Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(५६ ) . शास्त्रकारा महात्मानः, प्रायो वीतस्पृहा भवे। सत्त्वार्थसम्प्रवृत्ताश्च, कथं तेऽयुक्तभाषिणः ॥ ६ ॥
अभिप्रायस्ततस्तेषां, सम्यग् मृग्यो हितैषिणा। न्यायशास्त्राविरोधेन, यथाह मनुरप्यदः ॥७॥ ___ आर्ष च धर्मशास्त्रं च, वेदशास्त्राविरोधिना ॥ यस्तर्केणानुसन्धत्ते, स धर्म वेद नेतरः ॥८॥ ___ अथैतेषां पद्यानामयमर्थः-ईश्वरः परमात्मैव-कायादेर्बहिरात्मनो ध्यातुर्भिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातृध्येयैकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शन-सम्पदुपेतो वीतराग एव । अन्ये तु मिथ्यादर्शनादिभावपरिणतो बाह्यात्मा, सम्यग्दर्शनादिभावपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा । तत्र व्यक्त्या बाह्यात्मा, शत्या परमात्मा, अन्तरात्मा च, व्यक्त्याऽन्तरात्मा तु शक्त्या परमात्मा भूतपूर्वनयेन च बाह्यात्मा च, व्यक्त्या परमात्मा तु भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा च इत्याहुः । तदु. क्तव्रतसेवनात्-परमात्मप्रणीतागमविहितसंयमपालनात् , यतो मुक्तिः कर्मक्षयरूपा भवति, ततस्तस्या गुणभाबत:-राजादिवदप्रसादनियतप्रसादाभावेऽप्यचिन्त्यचिन्तामणिवद् वस्तुस्वभावबलात् फलदोपासनाकत्वेनोपचारात् कर्ता स्यात् । तथा चोक्तम् ॥ " अप्रसन्नात्कथं प्राप्यं, फलमेतदसङ्गतम् ॥ चिन्तामण्यादयः किं न,फलन्त्यपि विचेतना: ॥१॥"

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88