Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
(४९)
देरेवासिद्धेः, इदानीमिव सर्वदा पूर्वपूर्वव्यवहारेणैवोत्तरोत्तरव्यवहारोपपत्तेः । यदि तु सर्गादिरुपेयते, तदा तदानी प्रयोज्य-प्रयोजकवृद्धयोरभावात् कथं व्यवहारः १॥
अथ यथा मायाविसूत्रसञ्चाराधिष्ठितदारुपुत्रकं घटमानय' इत्यादि नियोज्य घटानयनं सम्पाद्य बालकस्य व्युत्पत्तौ प्रयोजकः तथेश्वरोऽपि प्रयोज्यप्रयोजकवृद्धीभूय व्यवहारं कृत्वाऽsधव्युत्पत्तिं कारयति । न चात्र चेष्टया प्रवृत्तिम् , तया ज्ञानं, तज्ज्ञाने उपस्थितवाक्यहेतुत्वं, तज्ज्ञानविषयपदार्थे चाऽऽवापोद्वापाभ्यां तत्तत्पदज्ञानस्य हेतुत्वमनुमाय तत्तत्पदे तत्तदर्थज्ञानानुकूलत्वेन तत्तदर्थसम्बन्धवत्वमनुमेयम् , एवं चायं सम्बन्धग्रहो भ्रमः स्यात्, जनकज्ञानस्य भ्रमत्वात्, इति वाच्यं, तत्त्वेऽपि विषयाबाधेन प्रमात्वात् , चरमपरामर्शस्य प्रमात्वसम्भवाच्च । एवमीश्वर एव कुलालादिशरीरं परिगृह्य घटादिसम्प्रदायप्रवर्तकः, अत एव श्रुतिः-'नमः कुलालेभ्यो, नमः कर्मारेभ्यः' इत्यादि इति चेत् । न । अदृष्टाभावेन प्रयोज्यादिशरीरपरिग्रहस्यैव भगवतोऽयुक्तत्वात् । अन्यादृष्टेनान्यस्य शरीरपरिग्रहे च चैत्रादृष्टाकृष्टं शरीरं मैत्रोऽपि परिगृह्णीयात् । ननु प्राण्यदृष्टेन घटादिवत् तत्तच्छरीरोत्पत्तिः, तत्परिग्रहस्तु भगवतस्तदावेश एवेति न दोष इति चेत्, न, घटादावतथात्वेऽपि तदीयशरीरे तदीयादृष्टत्वेनैवं हेतुत्वात् , अन्यथाऽतिप्रसङ्गात् ।

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88