंसासामान्यनिषेधपरत्वावश्यकतया प्रकृते शत्रमरणस्यापि विधिचोदितयागीयहिंसात्वेन सामान्यशास्त्राप्रवृत्त्या श्येनयागस्यापि न नरकसाधनत्वमिति वाच्यम् । तत्कर्तुः प्रायश्चित्तविधानात् । अन्यथा "अभिचारमहीनं च, त्रिभिः कृच्छय॑पोहति"इत्याभि Page #50 -------------------------------------------------------------------------- ________________ ( ३५ ) चारिककर्मकर्तृकारयित्रोः, अहीनयागकर्तृकारयित्रोश्च कृच्छ्त्रयरूपप्रायश्चित्तविधानस्य वैयापत्तेरिति दिग्। किञ्च, अलसस्य यागादिदुःखेऽपि बलवद्वेषेण यजेत इत्यादी बाधात् । किश्च बलवदनिष्टाननुबन्धित्वादिरूपधर्मस्य शक्यतावच्छेदकत्वकल्पनापेक्षयकेच्छात्वस्य शक्यतावच्छेदकत्वौचित्यादासाभिप्रायस्यैव विध्यर्थत्वात् , तादृशाभिप्रायवदीश्वरसिद्धिः ॥ श्रुतिः-ईश्वरविषयो वेदः, ततः " यज्ञो वै विष्णुः" इत्यादेविध्येकवाक्यतया “ यन्न दुःखेन सम्भिन्नम्" इत्यादिवत् तस्य स्वार्थ एव प्रामाण्यात् । वाक्यात्-वैदिकप्रशंसा-निन्दावाक्यात् , तस्य तदर्थज्ञानपूर्वकत्वात् । संख्या "स्याम् , अभूवम् , भविष्यामि" इत्याधुक्ता । ततोऽपि स्वतन्त्रोचारयिनिष्ठाया एव तस्या अभिधानादिति रहस्यम् ।। अत्र प्रतिविधीयते-तस्य महेश्वरस्य धर्मादिस्वीकारेऽस्मदादिवत्संसारी एव स्यादिति विरुद्धसाधनं स्यात् ।। किश्च तस्य धर्मविशेषे स्वीकृते सति देहविशेषोऽपि स्वीकार्यः, अन्यथा तमन्तरेण धर्मविशेषस्याप्यनुपपत्तिप्रसङ्गः, तदनुपपत्तौ सत्यामैश्वर्यायोगात् कुतो जगनिमित्तकारणत्वं सिध्येत् मुक्तात्मवत् । अत्र केचित्-"कस्यचिद्दुष्टस्य निग्रहं शिष्टस्य चानुग्रहं करोतीश्वरः प्रभुत्वात् लोकप्रसिद्धपभुवत् । न चैवं नानेश्वरसिद्धिः, नानाप्रभूणामेकमहाप्रभ्वायत्तत्वदर्शनात् । तथा हि-विवादाध्यासिता नानाप्रभवः एकमहाप्र. भ्वायत्ता एव नानाप्रभुत्वात् , ये ये नानाप्रभवस्ते ते एक Page #51 -------------------------------------------------------------------------- ________________ ( ३६ ) महाप्रभुतन्त्रा दृष्टाः, यथा सामन्तमाण्डलिकादयः एकचक्रवर्तितन्त्राः, प्रभवश्चैते नानाचक्रवर्तीन्द्रादयः तस्मादेकमहाप्रभुतन्त्रा एव, योऽसौ महाप्रभुः स महेश्वर इत्येकेश्वरसिद्धिः। स च स्वदेहनिर्माणकरोऽन्यदेहिनां निग्रहानुग्रहकरत्वात् , यो योऽन्यदेहिनां निग्रहानुग्रहकरः स स स्वदेहनिर्माणकरो दृष्टो यथा राजा, तथा चायमन्यदेहिनां निग्रहानुग्रहकरः, तस्मात्स्वदेहनिर्माणकर इति सिद्धम्" इत्याहुः, तदपि न सम्यक, विकल्पासहत्वात् , विकल्पासहत्वं च यथा स महेशो देहान्तरं विना स्वदेहं जनयेद् , उत देहान्तरेण ? । न तावदेहान्तराद् विना, तथा सति निग्रहानुग्रहलक्षणकार्यस्यापि तथैव जनने देहाधानमनर्थकम् । यदि पुनर्देहान्तरादेव स्वदेहं विदधीत तदा तदपि देहान्तरमन्यस्मादेहान्तरादिति गगनावलम्बिनी अनवस्थालता प्रसरमाप्नुयात् ,तथा चापरापरदेहनिर्माण एवो. पक्षीणशक्तिकत्वाद् न कदाचिदपि प्रकृतं कार्य कुर्यादीश्वरः । किञ्च पूर्वपूर्वस्वशरीरेणोत्तरोचरस्वशरीरोत्पत्तौ भवस्य निमित्तकारणत्वे सर्वसंसारिणां तथाप्रसिद्धेरीश्वरकल्पनस्यानर्थक्यं स्यात् , तथा च स्वोपभोग्यभवनाद्युत्पत्तावपि निमित्तकारणत्वोपपत्तेन कार्यत्वाचेतनोपादानत्वसनिवेशविशिष्टत्वहेतवो गमकाः स्युः, कथं वाऽपाणिपादत्वप्रतिपादक एवाऽऽगमः प्रदेशान्तर ईश्वरस्य वेदादिप्रणिनीषया ब्रह्मादिशरीरपरिग्रहं प्रतिपादयद्भिः स्वाङ्गैरेव न विरुध्यात् । किश्च तस्य महेश्वरस्य परप्रेरणे प्रयोजनाभावः, वीतरागत्वेन कृतकृत्यत्वात् । यो Page #52 -------------------------------------------------------------------------- ________________ ( ३७ ) हि परप्रेरको दृष्टः स प्रयोजनवान् एव दृष्टः। "प्रयोजनं विना मन्दोऽपि न प्रवर्त्तते " इति न्यायोऽपि तस्य परप्रेरकत्वे बाधकः। तथा चोक्तम् । “न च प्रयोजनं किश्चित्स्वातन्त्र्यान्न पराज्ञया॥" ननु क्रीड़ार्थमेव तस्य प्रेरकत्वमिति चेत्, न, रागद्वेषाभ्यां वैराग्यव्याहतेः, तथा चोक्तम्-"क्रीडया चेत् प्रवर्तेत, रागवान्स्यात् कुमारवत् ।।" ननु कारुण्यादेव भगवतः प्रवृत्तिरिति चेत् , तदा सुखरूपमेव प्राणिवर्ग सृजेत् , न च निरपेक्षस्य कर्तृत्वेऽयं दोष इति वाच्यं, स्वतन्त्रताव्याघातप्रसङ्गात् , “कर्मापेक्षः स चेत्तर्हि, न स्वतन्त्रोऽस्मदादिवत्" इति॥ ननु कर्मणो जडत्वेन कथं तस्य प्रवर्तकत्वमिति चेत्, तत्स्वभावत्वात् । अथ महेशस्यापि तत्स्वभावत्वे को दोष इति चेत्, कर्मणो जगजननस्वभावत्वे बाधकाभावात् । महेशस्य तु तत्स्वभावत्वे कृतकृत्यत्वबाधनम् , वीतरागत्वव्याहतेः । किश्च ज्ञानादीनामनादित्वकल्पने प्रमाणाभावाद्धाधकसद्भावाच्च कल्पनाया दृष्टानुसारित्वात् ,अन्यथापि लाघवानुसरणे सर्वव्यवहारलोपप्रसङ्गात् । एतेन तत्साधकागमोऽपि प्रमाणविधुर एव, तस्यैवासिद्धत्वे तदुक्तत्वेनागमस्य प्रामाण्याभावात् । एवं कारिकोक्तान्यनुमानान्यपि न तत्साधकानि,तथाहि-कार्येण तत्साधने आद्यानुमाने नानुकूलस्तर्कः, तत्तत्पुरुषीयपटाद्यर्थिप्रवृत्तित्वावच्छिन्नं प्रति तत्तत्पुरुषीयपटादिमत्त्वप्रकारकोपादानप्रत्यक्षत्वेन हेतुत्वावश्यकत्वात् , प्रत्यक्षत्वेन कार्यसामान्यहेतुत्वे मानाभावात् , चिकीर्षाया अपि प्रवृत्तावेव हेतुत्वात् , कृतेर Page #53 -------------------------------------------------------------------------- ________________ ( ३८ ) पि विलक्षणकृतित्वेनैव घटत्व-पटत्वाद्यवच्छिन्नं प्रति हेतुत्वात् । न च प्रवृत्ताविव घटादावपि ज्ञानेच्छयोरन्वयव्यतिरेकाभ्यां हेतुत्वसिद्धेः, तत्र घटत्व-पटत्वादीनामानन्त्यात् कार्यत्वमेव साधारण्यात् कार्यतावच्छेदकम् , शरीरलाघवमपेक्ष्य सङ्ग्राहकलाघवस्य न्याय्यत्वात् , कृतेस्तु "यद्विशेषयोः कार्यकारणभावोऽसति बाधके तत्सामान्ययोरपि", इति न्यायात् सामान्यतोऽपि हेतुत्वमिति वाच्यम् , एवं सति शरीरत्वेन चेष्टात्वेन च हेतुत्वान्नित्यशरीरचेष्टयोरपि सिद्ध्यापत्तेः । न च परमाणव एव प्रयत्नवदीश्वरात्मसंयोगजन्यचेष्टावन्त ईश्वरस्य नित्यानि शरीराणि, आचार्यैस्तथास्वीकृतत्वात् , चेष्टाया नित्यत्वे तु मानाभावः, अनित्यचेष्टाया अपि सर्गादौ सम्भवात् , ईश्वरप्रयत्नाधीनचेष्टावतां सर्वेषामेव वेश्वरशरीरत्वम् , अत एव सर्वावेशपरा सर्वाभेदश्रुतिरिति वाच्यम् , परमाणूनां नित्येश्वरशरीरत्वे तद्गतक्रियाया अपि नित्यायाश्चेष्टायाः कल्पनापत्तेः, सर्वावेशे च सर्वत्र क्रियामात्रस्य चेष्टात्वपर्यवसाने विलक्षणचेष्टात्वजात्युच्छेदापत्तेः, सर्वशरीरावच्छिन्नविलक्षणमनःसंयोगजनकप्रयत्नवदात्मसंयोगरूपसर्वावेशस्वीकारे च प्रत्यात्मनियतमनोभिन्नमनःप्रवेशेन सर्वेषामुन्मादजनकताया ईश्वरस्यापत्तेः, अन्यथाऽऽवेशपदार्थाघटनात् , " पुरुष एवेदम्" इत्यादावपि सर्वावेशनिबन्धः सर्वतादात्म्यव्यवहार इत्यपि न शोभते, किन्तु सर्वतादात्म्यप्रतिपादकश्रुतीनां सर्वविषयतारूपावेशपरत्वमेव निश्चयतः सर्वस्य सर्वज्ञत्वादिति, उपमामात्रस्य स. Page #54 -------------------------------------------------------------------------- ________________ ( ३९ ) र्वात्मसाधारणत्वात् सर्वात्मगुणसाधारणत्वेन पुनरावेशकारणत्वं नेश्वरस्य युक्तिमत् कालादिवदिति कार्यत्वस्य कालिकेन घटत्व पटत्वादिमश्वरूपस्य नानात्वात्, ध्वंसव्यावृत्यर्थं देयस्य सवस्य विशेषणविशेष्यभावे विनिगमनाविरहेणातिगुरुत्वाच्च । नच द्रव्यजन्यतावच्छेदकतया सिद्धं जन्यसच्त्रम्, अवच्छिन्नसमवेतत्वं वा तज्जन्यतावच्छेदकम्, तथापि विनिगमनाविरहात् ॥ 