Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 60
________________ ( ४५ ) "पिनष्टीयं पिष्टं भवनियमसिद्धिव्यवसितिः । स्वभावाद् भूतानां मितसमयदेशस्थितिरिति ॥ . अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा ययापारो जगति जगदीशस्य कथितः ? ॥१॥ अनित्ये नित्ये वा नियतिनियमाद्वस्तुनि निजव्यवस्थां धर्माणां स्थितिमपि समालोच्य विशदाम् ।। ____ अये ! केयं भ्रान्तिः सततमपि तर्कव्यसनिनां। वृथा यद् व्यापारो जगति जगदीशस्य गदितः॥२॥ प्रवाहेणानादिः स च परिविशुद्धोऽपि गदितो। मलात्यन्ताभावान्ननु भवति शुद्धिगंगनवत् ॥ तमेकं मन्यन्तां सदृशगतिभेदाग्रहवशानिराशानां सर्वं सफलमफलं कुग्रहजुषाम् ॥ ३ ।। __यदेवैतद्रूपं प्रथममथ सालम्बनपदे । तदेव ध्यानस्थं घटयति निरालम्बनसुखम् ॥ रमागौरीगङ्गावलयशरकुन्ताऽसिकलितं । कथं लीलारूपं स्फुटयतु निराकारपदवीम् ? ॥४॥ .. अता लीलैशीत्यपि कपिकुलाधीतचपल- . स्वभावाद् भ्रान्तत्वं विदधति परीक्षां हि सुधियः। . न यद् ध्यानस्याङ्गं तदिह भगवद्र्पमपि किं ॥ जगल्लीलाहेतुर्बहुविधमदृष्टं विजयते !! ॥५॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88