Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 30
________________ ( १५ ) नतिक्रमात् समवायस्यान्यत्रापास्तत्वात् । तदेवं बुद्धस्तदास्मनो व्यतिरेके सम्बन्धस्यासिद्धेर्मतुबर्थानुपपत्तिः। अथ अव्यतिरिक्ता तदात्मनस्तबुद्धिस्तथाऽपि तदनुपपत्तिस्तदवस्थैव न हि तदेव तेनैव तद्वद् भवतीति कचिदृष्टम् । किञ्च तदास्मनस्तबुद्धेरव्यतिरेके यदि तदात्मनि तद्बुद्धेरनुप्रवेशस्तदा बुद्धेरभावात् बुद्धिविकलो गगनादिवद् जडस्वरूपस्तदात्मा कथं जगत्स्रष्टा स्यात् ? बुद्ध्यादिविशेषगुणवैकल्ये च तदात्मनोऽस्मदाद्यात्मनोऽप्यात्मत्वेन तद्वैकल्याद् मुक्तात्मन इव संसारित्वं न स्यात् , नवानां विशेषगुणानामात्यन्तिकक्षयोपेतस्यात्मनो मुक्तत्वाभ्युपगमात् तस्य चास्मदाद्यात्मस्वपि समानत्वात् भवदभ्युपगमप्रकारेण । अथ आत्मत्वाविशेषेऽपि तदात्मा अस्मदाद्यात्मभ्यो विलक्षणोऽभ्युपगम्यते, तर्हि कार्यत्वाविशेषेऽपि घटादिकार्येभ्यः तनुभुवनादिकार्यमकर्तृकत्वेन विलक्षणं किं नाभ्युपगम्यते ?, तथा च कार्यत्वलक्षणहेतोरनुपलभ्यमानकरीकेषु तनुभुवनादिषु सत्त्वेनानैकान्तिकत्वापत्ति रित्युभयतः पाशारज्जुः । अथ तबुद्धौ तदात्मनोऽनुप्रवेशस्तदा बुद्धिमात्रमाधारशून्यमभ्युपगन्तव्यं भवति । तथा चास्मदादिबुद्धरपि तद्वदाधारविकलत्वेन मतुवर्थासम्भवेन घटादावपि बुद्धिमनिमित्तकत्वस्यासिद्धत्वापत्तेर्दुष्परिहारत्वात्साध्यविकलो दृष्टान्तः। अथ अस्मदादिबुद्धिभ्यो बुद्धित्वे समानेऽपि तद्बुद्धेरेवानाश्रितत्वलक्षणो विशेषोऽङ्गीक्रियते तर्हि घटादिकार्येभ्यः पृथिव्यादिकार्यस्य कार्यत्वे समानेऽपि

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88