Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ३२ ) पुरुषप्रयोज्यः व्यवहारत्वात् , आधुनिकपुरुषप्रकल्पितलिप्यादिव्यवहारवत् , न च पूर्वपूर्वकुलादिनैवाऽन्यथासिद्धिः, प्रलयेन तद्विच्छेदात् ॥ प्रत्ययतः प्रमायाः, वेदजन्यप्रमा वक्त्यथार्थवाक्यार्थज्ञानजन्या शाब्दप्रमात्वात् अर्वाचीनवाक्यजशाब्दप्रमावत् ।। श्रुतेरपि, वेदोऽस्मदादिविलक्षणासंसारिपुरुष. प्रणीतो वेदत्वात् इति व्यतिरेकिणः । न च परमते साध्याप्रसिद्धिः, आत्मत्वमसंसारिवृत्ति जातित्वात् , पटत्ववदित्यनुमानेन पूर्व साध्यसाधनात् । स चासंसारी किश्चिद्वाक्यप्रणेता पुरुषत्वादिति साध्यसिद्धौ सत्यां वेदोऽस्मदादिविलक्षणेत्यादेः साध्यत्वेन दोषाभावादितिभावः । न चास्मदाधुच्चरिते वेदे व्यभिचारः । वेदज्ञानाजन्यज्ञानजन्यत्वस्य साध्यत्वादिति ॥ एवं वाक्यादपि, वेदः पौरुषेयः वाक्यत्वात् , भारतवत् । एवं संख्याविशेषादपि-संख्याविशेषो द्वयणुकपरिमाणजनिका संख्या इयं सङ्ख्या अपेक्षाबुद्धिजन्या एकत्वान्यसंख्यात्वात् , इत्यस्मदाद्यपेक्षाबुद्धिजन्यत्वाभावेनातिरिक्तापेक्षाबुद्धिसिद्धौ तदाश्रयतयेश्वरसिद्धिः ॥ नचासिद्धिय॑णुकपरिमाणं संख्याजन्यम् , जन्यपरिमाणत्वाद् , घटपरिमाणवदितितत्सिद्धेः। नवा दृष्टान्तासिद्धिः द्विकपालजघटादिपरिमाणात् त्रिकपालजघटादिपरिमाणोत्कर्षादितिदिग् ॥ अथवा कार्य-तात्पर्य वेदे यस्य स एवेश्वरः ॥ आयोजनं सद्व्याख्या, वेदाः केनचिद् व्याख्याताः महाजनपरिगृहीतवाक्यत्वात् , अव्याख्यातत्वे तदर्थानवगमेऽननुष्ठानापत्तेः, एकदेशदर्शिनोऽसदादेश्च व्याख्या

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88