6 9 किञ्च यद्विशेषयोः' इति नियमे मानाभावः, तस्याप्रयोजकत्वात् । न च कार्यसामान्यस्याभावे कुलालादिकृत्यभावकूटस्य प्रयोजकत्वे गौरवं कृतित्वावच्छिन्नाभावस्यैकस्य तथात्वे लाघवं तच्च कृतित्वस्य कारणतावच्छेदकत्वमन्तरा न सम्भवति, कारणतावच्छेदकधर्मावच्छिन्नाभावस्यैव कार्यतावच्छेदकधर्मावच्छिन्नाभावप्रयोजकत्वात्, तथा च लाघवमूलक एव " यद्विशेषयोः" इति नियम इति वाच्यं, यतः कारणतावच्छेदकधर्मावच्छिन्नाभाव एव कार्याभावे प्रयोजक इति न नियमः, किन्तु " स्वरूपसम्बन्धरूपप्रयोजकत्वं प्रतीत्यनुरोधेन लध्वनतिप्रसक्तधर्मावच्छेदेन कल्प्यते" इति नियमः, तथा च लाघवादेव कारणतावच्छेदक कृतित्वावच्छिन्नप्रतियोगिताकै काभावस्य कार्याभावप्रयोजकत्वं कृतित्वेन कार्यत्वेन कार्यकारणभावमन्तराऽपि सूपपादमेव । किञ्चैवं प्रायोगिकत्वमेव शैलादिव्यावृत्तं देवकुलाद्यनुवृत्तं सकलजनव्यवहारसिद्धं प्रयत्नजन्यतावच्छेदकमस्तु सम्भवति व्याप्यस्यावच्छेदकत्वे व्यापकस्य तत्प्रकल्पनेऽतिप्रसङ्गात् । यत्तु " घटत्वाद्यवच्छिन्ने कृतित्वेन Page #55 -------------------------------------------------------------------------- ________________ (80) हेतुत्वेऽपि खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसच्चादीश्वरसिद्धिः" इति दीधितिकारेणोक्तं तदतितुच्छम् । अस्माभिः स्याद्वादिभिस्तत्र घटे स्वण्डत्व पर्यायस्यैवाभ्युपगमात् । युक्तं चैतत् प्रत्यभिज्ञोपपत्तेः । तत्र सादृश्यादिदोषेण भ्रमकल्पने गौर - वात् लोकव्यवहारबाधाच्च, अत एव पाकेनापि नान्यघटोत्प त्तिर्विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादेर्द्रव्यस्य कथञ्चिद् विनाशेऽप्युत्पादसम्भवात् इति, व्यक्तमन्यत्र । किश्च घटत्वा द्यवच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वात् कृतित्वेन व्यापकधर्मेणान्यथासिद्धेरतच्वात् । केचित्तु कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सच्चान्नेश्वरकृतिसिद्धिः । न च वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादेर्भाशानैवं सम्भवतीति वाच्यम्, पूर्वसंयोगादिध्वंस पूर्वद्व्यणुकादिध्वंसानामुत्तरसंयोगद्वयणुकादावन्ततः कालोपाधितयापि जनकत्वात्, तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सच्चात्, अन्यथा घटत्वाद्यवच्छिन्ने दण्डादिहेतुत्वमपि दुर्वचं स्यात् । न च दण्डादिजन्यताच्छेदकं विलक्षणघटत्वादिकमेवेति न दोष इति वाच्यं, कृतिजन्यतावच्छेदकस्यापि तस्यैव स्वीकारे बाधकप्रमाणाभावात् । ननु कृतेर्लाघवाद् विशेष्यतयैव हेतुत्वस्वीकारेण तत्र दण्डस्य स्वप्रयोज्यकपालद्वय संयो गेन सत्त्वात् न तस्य कारणताभङ्गदोषः, किन्तु कुलालकृतेविशेष्यतया तत्राभावात् तत्रैव खण्डघटे तत्सिद्धिरिति चेत्, न, Page #56 -------------------------------------------------------------------------- ________________ ( ४१ ) कृतेरपि स्वप्रयोज्यकपालद्वयसंयोगसम्बन्धेनैव हेतुत्वे बाधकाभावात् । न च विशेष्यत्वापेक्षया स्वप्रयोज्यकपालद्वयसं. योगसम्बन्धेन हेतुत्वे गौरवमिति वाच्यं, घटत्वावच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वादिति दिक् ॥ किञ्च उपादानप्रत्यक्षस्य लौकिकस्यैव हेतुत्वात् कथमीश्वरे तत्सिद्धिः, अपि च प्रणिधानाद्यर्थ मनोवहननाडयादौ प्रवृत्तिस्वीकाराद् यद्धर्मावच्छिन्ने यदर्थिप्रवृत्तिः तद्धर्मावच्छिन्ने तत्प्रकारकज्ञानमात्रस्य हेतुत्वात् कथमुदानप्रत्यक्षमीश्वरस्य । ननु तस्यानुमितित्वे जन्यानुमितित्वं व्याप्तिज्ञानजन्यतावच्छेदकमिति गौरवदोषात्तस्य प्रत्यक्षत्वमिति चेत् , न, प्रत्यक्षत्वेऽपि जन्यप्रत्यक्षत्वस्यैवेन्द्रियादिजन्यतावच्छेदकत्वकल्पनायाः तदवस्थत्वात् । अपि च तदुपादानप्रत्यक्षं निराश्रयमेवाऽस्तु, दृष्टविपरीतकल्पनभिया तु नित्यज्ञानादिकमपि कथं कल्पनीयमित्युक्तमेव । किञ्च तदुपादनप्रत्यक्षं यदि नित्यं व्यापकञ्च तदा तदेवाचेतनपदार्थाधिष्ठातृ भविष्यति, इति किमपरतदाधारेश्वरपरिकल्पनया। किश्च एवं नानात्मस्वेव व्यासज्यवृत्ति तत्कल्प्यताम् । स्वाश्रयसंयुक्तसंयोगसम्बन्धेन तेषु तत्कल्पनापेक्षया समवायेन व्यासज्यवृत्तितत्कल्पनाया एव भवतांन्याय्यत्वात् । नचैवं घटादिभ्रमोच्छेदापत्तिर्वाधबुद्धिसत्वादिति वाच्यं, बाधबुद्धिप्रतिबन्धकतायां चैत्रीयत्वस्यावश्यंनिवेश्यत्वेन तच्च समवेतत्वसम्बन्धेन चैत्रवत्त्वं,पर्याप्तत्वेन वा,इति न किश्चिद्वैषम्यम्। अपि च " देवताः संनिधानेन, प्रत्यभिज्ञानतोऽपि वा" इति Page #57 -------------------------------------------------------------------------- ________________ (४२ ) पक्षण प्रतिष्ठादिना स्वाभेदस्वीयत्वादिज्ञानं तदाहितसंस्काररूपं ब्रह्मादौ स्वीकृतम् , न च ब्रह्मादीनामीश्वरभेदः, भगवद्गीताविरोधात् । एवं वैषयिकसुख-दुःखादिश्रवणाद् धर्माऽधर्मावपि तत्रेश्वरेऽङ्गीकर्तव्यौ । न च विरोधः, ब्रह्मादिशरीरावच्छेदेनानित्यज्ञानादिसत्वेऽप्यनवच्छिन्नज्ञानाविरोधात् । अत एवाऽन्ये तु " स तपोऽतप्यत" इति श्रुतेः अणिमादिप्रतिपादकश्रुतेश्च धर्माऽधर्मावनित्यज्ञानादिकमीश्वरे स्वीकुर्वन्ति । एतन्मते च बाधादिप्रतिबन्धकतायामवच्छिन्नसमवेतत्वेन चैत्रवत्त्वादिलक्षणचैत्रीयत्वादेरवश्यं निवेश्यत्वान्नातिरिक्तनित्यज्ञानाश्रयसिद्धिः । किञ्च, प्रवृत्तिविशेषे इच्छान्वय-व्यतिरेकवत् , प्रवृत्तिविशेषे द्वेषाऽन्वय-व्यतिरेकावपि दृष्टौ, दुःखद्वेषण तत्साधनद्वेषे तन्नाशानुकूलप्रवृत्तेः कण्टकादौ दर्शनात् । न च जिहासयैव द्वेषाऽन्यथासिद्धिः, “तद्धेतोरेव तदस्तु किं तेन" इति न्यायाद्, द्वेषस्यैव तत्कारणत्वात् ,अन्यथा द्वेषपदार्थ एव न स्यात् , न च रागाभाव एव द्वेषपदार्थोऽस्तु, द्वेष्मीत्यनुभवे क्वचिदनिष्टसाधनज्ञानस्य क्वचिच्चानिष्टज्ञानस्यैव द्वेषपदेन त. थाऽभिलापात् । एवं च कार्यसामान्ये द्वेषस्यापि हेतुत्वसिद्धौ नित्यद्वेषोऽपीश्वरे सिध्येत् । ननु द्वेषवत्वे च तस्य संसारित्वप्रसङ्ग इति चेत् , चिकीर्षावत्वेऽपि किं न सः । ___ अथ द्वेष-चिकीर्षयोस्तत्र समानविषयत्वे करणाकरणप्रसङ्गः, भिन्नविषयत्वे च तत्कायं न कुर्यादेवेति बाधकाद् द्वेषकल्पना त्यज्यत इति चेत्, न, फलमुखगौरवस्यादृषकत्वात् , Page #58 -------------------------------------------------------------------------- ________________ ( ४३ ) अन्यथा एवमुत्तरकालोपस्थितबाधकस्यापि दूषकत्वस्वीकारे नित्यज्ञानादिकल्पनागौरवादिबाधकेन क्लप्तोऽपीश्वरस्त्यज्यता. मिति " पुत्रलिप्सया देवं भजन्त्या भापि नष्टः" इति न्या. यादू महदनिष्टमापतितम् । एतेन "पुरेषु पुरेशानामिव जगदी. शज्ञानेच्छादित एव तत्कार्याणां स्वल्पतमाऽधम-देश-कालादिनियमः, वदन्ति हि पामरा अपि-" ईश्वरेच्छैव नियामिका" इति, न चैवं तत्तद्देश-काल-नियततत्तत्कार्योत्पत्तिज्ञानादित एव तत्तत्कार्यनिर्वाहे गतं दण्डादिकारणत्वेनेति वाच्यं, तदनुमतत्वेनैव दण्डादीनां घटादिहेतुत्वात् । नहि दण्डादिरेव घटादेरनन्यथासिद्धनियतपूर्ववर्ती, न वेमादि, कपालादिसमवायि न तन्त्वादिकम् , इत्यत्राऽन्यद् नियामक पश्यामः, इति तदनुमत्यादिकमेव । तथा च तदनुमत्यादिकं न साक्षात् , किन्तु तत्तत्कारणद्वारा तत्तत्सम्पादकम् । नहि राजाज्ञादितो विनांशुकं तन्त्वादि,विना तन्त्वादिकं पटादि" इति पामराशयानुसरणसङ्क्रान्तं पामरभावानां मतमपास्तम् , राजाज्ञादितुल्यतयेश्वरेच्छाया अहेतुत्वात् , सामग्रीसिद्धस्य नियतदेश-कालत्वस्य तज्जन्यताघटकतया तदनियम्यत्वात् , अन्यथा तत्कालावच्छिन्नतद्घटावच्छिन्नविशेष्यतयोपादाननिष्ठतयोपादानप्रत्यक्षादित्रयहेतुताकल्पने गौरवात् , समवेतत्वसम्बन्धेनेश्वरीयत्वेन तत्तत्त्रयानुगमेऽप्यसंसार्यात्मत्वलक्षणेश्वरत्वनिवेशे गौरवात् , प्रत्येकमादाय विनिगमनाविरहाच । तकालावच्छिन्नतद्घटावच्छिन्नत्वसम्बन्धेन नियतेरेव हेतुत्व Page #59 -------------------------------------------------------------------------- ________________ __ ( ४४ ) कल्पनौचित्यात , इतरकारणवैयापत्तेश्च । तदनुमतदण्डत्वादिनाऽहेतुत्वात् दण्डादीनां हेतुत्वनियमस्य च स्वभावत एव सम्भवात् , न तदर्थमपीश्वराऽनुसरणम् , अन्यथा तज्ज्ञानादेस्तत्तत्कारणानुमतत्वेऽपि नियामकान्तरं गवेषणीयम् । ननु धर्मिग्राहकमानेन तत् स्वतो नियतमेवेति चेत् , न, दण्डादी. नामपि स्वतो नियतत्वस्वीकारे बाधकाभावाद्, इत्यन्यत्र विस्तरः॥ तथाहि " न चाचेतनानामपि स्वहेतुसंनिधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देशकालाकारनियमोऽनुपपन्नः, तनियमस्य स्वहेतुबलायातत्वात् " इत्यादि सम्मतिटीकायाम् । किञ्च एतादृशनियामकत्वं भवस्थसिद्वादिज्ञान एव, इति किं शिपिविष्टकल्पनाकष्टेन ? ___ तदिदमुक्तं कलिकालसर्वज्ञेन “ सर्वभावेषु कर्तृ. त्वं, ज्ञातृत्वं यदि सम्मतम् ॥मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि हि ॥१॥" इति । युक्तं चैतत् , "जं जहा भगवया दिटुं तं तहा विपरिणामई" इति भगवद्वचनस्यापीत्थमेव व्यवस्थितत्वात् । एवं च ।। .. "समालोच्य क्षुद्रेष्वपि भवननाथस्य भवने । नियोगाद् भूतानां मितसमय-देश-स्थिति-लयम् ॥ - अये ! केयं भ्रान्तिः सततमपि मीमांसनजुषां। व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः ॥१॥ ___इति पद्येऽपि न्यायाचार्याणां पद्यानि ॥ Page #60 -------------------------------------------------------------------------- ________________ ( ४५ ) "पिनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः । स्वभावाद् भूतानां मितसमयदेशस्थितिरिति ॥ . अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा ययापारो जगति जगदीशस्य कथितः ? ॥१॥ अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि निजव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् ।। ____ अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा यद् व्यापारो जगति जगदीशस्य गदितः॥२॥ प्रवाहेणानादिः स च परिविशुद्धोऽपि गदितो। मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥ तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥ ३ ।। __यदेवैतद्रूपं प्रथममथ सालम्बनपदे । तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥ रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं । कथं लीलारूपं स्फुटयतु निराकारपदवीम् ? ॥४॥ .. अता लीलैशीत्यपि कपिकुलाधीतचपल- . स्वभावाद् भ्रान्तत्वं विदधति परीक्षां हि सुधियः। . न यद् ध्यानस्याङ्गं तदिह भगवद्र्पमपि किं ॥ जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते !! ॥५॥ Page #61 -------------------------------------------------------------------------- ________________ ___( ४६ ) ततो यो योगा बहुभिरिह गाडैरिव जलैविशुद्धः शुद्धात्माऽलभत विरजाः सिद्धपदवीम् । निषेव्यो ध्येयोऽसौ निरुपधिविशुद्धिर्भगवतो। बुपास्यत्वे तन्त्रं न तु विमतकरैंकविभुता ॥६॥" इति दिग् ॥ अत एवाग्रिमाण्यनुमानान्यप्यपास्तानि । किञ्च द्वितीयानुमाने 'स्वोपादानं' इत्यत्र स्वपदस्य व्यणुकादिपरत्वे साध्याप्रसिद्धिः, घंटादिपरत्वे पटादौ सन्दिग्धानैकान्तिकत्वम् , स्वोपादानगोचरत्वादिनाऽऽपाततोऽपि हेतुत्वाभावतोऽप्रयोजकत्वं च ॥ तृतीये ज्ञानेच्छापदोपादानप्रयासः॥ चतुर्थे सर्गासिद्ध्या परं प्रति पक्षासिद्धिः॥ पश्चमे तु क्षित्यादावकर्तृकत्वस्यैव व्यवहाराद् बाधः। विशेषान्वय-व्यतिरेकाम्यां कर्तृत्वेन कार्यसामान्य एव हेतुत्वग्रहाद् न बाध इति चेत् , तर्हि शरीरचेष्टयोरप्यन्वयव्यतिरेकाम्यां कार्यसामान्यहेतुत्वात्तयोरपि नित्ययोगीश्वरे प्रसक्तिरित्युक्तमेवानेकधा । अथ नित्यशरीरमिष्यते एव भगवतः । तत्र परमाणव एव प्रयत्नवदीश्वरात्मसंयोगाधीनचेष्टावन्त ईश्वरस्य शरीराणि इत्येके । वायुपरमाणव एव नित्यक्रियावन्तस्तथा, अत एव तेषां सदागतिमत्त्वमित्यन्ये । 'आकाशशरीरं ब्रह्म' इति श्रुतेः 'आकाशस्तच्छरीरम् 'इत्यपरे । चेष्टाया नित्यत्वे तु मानामावः, नित्यज्ञानसिद्धौ तु श्रुतिरपि पक्षपातिनी, 'नित्यं विज्ञानं आनन्दं ब्रह्म' इति, अत एव ज्ञानत्वावच्छेदेनात्ममनो Page #62 -------------------------------------------------------------------------- ________________ ( ४७ ) योगजन्यत्वं न बाधकमिति चेत् , न, ईश्वरसम्बन्धस्य सर्वत्राविशेषेण 'इदमेवेश्वरशरीरम्' इति नियमायोगात् , चेष्टाया अपि ज्ञानवदेकस्या नित्यायाश्च स्वीकारौचित्यात् , उक्तश्रुतेस्त्वदभिमतेश्वरज्ञानापक्षपातित्वाच्च । अन्यथा आनन्दोऽपि तत्र सिध्येत् ज्ञानाऽऽनन्दभेदश्चेति दिग् ॥ एवं आयोजनादपि नेश्वरसिद्धिः, ईश्वराधिष्ठानस्य सर्वदा सत्त्वेऽप्यदृष्टविलम्बादेवाऽऽद्याणुक्रियाविलम्बात् , तत्र तद्धेतुत्वावश्यकत्वात् , दृष्टकारणसव एवादृष्टविलम्बेन कार्याविलम्बात् , अदृष्टस्य दृष्टाघातकत्वात् । चेष्टात्वस्याऽनुगतत्वेनोपाधित्वाच । तदवच्छिन्न एव हि जीवनयत्नव्यावृत्तेन प्रवृत्तित्वेन गमनत्वादिव्याप्यत्वे तु विलक्षणयत्नत्वेनैव हेतुत्वात्, क्रियासामान्ये यत्नत्वेन हेतुत्वे मानाभावात् । “ यद्विशेषयोः" इत्यादिन्याये मानामावस्योक्तत्वादेव ॥ एवं धृतेरपि नेश्वरसिद्धिः, गुरुत्ववस्पतनाभावमात्रस्य गुरुत्वेतरहेत्वभावप्रयुक्तस्याम्रफलादावेव व्यभिचारित्वात् । प्रतिबन्धकाभावेतरसामग्रीकालीनत्वविशेषणेऽपि वेगवदिषुपतनाभावे तथात्वात् । वेगाप्रयुक्तत्वस्यापि विशेषणत्वे मन्त्रविशेषप्रयुक्तगोलकपतनाभावे तथात्वात् । अदृष्टाप्रयुक्तत्वस्यापि विशेषणत्वे च स्वरूपासिद्धिः, ब्रह्माण्डधृतेरप्यदृष्टप्रयुक्तत्वात् , तदुक्तम् ॥ . "निरालम्बा निराधारा, विश्वाधारो वसुन्धरा । यच्चावतिष्ठते तत्र, धर्मादन्यदू न कारणम् ॥१॥" Page #63 -------------------------------------------------------------------------- ________________ ( ४८ ) इति । युक्तं चैतत्, ईश्वरप्रयत्नस्य व्यापकत्वेन समरे - sपि शरपाताsनापत्तेः । पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे तादृशज्ञानेच्छाभ्यां विनिगमनाविरहात् क्लृप्तजातीयस्यादृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् । न चात्माविभुत्ववादिनः सम्बन्धानुपपत्तिः, असम्बद्धस्यापि तत्कार्यजननशक्तस्य तत्कार्यकारित्वात्, अयस्कान्तस्याऽसम्बद्धस्यापि लोहाssकर्षकत्वदर्शनादित्यन्यत्र विस्तरः ॥ प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धकसंयोगविशेष एव हेतुत्वम् । ब्रह्माण्डनाशकतयापि नेश्वरसिद्धि:, प्रलया - नभ्युपगमात्, अहोरात्रत्वस्याऽहोरात्र पूर्वकत्वव्याप्यत्वात् । न च वर्षादिदिनत्वेनाऽव्यवहितवर्षादिदिनपूर्वकत्वे साध्ये राशि - विशेषावच्छिन्नरविपूर्वकत्ववदत्राव्यवहित संसारपूर्वकत्वमुपाधिः, राशिविशेषे वर्षादिदिनस्य हेतुत्वेन तत्रानुकूलतर्केणोपाधेः साध्यव्यापकत्वग्रहेऽप्यनुकूलतर्काभावेन प्रकृतोपाधेरसमर्थत्वात्, कालत्वस्य भोग्यव्याप्यत्वाच्च । कर्मणां विषमविपाकतया युगपद् निरोधासम्भवात्, सुषुप्तौ कतिपयाऽदृष्टनिरोधस्य दर्शनावरणरूपाऽदृष्टसामर्थ्यादेवोपपत्तेर्बलवताऽदृष्टेनादृष्टान्तरप्रतिरोधदर्शनात्, प्रलये तु कथं तादृशादृष्टं विनाऽदृष्टनिरोधः स्यात् १, अन्यथा त्वनायाससिद्धो मोक्षः, इति किं ब्रह्मचर्यादिक्लेशानुभवेन १ ॥ इति सङ्क्षेपः ॥ एतेन " आद्यव्यवहारादीश्वरसिद्धि:, प्रतिसर्ग मन्वादीनां बहूनां व्यवहारप्रवर्तकानां कल्पने गौरवादेकस्यैव भगवतः सिद्धेः" इत्यप्यपास्तम्, सर्गा Page #64 -------------------------------------------------------------------------- ________________ (४९) देरेवासिद्धेः, इदानीमिव सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः । यदि तु सर्गादिरुपेयते, तदा तदानी प्रयोज्य-प्रयोजकवृद्धयोरभावात् कथं व्यवहारः १॥ अथ यथा मायाविसूत्रसञ्चाराधिष्ठितदारुपुत्रकं घटमानय' इत्यादि नियोज्य घटानयनं सम्पाद्य बालकस्य व्युत्पत्तौ प्रयोजकः तथेश्वरोऽपि प्रयोज्यप्रयोजकवृद्धीभूय व्यवहारं कृत्वाऽsधव्युत्पत्तिं कारयति । न चात्र चेष्टया प्रवृत्तिम् , तया ज्ञानं, तज्ज्ञाने उपस्थितवाक्यहेतुत्वं, तज्ज्ञानविषयपदार्थे चाऽऽवापोद्वापाभ्यां तत्तत्पदज्ञानस्य हेतुत्वमनुमाय तत्तत्पदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थसम्बन्धवत्वमनुमेयम् , एवं चायं सम्बन्धग्रहो भ्रमः स्यात्, जनकज्ञानस्य भ्रमत्वात्, इति वाच्यं, तत्त्वेऽपि विषयाबाधेन प्रमात्वात् , चरमपरामर्शस्य प्रमात्वसम्भवाच्च । एवमीश्वर एव कुलालादिशरीरं परिगृह्य घटादिसम्प्रदायप्रवर्तकः, अत एव श्रुतिः-'नमः कुलालेभ्यो, नमः कर्मारेभ्यः' इत्यादि इति चेत् । न । अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैव भगवतोऽयुक्तत्वात् । अन्यादृष्टेनान्यस्य शरीरपरिग्रहे च चैत्रादृष्टाकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् । ननु प्राण्यदृष्टेन घटादिवत् तत्तच्छरीरोत्पत्तिः, तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत्, न, घटादावतथात्वेऽपि तदीयशरीरे तदीयादृष्टत्वेनैवं हेतुत्वात् , अन्यथाऽतिप्रसङ्गात् । Page #65 -------------------------------------------------------------------------- ________________ ( ५० ) किश्च कोऽयमावेशः, तदवच्छिन्नप्रयत्न एवेति चेत्, न, तदजन्यस्य प्रयत्नस्य तदनवच्छिन्नत्वात् । अथैवम्भूतावेशानुपपत्तिः तत्र हि भूतात्मन्येव चैत्राद्यवच्छेदेन प्रवृत्तिरङ्गीक्रियते, अन्यथा मृतशरीरे तदावेशतापत्तेरिति चेत् , इयमपि तवैवानुपपत्तिः, न तु अस्माकं स्याद्वादिनां, तत्र सङ्कोचविकासस्वभावभूतात्मप्रदेशानुप्रवेशसद्भावात् । तव त्ववच्छेदकतया चैत्रप्रयत्नं प्रति चैत्रशरीरत्वेनावश्यहेतुता वक्तव्या, अन्यथा मैत्रशरीरावच्छेदेन चैत्रप्रवृत्त्यापत्तेः, पाण्यादिचालकप्रयत्नसत्त्व एव पुनस्तदापत्तिवारणायावच्छेदकतया तत्प्रयत्ने तया तद्भावस्य हेतोरापादकस्य सत्त्वात्, तच्छरीरत्वेन तत्तत्प्रवृत्त्यादिहेतुत्वे गौरवात् , कायव्यूहस्थलेऽपि योगजादृष्टोपगृहीतत्वसम्बन्धेन तदात्मवत्त्वस्य सर्वशरीरानुगतत्वात् । __ अपि च यथाकथञ्चिद् भूतावेशन्यायेन तच्छरीरपरिग्रहे जगदप्यावेशेनैव प्रवर्तयेत् ,इति व्यर्थमेवेशस्य वेदादिप्रणयनम्। कर्मवदस्यापि दृष्टेष्टानतिलङ्घनेनैव प्रवर्तकत्वात् नानुपपत्तिरिति चेत्, तर्हि-परप्रवृत्तये वाक्यमुपदिशन् स्वेष्टसाधनताज्ञानादिकमपि कथमतिपतेत् ?, कथं वा चेष्टात्वावच्छिन्ने विलक्षणप्रयत्नत्वेन हेतुत्वात् तदवच्छिन्नस्य च विजातीयमनःसंयोगादिजन्यत्वात् , तादृशप्रयत्नं विना ब्रह्मादिशरीरचेष्टा ?, विलक्षणचेष्टायां विलक्षणप्रयत्नस्य हेतुत्वात् ॥ अत्रेश्वरीयप्रयत्न एव हेतुरिति चेत् । तर्हि तस्य सर्वत्रा Page #66 -------------------------------------------------------------------------- ________________ विशिष्टत्वात् सर्वत्रापीश्वरचेष्टेलिकमान विलक्षयपालनच्छिन्नविशेष्यतया तत्प्रयत्नस्य हेतुत्वात्नातिप्रसङ्ग इति चेत् , तर्हि चेष्टावैलक्षण्यसिद्धौ तथाहेतुत्वम् , तथाहेतुत्वे च तद्वैलक्षण्यसिद्धिरिति स्पष्टोऽन्योन्याश्रयः। किञ्च,स्वाधिष्ठातरि भोगाजनकशरीरादिसम्पादनमपि महेशस्यैश्वर्यमात्रमेव, इति दृष्टविरोधेनैव जगत्प्रवृत्तिरायाता । एतेनैतत्प्रतिक्षिप्तम् । हेत्वभावे फलाभावात्, प्रमाणेऽसति न प्रमा॥ तदभावात् प्रवृत्तिों , कर्मवादेऽप्ययं विधिः॥१॥ इति।। कर्मणः कादिसापेक्षत्वेनैव जगद्धेतुत्वात् । समर्थितं च"धर्माधौं विना नाङ्गं, विनाऽङ्गेन मुखं कुतः १ ॥ मुखाद्विना न वक्तृत्वं, तच्छास्तारः परे कथम् ॥१॥" इति, शरीरस्य स्वोपात्तनामकर्महेतुकत्वात् तद्वैचित्र्येण तद्वैचित्र्यात् । अन्यथाऽङ्गो-पाङ्गवर्णादिप्रतिनियमानुपपत्तेरिति, अन्यत्र विस्तरः ॥ तस्माद् मायाविवत् समयग्राहकत्वम् , घटादिसम्प्रदायप्रवर्तकत्वं च, पराभिमतेश्वरस्य मायावितामेव विद्याधरविशेषस्य व्यञ्जयति। पितुरिव पुत्रादेर्युगादौ. युगादीशस्य जगतः शिक्षया तु तथात्वं युक्तिमत्, स्वभावत एव तीर्थकृतां परोपकारित्वात् , अत एव " कुलालेभ्यो नमः" इत्याद्या श्रुतिः सङ्गच्छत इति युक्तं पश्यामः ॥ अनुमानेऽपि सिद्धसाधनं बोध्यम् । ननु भोग्यसत्कर्माण एवाहन्तो भगवन्तः समुत्पन्नव्याधिप्रतिकारकल्पं रुयादिपरिग्रहं Page #67 -------------------------------------------------------------------------- ________________ ( ५२ ) कुर्वते नेतरे, ततः किमसौ निरवद्यैकरुचिर्भगवान् सावद्यानुबन्धिनि कलागुपदर्शने प्रववृते , उच्यते, समानुभावतो वृत्तिहीनेषु दीनेषु मनुजेषु दुःस्थतां विभाव्य सञ्जातकरुणैकरसत्वात् , समुत्पन्नविवक्षितरसो हि नान्यरससापेक्षो भवति बीर इव द्विजाय चीवरदाने । अथैवं तर्हि कथमधिकलिप्सवे तस्मै सत्यपि सकलेंऽशुके शकलस्य दानम् ?, सत्यं, भगवतश्चतुर्ज्ञानधरत्वेन तस्य तावन्मात्रस्यैव लाभस्यावधारणेनाधिकयोगस्य क्षेमानिर्वाहकत्वदर्शनात् , कथमन्यथा भगवदंसस्थलस्रस्ततच्छकलग्रहणेऽपि तदुत्थरिक्थाऽर्द्धविभाजकस्तुन्नवायः सञ्जायेत ? । किञ्च कलायुपायेन प्राप्तसुखवृत्तिकस्य चौर्यादिव्यसनासक्तिरपि न स्यात् ॥ ननु भवतु नामोक्तहेतोर्जगद्भर्तुः कलायुपदर्शकत्वं परं राजधर्मप्रवर्तकत्वं कथमुचितं ?, उच्यते, शिष्टानुग्रहाय दुष्टनिग्रहाय धर्मस्थितिसङ्ग्रहाय च, ते च राज्यस्थितिश्रिया सम्यक् प्रवर्त्तमानाः क्रमेण परेषां महापुरुषमार्गोपदर्शकतया चौर्यादिव्यसनानिवर्त्तनतो नारकातिथेयीनिवारकतया ऐहिकामुष्मिकसुखसाधकतया च प्रशस्ता एवेति, महापुरुषप्रवृत्तिरपि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति । किञ्च युगादौ जगद्व्यवस्था प्रथमेनैव पाथिवेनैव विधेयेति जीतमपि इति ॥ स्थानाङ्गपञ्चमाध्ययनेऽपि-" धम्मं णं चरमाणस्स पंच णिस्साठाणा पण्णत्ता, तं जहा-छक्काया ? Page #68 -------------------------------------------------------------------------- ________________ ( ५३ ) गणो २ राया ३ गाहावई ४ सरीरं ५” इत्याद्यालापकवृत्तौराज्ञो निश्रामाश्रित्य "राजा-नरपतिस्तस्य धर्मसहायकत्वं दुष्टेभ्यः साधुरक्षणाद्" इत्युक्तमस्तीति परमकरुणापरीतचेतसः परमधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्त्युपपनत्वात् , विस्तरस्त्वस्य जिनभवनपञ्चाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो ग्रन्थगौरवमयादप्रस्तुतत्वादत्र न लिख्यत इति ॥ ___ एतेन “राज्यं हि नरकान्तं स्याद् , यदि राजा न धार्मिकः॥" इत्युक्तिरपि दृढबद्धमूला न कम्पते ॥ किश्च-यत्र तृतीयारकप्रान्ते च राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः, पञ्चमारकप्रान्ते च___ सुअसूरि संघधम्मो, पुव्वण्हे छिजिही अगणि सायं ॥