Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 55
________________ (80) हेतुत्वेऽपि खण्डघटाद्युत्पत्तिकाले कुलालादिकृतेरसच्चादीश्वरसिद्धिः" इति दीधितिकारेणोक्तं तदतितुच्छम् । अस्माभिः स्याद्वादिभिस्तत्र घटे स्वण्डत्व पर्यायस्यैवाभ्युपगमात् । युक्तं चैतत् प्रत्यभिज्ञोपपत्तेः । तत्र सादृश्यादिदोषेण भ्रमकल्पने गौर - वात् लोकव्यवहारबाधाच्च, अत एव पाकेनापि नान्यघटोत्प त्तिर्विशिष्टसामग्रीवशाद् विशिष्टवर्णस्य घटादेर्द्रव्यस्य कथञ्चिद् विनाशेऽप्युत्पादसम्भवात् इति, व्यक्तमन्यत्र । किश्च घटत्वा द्यवच्छिन्ने विजातीयकृतित्वेनैव हेतुत्वात् कृतित्वेन व्यापकधर्मेणान्यथासिद्धेरतच्वात् । केचित्तु कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सच्चान्नेश्वरकृतिसिद्धिः । न च वैशेषिकनये श्यामघटादिनाशोत्तरं रक्तघटाद्युत्पत्तिकाले प्राक्तनपरमाणुद्वयसंयोगद्व्यणुकादेर्भाशानैवं सम्भवतीति वाच्यम्, पूर्वसंयोगादिध्वंस पूर्वद्व्यणुकादिध्वंसानामुत्तरसंयोगद्वयणुकादावन्ततः कालोपाधितयापि जनकत्वात्, तत्कालेऽपि कुलालादिकृतेः स्वप्रयोज्यविजातीयसंयोगेन सच्चात्, अन्यथा घटत्वाद्यवच्छिन्ने दण्डादिहेतुत्वमपि दुर्वचं स्यात् । न च दण्डादिजन्यताच्छेदकं विलक्षणघटत्वादिकमेवेति न दोष इति वाच्यं, कृतिजन्यतावच्छेदकस्यापि तस्यैव स्वीकारे बाधकप्रमाणाभावात् । ननु कृतेर्लाघवाद् विशेष्यतयैव हेतुत्वस्वीकारेण तत्र दण्डस्य स्वप्रयोज्यकपालद्वय संयो गेन सत्त्वात् न तस्य कारणताभङ्गदोषः, किन्तु कुलालकृतेविशेष्यतया तत्राभावात् तत्रैव खण्डघटे तत्सिद्धिरिति चेत्, न,

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88