Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 63
________________ ( ४८ ) इति । युक्तं चैतत्, ईश्वरप्रयत्नस्य व्यापकत्वेन समरे - sपि शरपाताsनापत्तेः । पतनाभावावच्छिन्नेश्वरप्रयत्नस्य तथात्वे तादृशज्ञानेच्छाभ्यां विनिगमनाविरहात् क्लृप्तजातीयस्यादृष्टस्यैव ब्रह्माण्डधारकत्वकल्पनौचित्यात् । न चात्माविभुत्ववादिनः सम्बन्धानुपपत्तिः, असम्बद्धस्यापि तत्कार्यजननशक्तस्य तत्कार्यकारित्वात्, अयस्कान्तस्याऽसम्बद्धस्यापि लोहाssकर्षकत्वदर्शनादित्यन्यत्र विस्तरः ॥ प्रयत्नस्य तु विलक्षणप्रयत्नत्वेन पतनप्रतिबन्धकसंयोगविशेष एव हेतुत्वम् । ब्रह्माण्डनाशकतयापि नेश्वरसिद्धि:, प्रलया - नभ्युपगमात्, अहोरात्रत्वस्याऽहोरात्र पूर्वकत्वव्याप्यत्वात् । न च वर्षादिदिनत्वेनाऽव्यवहितवर्षादिदिनपूर्वकत्वे साध्ये राशि - विशेषावच्छिन्नरविपूर्वकत्ववदत्राव्यवहित संसारपूर्वकत्वमुपाधिः, राशिविशेषे वर्षादिदिनस्य हेतुत्वेन तत्रानुकूलतर्केणोपाधेः साध्यव्यापकत्वग्रहेऽप्यनुकूलतर्काभावेन प्रकृतोपाधेरसमर्थत्वात्, कालत्वस्य भोग्यव्याप्यत्वाच्च । कर्मणां विषमविपाकतया युगपद् निरोधासम्भवात्, सुषुप्तौ कतिपयाऽदृष्टनिरोधस्य दर्शनावरणरूपाऽदृष्टसामर्थ्यादेवोपपत्तेर्बलवताऽदृष्टेनादृष्टान्तरप्रतिरोधदर्शनात्, प्रलये तु कथं तादृशादृष्टं विनाऽदृष्टनिरोधः स्यात् १, अन्यथा त्वनायाससिद्धो मोक्षः, इति किं ब्रह्मचर्यादिक्लेशानुभवेन १ ॥ इति सङ्क्षेपः ॥ एतेन " आद्यव्यवहारादीश्वरसिद्धि:, प्रतिसर्ग मन्वादीनां बहूनां व्यवहारप्रवर्तकानां कल्पने गौरवादेकस्यैव भगवतः सिद्धेः" इत्यप्यपास्तम्, सर्गा

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88