निवविमलवाहणो सुमुह, मन्तिनयधम्म मज्झण्हे ॥ १॥ इति वचनात् , धर्मस्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेति सर्व सुस्थम् ।। इत्यलं विस्तरेणेति । श्रीहीरविजयसूरिप्रणीतजम्बूद्वीपप्रज्ञप्तिवृत्तावपि-" श्रीऋषभस्य सकललोकव्यवहारप्रवर्त्तनं प्रजानां हितार्थमेव, अत एव जिनपूजादिलक्षणायाः समानाया अपि क्रियाया जिनभक्ति१ श्रुतसूरिसंघधर्मा पूर्वाण्हे छेत्स्यन्ति सायमग्निः । नृपो विमलवाहनः सुमुखो मन्त्री नयधर्मश्च मध्याह्ने । Page #69 -------------------------------------------------------------------------- ________________ ( ५४ ) परायणानां सम्यग्दृशां तदितरेषां चैहिककनककामिन्याद्यर्थिनामैहिकफलसम्पत्तिसाम्येऽपि पारत्रिकफलवैषम्यं प्रवचने प्र. तीतमेव ॥" एतेन केचिदाहुः-" वृत्यादौ क्लिश्यमानानां ऐहिकफलसांसारिकक्रियास्वपि संयतानामुपदेशदायकत्वं यु. ज्यत एय युगादिनाथदृष्टान्तेनेति" तेऽपि निरस्ताः, दृष्टान्त. वैषम्यात् , भगवतो गार्हस्थ्ये एव तद्विषयकोपदेशदायकत्वं न तु श्रामण्ये, अन्यथा सहदीक्षितानां वृत्यादौ क्लिश्यमानानां कथमुपेक्षा कृता, न च भगवता तदानीं मौनधारित्वेन तथा कृतमिति वाच्यं, मौनविषयकप्रतिज्ञाभावात् इत्यलमतिपल्लवितेन ॥ प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततद्वक्तृसिद्धावपि नेश्वरसिद्धिरिति किमिह तदुपन्यासेन ? ॥ एतेन कार्यादिपदानामर्थान्तरमपि प्रयासमात्रम् , “ जन्यतप्रमासामान्ये तत्प्रमात्वेन गुणतया हेतुत्वात् आद्यप्रमाजनकप्रमाश्रयतयेश्वरसिद्धिः" इति तु मूढानां वचः, घटत्वादिमद्वृत्तिविशेषतया तत्र घटत्वादिविषयत्वेनैव हेतुतया संस्कारेणैव घटत्वादिसम्बन्धहेतुतयैव वा तवापि निर्वाहात् , अस्माकं तु सम्यग्दर्शनस्यैव गुणत्वात्॥ सङ्ख्याविशेषादपि नेश्वरसिद्धिः, तवापि लौकिकापेक्षाबुद्धेरेव तद्धेतुत्वात् , ममाप्य. पेक्षाबुद्धेरेव तथाव्यवहारनिमित्तत्वात् , तजन्यातिरिक्तसंख्याऽसिद्धेः, परिमाणेऽपि सङ्घातभेदादिकृतद्रव्यपरिणामविशेषरूपे सङ्ख्याया अहेतुत्वाच्च, द्विकपालात्रिकपालघटपरिमाणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेरितिदिग् । तस्मान्नेश्वरसिद्धौ किमपि Page #70 -------------------------------------------------------------------------- ________________ ( ५५ ) साधीयः प्रमाणम् , नवा तदभ्युपगमेनापि तस्य सर्वज्ञत्वम्, उपादानमात्रज्ञानसिद्धावप्यतिरिक्तज्ञानासिद्धेः, कारणाभावात् , मानाभावाचेति दिग्। तथा चाहुायाचार्याः, " सन्तुष्य नैयायिकमुख्य ? तस्मा-दस्माकमेवाऽऽश्रय पक्षमय्यम् ॥ तवोचकैरीश्वरकर्तृताया, मनोरथं सम्प्रति पूरयामः॥१॥ नयैः परानप्यनुकूलवृत्ती, प्रवर्तयत्येव जिनो विनोदे। उक्तानुवादेन पिता हिताकि, बालस्य नालस्यमपाकरोति ॥२॥" तदिदमाहुः दुषमासमान्धकारतिरस्कारतरणिकल्पा:श्रीहरिभद्रसूरयः॥ ततश्चेश्वरकर्तृत्व-वादोऽयं युज्यते परम् ॥ सम्यग्न्यायाविरोधेन, यथाहुः शुद्धबुद्धयः॥१॥ अस्यायमर्थः-ततश्च वैशेषिकादीनां मतनिरासाच्च, अयं-तथाविधलोकप्रसिद्धः, ईश्वरकर्तृत्ववादः, परं उक्त विपरीतरीत्या, सम्यग्न्यायाविरोधेन-प्रतितर्काप्रतिहतत र्कानुसारेण, शुद्धबुद्धयः परमर्षय आहुः॥१॥ तथा हि__" ईश्वरः परमात्मैव, तदुक्तव्रतसेवनात् ॥ यतो मुक्तिस्ततस्तस्याः, कर्ता स्याद् गुणभावतः॥२॥ तदनासेवनादेव, यत्संसारोऽपि तत्त्वतः ॥ तेन तस्यापि कर्तृत्वं, कल्प्यमानं न दुष्यति ॥३॥ कायमिति तद्वाक्ये, यतः केषाश्चिदादरः॥ अतस्तदानुगुण्येन, तस्य कर्तृत्वदेशना ॥४॥ परमैश्वर्ययुक्तत्वा-न्मत आत्मैव वेश्वरः॥ स च कर्तेति निर्दोषः, कर्तृवादो व्यवस्थितः ॥५॥ Page #71 -------------------------------------------------------------------------- ________________ (५६ ) . शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भवे। सत्त्वार्थसम्प्रवृत्ताश्च, कथं तेऽयुक्तभाषिणः ॥ ६ ॥ अभिप्रायस्ततस्तेषां, सम्यग् मृग्यो हितैषिणा। न्यायशास्त्राविरोधेन, यथाह मनुरप्यदः ॥७॥ ___ आर्ष च धर्मशास्त्रं च, वेदशास्त्राविरोधिना ॥ यस्तर्केणानुसन्धत्ते, स धर्म वेद नेतरः ॥८॥ ___ अथैतेषां पद्यानामयमर्थः-ईश्वरः परमात्मैव-कायादेर्बहिरात्मनो ध्यातुर्भिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातृध्येयैकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शन-सम्पदुपेतो वीतराग एव । अन्ये तु मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, सम्यग्दर्शनादिभावपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा । तत्र व्यक्त्या बाह्यात्मा, शत्या परमात्मा, अन्तरात्मा च, व्यक्त्याऽन्तरात्मा तु शक्त्या परमात्मा भूतपूर्वनयेन च बाह्यात्मा च, व्यक्त्या परमात्मा तु भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा च इत्याहुः । तदु. क्तव्रतसेवनात्-परमात्मप्रणीतागमविहितसंयमपालनात् , यतो मुक्तिः कर्मक्षयरूपा भवति, ततस्तस्या गुणभाबत:-राजादिवदप्रसादनियतप्रसादाभावेऽप्यचिन्त्यचिन्तामणिवद् वस्तुस्वभावबलात् फलदोपासनाकत्वेनोपचारात् कर्ता स्यात् । तथा चोक्तम् ॥ " अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ॥ चिन्तामण्यादयः किं न,फलन्त्यपि विचेतना: ॥१॥" Page #72 -------------------------------------------------------------------------- ________________ ( ५७ ) इति ॥अत एव "भगवन्तमुद्दिश्यारोग्यादिप्रार्थनासार्थक्यानर्थक्यचिन्तायां तु भाज्यमेतत्, चतुर्थभाषारूपत्वात्" इति भमवता श्रीहरिभद्रसूरिणा ललितविस्तरायामुक्तम् । अप्रार्थनीये कर्तरि प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादिति निगर्वः ॥ २ ॥ तदनासेवनादितितदुक्तव्रताऽपालनादेव, यत्-यस्मात् कारणात्, तत्त्वतःपरमार्थतः, संसारोऽपि जीवस्य भवति, अविरतिमूलत्वात् तस्येति भावः, तेन हेतुना, तस्यापि संसारस्यापि, कर्तृत्वं कल्प्यमानम्--स्वहेतुक्रियाविरुद्धविधिबोधितोपासनाकत्वपरेण कर्तृत्वपदेन बोध्यमानम् , न दुष्यति “अमुल्यग्ने करिशतम्" इत्यादिवद् यथा कथञ्चिदुपचारेण व्यवहारनिर्वाहादिति ॥३॥ नन्वस्या कल्पनायां को गुणः ? इत्याह-कर्तेतिअयं ईश्वरः कर्ता इति हेतोः, तद्वाक्ये-ईश्वरवाक्ये सिद्धान्ते, " अयं कर्ता" इति तद्वाक्यप्रसिद्धवाक्ये वा, यतः केषाश्चित्-तथाविधभद्रकविनेयानाम् , आदरः स्वरसवाहिश्रद्धानात्मा भवति, अतस्तदानुगुण्येन तथाविधविनेयश्रद्धाभिवृद्धये, तस्य परमात्मनः, कर्तृत्वदेशना-कर्तृत्वोपदेशः । यतः श्रोतभावाभिवृद्ध्यर्थो हि गुरोरुपदेशः, सा च कल्पितोदाहरणेनापि निर्वाह्यते किं पुनरुपचारेणेति ॥ ४ ॥ ननु मुख्यकल्पनाबाधे सति एवोपचारकल्पना इति साक्षादपि कर्तृत्वं कल्पयति। परमैश्वर्ययुक्तत्वात् , निश्चयतो घनाऽऽवृतस्यापि रवेः प्रकाशस्वभावत्ववत् , कर्मावृतस्याप्या Page #73 -------------------------------------------------------------------------- ________________ ( ५८ ) त्मनः शुद्धबुद्धकस्वभावत्वेनोत्कृष्टकेवलज्ञानाधतिशयशालित्वात् , आत्मैव जीव एव वा ईश्वरो मतः-ईश्वरपदेन सङ्केतितः। स च जीवश्च, कर्ता साक्षात् , इति हेतोः निर्दोषउपचारेणाप्यकलङ्कितः कर्तृवादः ईश्वरकर्तृत्वोपदेशः, व्य. वस्थितः प्रमाणसिद्धः, अत एव “विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् । सम्बाहुभ्यां धमति सम्पतत्रैावाभूमी जनयन्देव एकः॥" इति श्रुतिरप्युपपद्यते, जीवस्य निश्चयतः सर्वज्ञत्वात् , अन्यथा रागाद्यावरणविलये तदाविर्भावानुपपत्तेः। "उत्तमपुरुषस्त्वन्यः। परमात्मेत्युदाहृतः॥ यो लोकत्रयमाविश्य, बि. भर्त्यव्यय ईश्वरः॥१॥" इत्यादिकमप्युपपद्यते, आवृतस्वरूपादनावृतस्वरूपस्य भिन्नत्वात् , चैतन्यात्मकमहासामान्येनलोकत्रयावेशाद् ग्राह्याकारक्रोडीकृतत्वेन तद्भरणाच्च, इत्यादिरीत्या यथागमं पराभिप्राय उपपादनीयः ॥५॥ यतः-शास्त्रकाराः प्रायः-लोकायतादीन् परलोकाऽभीरून् विहाय, महात्मानः धर्माभिमुखाः, भवे संसारे, वीतस्पृहाः श्लोकमानख्यातिधनलिप्सादिरहिताः, सत्त्वार्थसम्प्रवृत्ताश्च यथाबोधं परोपकारप्रवृत्ताच, अन्यथेशप्रवृत्त्ययोगात् , ततः कथं तेऽयुक्तभाषिणः ज्ञात्वा विरुद्धभाषिणः ? । विरोधः खलु जल-ज्वलनयोरिव परोपकारित्व-विरुद्धभाषित्वयोरिति भावः ॥६॥ ततस्तेषां महात्मनां अविरुद्धभाषित्वेन तेषां परोपकारार्थप्रवृत्तानां शास्त्रकाराणां, अभिप्रायः शब्दता Page #74 -------------------------------------------------------------------------- ________________ ( ५९ ) त्पर्यात्मा, सम्यग् व्यासङ्गपरिहारेण, मृग्य: उन्नयो, हितैषिणा मुमुक्षुणा, न्यायशास्त्राविरोधेन युक्त्याऽऽगमबाधा यथा न स्यात् तथा, न तु यथाश्रुतग्रहणमात्रेणान्ध्ये मन्जनीयं मनः, अन्यथा “ग्रावाणः प्लवन्ते" इत्यादिश्रुतिश्रवणेन गगनमेवावलोकनीयं स्यात् । अत्र पराभियुक्तसम्मतिमाह-यथा मनुरपि, अदः वक्ष्यमाणम् , आह ॥ ७॥ आर्ष च वेदादि । धर्मशास्त्रं च पुराणादि । 'आर्ष धर्मोपदेशं च' इति क्वचित् पाठः। तत्राप्ययमेवार्थ:-आर्ष मन्वादिवाक्यं, धर्मजनक उपदेशः-धर्मोपदेशः, "धर्मस्येश्वरस्य वोपदेशो धर्मोपदेशस्तं वेदं इत्यन्ये, वेदशास्त्राविरोधिना परस्परं तदुभयाविरोधिना, तर्केण यः अनुसन्धत्ते तदर्थमनुस्मरति, स धर्म वेद जानाति, नेतर ऊहरहितः ॥८॥ तस्मादीश्वरकर्तृत्वप्रतिपादकपरागमस्याप्ययमेवाशयो युक्तः, इति सम्यग्दृष्टिपरिगृहीतत्वेन तत्प्रामाण्याभ्युपगमादित्यलं, अत एवोक्तम् ॥" यस्य सर्वत्र समता। नयेषु तनयेष्विव ।। तस्यानेकान्तवादस्य । क न्यूनाधिकशेमुषी ॥ १॥ इति न जगत्कर्तृत्वेनेशस्य तत्कर्तृत्वेनागमस्य प्रामाण्यम् , उक्तरीत्या जगत्कत्वस्याघटमानत्वात् , किन्तु वीतरागवचनत्वेनैव ॥ तथा चोक्तम् ॥ शासनात्राणशक्तेश्व, बुधैः शास्त्रं निरुच्यते ॥ वचनं वीतरागस्य, तच नान्यस्य कस्यचित् ॥१॥ अत्र केचित् "पुरुषस्य प्रान्तिधर्मत्वेन वीतरागस्यापि Page #75 -------------------------------------------------------------------------- ________________ ( ६० ) पुरुषधर्मान तिङ्घनात्तद्वाक्येष्वनाश्वास " इत्याहुः, तन्महामोहविजृम्भितमेव, आन्तेः रागद्वेषमोहदोषजन्यत्वेन पुरुषधर्मस्वाभावात् । तथा चोक्तम् ॥ " वीतरागोऽनृतं नैव, ब्रूयात्तद्धेत्वभावतः ॥ यस्तद्वाक्येष्वनाश्वास-स्तन्महामोहजृम्भितम् ॥ १ ॥ इति एवं वेदान्तादिशास्त्राणामपि दृष्टेष्टार्थ विरुद्ध प्रतिपादकत्वेन तत्कर्तुर्वीतरागत्वाभावात्तस्यापि प्रामाण्याभावात् । तच्चे किञ्चित्प्रदर्श्यते । तथाहि वेदान्तशास्त्रमपि न श्रेयोमार्गः, प्रत्यक्षादिप्रमाणप्रसिद्धविरुद्धार्थप्रतिपादकत्वात् । किञ्च तेषां दृष्टिसृष्टिवादोऽपि न शून्यवादाद्विशिष्यते । तथा च सुष्ठुपहसितमेतत् — " प्रत्यक्षादिप्रसिद्धार्थ - विरुद्धार्थाभिधायिनः । वेदान्ता यदि शास्त्राणि, बौद्धः किमपराध्यते ॥ १ ॥ " । अपि च अविद्यायामेव मानाभावाद् विशीर्यते सर्व तन्मूलं वेदान्तिमतम् । न च ' न जानामि' इत्यनुगतः प्रत्ययस्तत्र मानम्, 'अहम् - अहम्' इत्यनुगतमत्याऽहन्त्वस्याप्यनुगतस्य सिद्ध्यापत्तेः । न च ' न जानामि ' इत्यत्रानुगतविषयानुपपत्तिरप्यस्मान् प्रति सिद्धा, सर्वात्मना स्वरूपज्ञानाभावस्य सर्वत्रानुगतत्वात्, सर्वात्मना स्वरूपज्ञानस्यानुवृत्तिव्यावृत्तिपर्यायद्वारा सर्वज्ञान नियतत्वाद्, विना सर्वज्ञं कुत्राप्यर्थे तदनुपपत्तेः । तदयमाचाराङ्गे परस्परसमनियमाभिप्रायः Page #76 -------------------------------------------------------------------------- ________________ (६१) परमर्षिवचनोद्गार:-"जे एगं जाणइ से सव्वं जाणा, जे सव्वं जाणइ से एगं जाणइ" इति । घटज्ञानादिनिवय॑मपि मिथ्याज्ञानरूपं सम्यग्ज्ञानप्रागभावरूपं वाऽज्ञानं त्वतिरिक्तमेव । परेषां तु घटादिज्ञानात् तदज्ञानानिवृत्तिप्रसङ्गः, अनुगताज्ञानस्य मुक्तावेव निवृत्तेः । न च घटज्ञानाद् घटविषयतामात्रस्य निवृत्ति ज्ञानस्य, यथा परेषां घटनाशे सत्ताया घटसम्बन्धनाश इति वाच्यम् , दृष्टान्तस्यैवाऽसम्प्रतिपत्तेः, न हि घटनाशे स्वरूपात्मकघटसम्बन्धनाशो न तु सत्तानाश इति जैनाः प्रतिपद्यन्ते; न वोत्पाद-व्यय-ध्रौव्यपरिगतरूपबहिष्कृतां सत्तामेव प्रमाणयन्तीति । न च घटविषयतानिवृत्तिरपि सुवचा, स्वभावभूताया घटसंमृक्तावरणजनकतारूपायास्तस्या निःस्वभाववतोऽनिवृत्तौ निवर्तयितुमशक्यत्वाद् इत्यन्यत्र विस्तरः अथ नाज्ञानस्य निवृत्तिर्नाम धंसः, रूपान्तरपरिणतोपादानस्यैव तद्रूपत्वात् ; घटध्वंसो हि चूर्णाकारपरिणता मृदेव । न च चैतन्यस्य रूपान्तरमस्ति, तस्मानास्त्येवाज्ञानध्वंसः, किन्त्वज्ञानस्य कल्पितत्वात् तदत्यन्ताभांव एव तन्निवृत्तिः। किं तर्हि तत्त्वज्ञानस्य साध्यम् ? इति चेत्, नास्त्येवाज्ञानात्यन्ताभावबोधात्मकत्वबाधव्यतिरेकेण, तदुक्तम्“ तत्त्वमस्यादिवाक्योत्थ-सम्यग्धीजन्ममात्रतः। अविद्या सह कार्येण,नासीदस्ति भविष्यति॥१॥" इति, स चायमधिष्ठानात्मक एव, मिथ्याभूतस्य बाध एव ध्वंस इत्यभिधीयते । अत एव शुक्तिबोधे रजतध्वंसव्य Page #77 -------------------------------------------------------------------------- ________________ ( ६२ ) वहारः न तु शुक्तिबोधेन रजतध्वंसस्सम्भवति, रजतात्यन्ता. मावबोधात्मको बाधस्तु शुक्तिज्ञानात्मक एव भवतीति । कथं तर्हि सर्वदा सत इच्छा, तदर्थप्रयत्नविशेषो वा ? इति चेत् ? नास्माकं परेषामिव मुक्तिर्भिन्ना, किन्तु चिद्रूपैव, नित्यावाप्तव च, इच्छा-प्रयत्नविशेषौ तु कण्ठगतचामीकरन्यायेनाऽनवाप्तत्वभ्रमात् , तन्निमित्तं त्वज्ञानमेव । न चैवं मुक्तेः पुरुषार्थत्वहानिः, तद्धि न पुरुषकृतिसाध्यत्वम् , विषभक्षणादेरपि पुरुषार्थत्वापत्तेः, नाप्यभिलषितत्वे सति कृतिसाध्यत्वं, गौरवात् , लाघवेनाभिलषितत्वमात्रस्यैव तदौचित्यात् । चन्द्रोदये तु पुरुषार्थत्वमिष्टमेव, प्रवृत्तिविलम्बस्तु कृतिसाध्यताधीविलम्बात् । ततः सिद्धं नित्यावाप्तस्यैव कण्ठगतचामीकरवचैतन्यस्य पुरुषार्थत्वम् । इत्यस्माकं वेदान्त विवेकसर्वस्वमिति चेत् । उच्यते" मुक्तौ भ्रान्तिभ्रौन्तिरेव प्रपञ्चे, भ्रान्तिः शास्त्रे भ्रान्तिरेव प्रवृत्तौ ॥ कुत्र भ्रान्तिर्नास्ति वेदान्तिनस्ते, क्लप्ता मूर्तिन्तिभिर्यस्य सर्वा ॥१॥" कथं चास्य भ्रान्तस्य शास्त्रश्रवणाद् नित्यावाप्ते चैतन्ये अनवाप्तत्वभ्रमो न निवर्तते ? । कथं वा विदितवेदान्तः स्वयं निवृत्ताऽनवाप्तत्वभ्रमः परमुपदेशेन प्रवर्तयन्प्रतारको न स्यात् ।। एवं बुद्धशासनमपि न श्रेयोमार्गः, तदीयैरेव तस्य सर्वज्ञत्वानङ्गीकारात् , तद्वाक्यं त्विदम् Page #78 -------------------------------------------------------------------------- ________________ ( ६३ ) , " सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु ॥ कीटसंख्यापरिज्ञानं, तस्य नः कोपयुज्यते १ ॥ १ ॥ सर्व पश्यतु वा मावा, इष्टमर्थं तु पश्यतु । प्रमाणं दूरदर्शी चे देतान् गृधान् प्रपूजय ॥ १ ॥” इति तस्य सर्वज्ञानाभावेन सर्वथाधिकृतैकवस्तुविषयकज्ञानमपि न युक्तम्, एकस्यापि पदार्थस्यानुगत- व्यावृत्तधर्मद्वारेणं सर्वपदार्थ सम्बन्धिस्वभावत्वात्, तदवेदने तत्रतोऽधिकृतवस्त्ववेदनात्, केवलमभिमानमात्रमेव लोकानां तत्र - " ततो दृष्टोऽयमर्थः " इति । एवं तस्य बुद्धस्य तत्त्वतोऽधिकृतैकवस्तुविषयक ज्ञानाभावेन तत्कृतशासनस्य प्रामाण्याभावात् कथं तस्य श्रेयोमार्गत्वम् ॥ ननु कथं धर्मादिविषयक ज्ञानस्योत्पत्तिः ? इति चेद्, उच्यते, सर्वज्ञप्रणीतागममनुसृत्याभ्यासादेव सामर्थ्य योगेन तदुत्पत्तेः । न चैवं चक्रकावतारः, अनादित्वात् सर्वज्ञपरम्परायाः, अत एव " तत्पुव्विया अरहया " इत्यादावनवस्थादिदोषस्य परिहारः । अर्थज्ञानशब्दरूपत्वाच्चागमस्य मरुदेव्यादीनां सार्वश्यस्य वचनरूपागमाभ्यासापूर्वकत्वेऽपि न क्षतिः, आगमार्थप्रतिपत्तित एव तेषामपि तथात्वसिद्धेस्तच्चतस्तत्पूर्वकत्वात् । अभ्यासेनास्पष्टस्य स्पष्टत्वायोगदोषश्चाऽनुक्तोपालम्भमात्रम्, ततोऽस्पष्टज्ञानमुपमृद्य स्पष्टज्ञानान्तरोत्पत्तेरेवोपगमात् "नट्ठम्मि उ छाउमत्थिए नाणे" इति वचनात् ॥ अत एव प्रेरणाजनितं ज्ञानमस्मदादीनामप्यतीताऽनागत Page #79 -------------------------------------------------------------------------- ________________ ( ६४ ) सूक्ष्मादिपदाथविषयमस्तीति सर्वज्ञत्वं स्यात् इति मीमांसकमनोरथतरुरुन्मूलितः, अभ्यासजस्य स्पष्टविज्ञानस्य सकलपदार्थविषयस्यास्मदादीनामभावात् , इतरस्य च संशययोग्यतया स्वतन्त्रप्रवृत्त्यनुपयोगित्वात् , निर्मूलपरम्पराप्रसक्तेः । कामादिविप्लुतविशदज्ञानवत इव भावनाबललब्धविशदज्ञानवतः सर्वज्ञस्य तद्वदुपप्लुतत्वप्रसङ्गापादनं च वृथैव, 'भावनाबलाज्ज्ञानं वैशद्यमनुभवति' इत्येतावन्मात्रेण दृष्टान्तस्योपात्तत्वात् , सकलदृष्टान्तधर्माणां साध्यधर्मिण्यासञ्जनस्याऽयुक्तत्वात् , अन्यथा सकलानुमानोच्छेदप्रसक्तरित्यन्यत्र विस्तरः ।। ननु सर्वज्ञस्य नित्यसमाधानसम्भवे कथं तस्य वचनरूप. शास्त्रकरणे प्रवृत्तिः, वचने वा विकल्पसम्भवात् समाधानविरोधान्न समाहितत्वं स्यात् , समाधिर्हि 'चित्तवृत्तिनिरोधः', विकल्पश्च चित्तवृत्तिरिति । अपि च, रागाद्यावरणाभावे परेण सार्वयं वाच्यम् , रजोनीहाराद्यावरणापाये वृक्षादिदर्शनस्येव, तथा च रागाद्यभावे कथं तस्य वचनादि, प्रवृत्तिसामान्ये इ. च्छाया हेतुत्वात् । न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिरिति कथं तदपगमे सर्वसाक्षात्कारोदय इति चेद् , न, वचनसामान्य विकल्पस्य हेतुत्वामावाद्, मन्त्राविष्टकुमारिकावचने व्यभिचारात् । न च धर्मविशेषहेतुकं मन्त्राविष्टकुमारिकावचनं न विकल्पमपेक्षत इति वाच्यम् । केवलिवचनेऽपि तथात्वस्वीकारे बाधकाभावाद्, अर्थावबोधस्य तत एव सिद्धेः, यदागमः-"केवलना Page #80 -------------------------------------------------------------------------- ________________ ( ६५ ) णेणत्थे, णाउं जे तत्थ पन्नवणजोग्गे ।। ते भासइ तित्थयरो, वइजोगसुअं हवइ सेसं ॥ १ ॥ |" इत्थं च रागाद्यभावे वचनादिप्रवृत्तिरपि व्याख्याता, तदभावेऽप्यदृष्टविशेषात्तदुपपत्तेः, तीर्थकर - नामकर्मवेदनार्थत्वाद् भगवद्देशनायाः, “तं च कहं वेइज्जह, अगिलाए धम्मदेसणाए उ ||" इत्याद्यागमप्रामाण्यात् ॥ नचैवमदृष्टस्य दृष्टघातकत्वापत्तिः, दृष्टहेतुवैचित्र्यस्याप्यदृष्टनियम्यत्वात् । देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा, सा च न रागः, सामायिकचिद्विवर्तरूपत्वात् । अत एव “तोमुअ नाणवुट्ठि, भविअजणविबोहणडाए ।। " इत्यागमोक्तिरप्यस्ति । न चैवं कृतकृत्यत्वहानिः, क्षीणघातिकर्मकत्वेन कथञ्चित्कृतकृत्यत्वेऽपि जीवदवातिकर्मविपाकभाजनतया सर्वथा तत्त्वासिद्धेः, आहुश्च भगवन्तो भाष्यकर्त्तारः - " णेगतेण कयत्थो, जेणोदिनं जिणिंदनामं से । तदवंझफलं तस्स य, खवणोवाओऽयमेव जओ ॥ १ ॥ " ये तु जैनाभासा परोक्तदोषभीता अक्षररूपाया वाचो रागनियतत्वाद् नियत्यैव मुखाद् मूर्ध्नो वा निरित्वरीं ध्वनिरूपामेव पारमेश्वरीं वाचमुपयन्ति, तेऽभिनिवेशलुप्तविवेकाः । ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञ श्रोतृभाषापरिणामवदक्षरपरिणामा योगात्, अव्यक्तैकरूपतया सत्याऽसत्यामृषादलद्वयनिष्पादकवाग्योगद्वयवैयर्थ्यात् ॥ अद्धमागहाए भासाए भासंति " इति सूत्रविरोधात् ; नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनापि परानुग्रहो - 66 Page #81 -------------------------------------------------------------------------- ________________ ( ६६ ) पपत्तेः, ध्वनेरपि पौरुषेयतयाऽक्षररूपतया तुल्ययोगक्षेमत्वात् , अन्यथा बाह्यमतप्रवेशाच्च, इत्यन्यत्र विस्तरः। यदप्युक्तम्-'न च रागादीनामावरणत्वमपि प्रसिद्धम् , कुड्यादीनामेव ह्यावरणत्वप्रसिद्धिः' इति, तदपि न क्षोदक्षमम् , कुड्यादीनामेव स्वातन्त्र्येणावरणत्वासिद्धेः, तद्व्यवहितानामप्यर्थानां सत्यस्वप्रज्ञानेन स्वमदशायां जाग्रद्दशायां च शब्दलिङ्गा-ऽक्षव्यापाराभावेऽपि 'श्वो भ्राता मे आगन्ता' इत्याद्याकारेण प्रातिभेन च ग्रहणात् , सकलार्थग्रहणस्वभावे ज्ञाने प्रतिबिम्ब स्वभाव आदर्श मलस्येव रागादीनामेवावरणत्वौचि. त्यात् । अथ रागादीनामावारकत्वेऽपि कथमात्यन्तिकः क्षयः? इति चेत्, सम्यग्दर्शन-वैराग्यादीनां परमप्रकर्षण, 'यदुत्कर्षतारतम्याद् यस्यापचयतारतम्यं तस्य परमप्रकर्षे तदत्यन्तं क्षीयते, यथोष्णस्पर्शस्य परमप्रकर्षे शीतस्पर्श'इति नियमाद् । इति । अधिकं स्याद्वादकल्पलतादिकेषु विलोकनीयम् ॥ ____ इत्येवं सिद्धं सर्वैकान्तवादिनां शासनं न श्रेयोमार्गःप्रामाण्याभावात् ।। तस्मादनेकान्तशास्त्रमेव विशिष्यते ॥ तथा चोक्तम् पद्यसन्दर्भेण पूज्यैः ॥ नित्यानित्याद्यनेकान्त-शास्त्रं तस्माद्विशिष्यते ॥ तद् दृष्टयैव हि माध्यस्थ्यं, गरिष्ठमुपपद्यते ॥१॥ इमां समक्ष प्रतिपक्षसाक्षिणा मुदारघोषामवघोषणां ब्रुवे ॥ Page #82 -------------------------------------------------------------------------- ________________ ( ६७ ) न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥१॥ चार्वाकीयमतावकेशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः॥ उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रुमाः, गीर्वाणद्रुम एव तेन सुधिया जैनागमः सेव्यताम् ॥१॥ न काकैश्चार्वाकः सुगततनयैर्नापि शशकैर्षकैर्नाद्वैतज्ञैरपि च महिमा यस्य विदितः ।। मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्याद्वादप्रकरमकरन्दं कृतधियः ॥२॥ कचिद भेदच्छेदः कचिदपि हताऽभेदरचना, कचिदू नात्मख्यातिः कचिदपि कृपास्फातिविरहः।। कलङ्कानां शङ्का न परसमये कुत्र तदहो !, श्रिता यत्स्याद्वादं सुकृतपरिणामः सुविपुलः ॥३॥ सत्तर्निशितैः शरैरिव वरैर्मीमांसके दुर्जये, लुण्टाके सुपथस्य मुष्णति धनं सर्वज्ञमस्तौजसि ॥ तस्यैवाऽवगमं च लम्पति परे बाढं हते सौगते, साम्राज्यं जिनशासनस्य जयति न्यायश्रिया सुन्दरम्।। उत्सर्पदव्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यदुनयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् ॥ Page #83 -------------------------------------------------------------------------- ________________ ( ६८ ) उद्याक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ॥१॥ पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः ॥ एतस्मात् पतितैःप्रवादकुसुमैः षड्दर्शनारामभूभूयः सौरभमुद्रमत्यभिमतैरध्यात्मवार्तालवैः॥२॥ चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः, श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः ।। भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मन्दरः॥३॥ स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति॥ यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रवि नागमो नन्दतात् ॥४॥ अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां, तापव्यापविनाशिभिर्वितनुते लब्धोदयो यः सदा॥ तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः, सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति नो रुच्यताम् बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां सङ्ग्रहात्, साडयानां तत एव नैगमनयाद् योगश्च वैशेषिकः॥ Page #84 -------------------------------------------------------------------------- ________________ शब्दब्रह्मविदोऽपि शब्दनयतः सर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते ।।६।। ऊष्मा नार्कमपाकरोति दहनं नैव स्फुलिङ्गावली, नाब्धि सिन्धुजलप्लवः सुरगिरि ग्रावा न चाभ्यापतन् । एवं सर्वनयैकभावगरिमस्थानं जिनेन्द्रागम, तत्तद्दर्शनसङ्कथांशरचनारूपा न हन्तुं क्षमा ॥ ७ ॥ दुःसाध्यं परवादिनां परमतक्षेपं विना स्वं मतं, तत्क्षेपे च कषायपङ्ककलुषं चेतः समापद्यते ॥ सोऽयं निःस्वनिधिग्रहव्यवसितो वेतालकोपक्रमो, नायं सर्वहितावहे जिनमते तत्त्वप्रसिद्धयर्थिनाम् ।।८।। ___ वार्ताः सन्ति सहस्रशः प्रतिमतं ज्ञानांशबद्धक्रमाश्वेतस्तासु न नः प्रयाति नितमां लीनं जिनेन्द्रागमे ।। नोत्सर्पन्ति लताः कति प्रतिदिशं पुष्पैःपवित्रा मधौ, ताभ्यो नैति रति रसालकलिकारक्तस्तु पुंस्कोकिलः ।। शब्दोवामतिरर्थ एव वसु वा जातिः क्रिया वा गुणः, शब्दार्थः किमिति स्थिता प्रतिमतं सन्देहशङ्कव्यथा। जैनेन्द्रे तु मते न सा प्रतिपदं जात्यन्तरार्थस्थितेः, सामान्यं च विशेषमेव च यथा तात्पर्यमन्विच्छति।१०। यत्रानर्पितमादधाति गुणतां मुख्यं तु वस्त्वर्पितं, तात्पर्यानवलम्बनेन तु भवेद्बोधः स्फुट लौकिकः ॥ Page #85 -------------------------------------------------------------------------- ________________ ( ७० ) सम्पूर्ण त्ववभासते कृतधियां कृत्लाद्विवक्षाक्रमात्, तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः ॥११॥ आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो,, म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः ।। ___ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं, तंजैनागममाकलय्य न वयं व्याक्षेपभाजः कचित् ।१२। मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं, तस्मादेव समुत्थितैर्नयमतैस्तस्यैव यत्खण्डनम् ॥ एतत्किञ्चन कौशलं कलिमलच्छन्नात्मनःस्वाश्रितां, शाखां छेत्तुमिवोद्यतस्य कटुकोदाय तार्थिनः॥१३॥ त्यक्त्वोन्मादविभज्यवादरचनामाकर्ण्य कर्णामृतं, सिद्धान्तार्थरहस्यवित् कलभतामन्यत्र शास्त्रे रतिम् ।। यस्यां सर्वन या विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मणयो लुठन्ति न पुनर्व्यस्तेषु मालापि सा१४ अन्योन्यप्रतिपक्षभाववितथान् स्वस्वार्थसत्यान्नयान्, नापेक्षाविषयाग्रहर्विभजते माध्यस्थ्यमास्थाय यः ।। स्याद्वादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां, कुन्देन्दुप्रतिम यशो विजयिनस्तस्यैव संवर्द्धते ॥१५॥ इति सिद्धं जगतोऽनादिसंसिद्धत्वं वीतरागस्य च तत्प्रवृत्त्य भाव इति तत्प्रणीतजिनशासनमेव श्रेयोमार्गः ।। Page #86 -------------------------------------------------------------------------- ________________ ॥ अथ प्रशस्तिः ॥ निर्ग्रन्थाख्यो गणधरवराच्छीसुधर्माभिधाद्यः, ख्यातो गच्छस्तदनु विदितः कोटिकः सुस्थितार्यात्॥ चन्द्राचार्यात्प्रथित इह वै चन्द्रनाम्ना स गच्छः, सामन्तार्या वि स विदितस्तुर्यनाम्ना बनाख्यः॥१॥ श्रीसर्वदेवसूरेः स, वटगच्छाभिधोऽभवत् ।। वटाऽधोऽनेकसाधूना-माचार्यपददानतः ॥२॥ तपोगुणमहाम्भोधेः, श्रीजगच्चन्द्रसूरितः॥ नाम्ना तपागच्छ इति, षष्ठ्याख्या वर्ततेऽधुना ॥३॥ चन्द्रज्योत्स्नाविशदविमले, श्रीतपागच्छसंज्ञे, गच्छे धुर्या विमलचरिताः, सर्वतन्त्रस्वतन्त्राः॥ वन्द्या विश्वे नरपतिमुखैः, प्रौढसाम्राज्यभाजो, जीयासुस्ते विजयपदयुग्-नेमिसूरीशवर्याः ॥४॥ तेषां विजयिनि पट्टे,सिद्धान्ते गीष्पतिप्रभा विदिताः। न्यायविशारदबिरुदा, विजयोदयसूरयो भान्ति ॥५॥ तेषां पट्टे पूज्याः, कविरत्नानैकगुणभृतो विबुधाः॥ विजयन्ते परवादिषु, गजेषु पञ्चानना नूनम् ॥ ६ ॥ न्याये वाचस्पतय-स्सूरीशा विजयनन्दनाः सुभगा। सिद्धान्ते मार्तण्डा, शास्त्रेषु विशारदा नित्यम् ॥७॥ तेषां सविजयनन्दन-सूरीणां पूज्यचरणपद्मानाम् ।। शिष्याणुकशिवानन्द-विजयेनाऽभ्यासिना सम्यक् ।। Page #87 -------------------------------------------------------------------------- ________________ ( ७२ ) जगत्कर्तृत्वाद्या नयगुणयुता तत्त्वसुभगा, कृता मीमांसेयं परममुनिवाक्यैकशरणा। सदामोदं धत्तां विबुधगणवंशेषु नितरां, क्षमन्तां सन्तो यजिनमतविचाराद्विरहितम् ॥ ९॥ स्याद्वादकल्पलतिका, वृत्तिर्वाचकनिर्मिता, श्रीहरिभद्रसूरीये, शास्त्रवार्तासमुच्चये ॥ १० ॥ तथा श्रीसम्मतेष्टीका, तत्त्वबोधविधायिनी, ताभ्यामुद्धृतरूपेयं, नन्दत्वाजैनशासनम् ॥ ११ ॥ रसतुवेदनेत्राब्दे, श्रीवीरजिननिर्वृतेः ॥ वीरपञ्चमकल्याण-तिथौ पूर्णाऽस्तु सिद्धिदा ॥१२॥ इति सर्वतंत्रस्वतंत्र-जगद्गुरु-शासनसम्राट्-मरिचक्रचक्रवर्तिप्रभृततीर्थोद्धारक-सन्दृब्धानेकग्रन्थकदम्ब--प्रौढप्रभाव-तपागच्छाधिपतिभट्टारकाचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसिद्धान्तवाचस्पति-न्यायविशारद श्रीविजयोदयसूरिपुरन्दरपट्टपूर्वाचलदिनमणिन्यायवाचस्पति-सिद्धान्तमार्तण्ड-शास्त्रविशारद-कविरत्न प्रौढप्रतिभाप्रभावश्रीविजयनन्दनसूरिशेखरान्तिपदणुमुनिशिवानन्दविजयविनिर्मितमिदं जगत्कर्तृत्वमीमांसाऽपरनामश्रीजिनशासन__ माहात्म्यस्तुत्यभिधेयं प्रकरणं समाप्तम् ।। - - Page #88 -------------------------------------------------------------------------- ________________ શ્રી જૈન ગ્રન્થ પ્રકાશક સભા પ્રકાશિત મળ્યા 1 હારિભદ્રાષ્ટકત્તિ 331 સંવાદ સમ્યકત્વ-ગદષ્ટિ-સંયમએપાઠયુક્તવૃત્તિ ડ્રાઈગપેપર 2-8 ણિવિચાર-સજઝાયાદિસંગ્રહ 0-8 , , ગ્લેઝપેપર 2-0 27 પારસર્ષ સ્વાધ્યાય ગ્રન્થસંગ્રહ 2 સં બાધ પ્રકરણ.. ...3-0 7 ગ્રન્થા (બુક ) ... 0-6 હરિભદ્રસૂરિઅભ્યસંગ્રહ..૩-૦ 28 પારમષસ્વાધ્યાયગ્રન્થસંગ્રહ 4 હારિભદ્રાષ્ટક પ્રકરણ(મુલ) -4 9 ગ્રન્થ (પત્રાક રે )... 0-8 આ વાદ્વાદરહસ્ય પત્ર સટીક 0-12 29 સંમતિત પ્રકરણ સટીક 6 ન્યાયાલક સટીક ... પ-૦ પ્રથમ ભાગ ... ... 5- 9 9 અષ્ટસહસ્ત્રી તાત્પર્યવિવ. 10-0 30 ગદષ્ટડ્યાદિનવગ્રખ્યપદ્યાનુ. 0-6 8 સમુદ્ધાતતત્ત્વ ... ... 0-6 31-32-33-34 ભાષારહસ્ય પ્રકરણ 9 જૈનન્યાયમુક્તાવલી સટીક 1-0 સટીક, યુગવિંશિકા વ્યાખ્યા, | ,, ,, સમુ. ભેગા 1-4 તત્ત્વવિવેકવિવરણસમેતકૂપદષ્ટા૧૦ નવતત્ત્વ વિસ્તરાર્થ ... 3-0 ન્તવિશદીકરણપ્રકરણ,નિશાભક્ત 11 દંડક વિસ્તરાર્થ... સ્વરૂપતે દૂષિતત્ત્વવિચાર. 2-0 12 હૈમધાતુમાલા 35 જ્ઞાનાવપ્રકરણ મૃલ ... --4 13 જૈનતત્ત્વ પરીક્ષા ... 3 6 થી 46 શ્રીયશવિજયવાચક૧૪ સ્તોત્રભાનું ... ... ગ્રન્યસંગ્રહ પાતંજલગ૨૪-૨૫ ગદૃષ્ટિબિન્દુ સ. 2-8 દશનવિવરણાદિ 11 ગ્રન્થર--૦ 2 6 12 5-150-350 ના સ્તવનો, 47 વિવરણધર્મપરીક્ષા ટિ. યુ, 4-0 સજઝાય, દ્રવ્યગુણુપર્યાયરાસ 48 અનેકાન્તવ્યવસ્થા જૈનતર્ક 4-0 49 થી ૫ર ઉપાદાદિસિદ્ધિવિવરણવાદમાલાદિસંગ્રહ 1-8 53 જગફ્તત્વમીમાંસા છપાતા શાસનપ્રભાવક પ્રસ્થા 1 જ્ઞાનાર્ણવઃ સટીક , જ્ઞાનબિન્દુથ. 2 માર્ગ પરિશુદ્ધિઃ- તિલક્ષણસમુયુદ્ધ સંસ્કૃત છાયા સહિત. | પ્રાપ્તિસ્થાન-શેડ ઈશ્વરદાસ મૂલચંદ, કીકાભની પેલ–અમદાવાદ