Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 69
________________ ( ५४ ) परायणानां सम्यग्दृशां तदितरेषां चैहिककनककामिन्याद्यर्थिनामैहिकफलसम्पत्तिसाम्येऽपि पारत्रिकफलवैषम्यं प्रवचने प्र. तीतमेव ॥" एतेन केचिदाहुः-" वृत्यादौ क्लिश्यमानानां ऐहिकफलसांसारिकक्रियास्वपि संयतानामुपदेशदायकत्वं यु. ज्यत एय युगादिनाथदृष्टान्तेनेति" तेऽपि निरस्ताः, दृष्टान्त. वैषम्यात् , भगवतो गार्हस्थ्ये एव तद्विषयकोपदेशदायकत्वं न तु श्रामण्ये, अन्यथा सहदीक्षितानां वृत्यादौ क्लिश्यमानानां कथमुपेक्षा कृता, न च भगवता तदानीं मौनधारित्वेन तथा कृतमिति वाच्यं, मौनविषयकप्रतिज्ञाभावात् इत्यलमतिपल्लवितेन ॥ प्रत्ययादिना तु वेदप्रामाण्यवादिनामाप्ततद्वक्तृसिद्धावपि नेश्वरसिद्धिरिति किमिह तदुपन्यासेन ? ॥ एतेन कार्यादिपदानामर्थान्तरमपि प्रयासमात्रम् , “ जन्यतप्रमासामान्ये तत्प्रमात्वेन गुणतया हेतुत्वात् आद्यप्रमाजनकप्रमाश्रयतयेश्वरसिद्धिः" इति तु मूढानां वचः, घटत्वादिमद्वृत्तिविशेषतया तत्र घटत्वादिविषयत्वेनैव हेतुतया संस्कारेणैव घटत्वादिसम्बन्धहेतुतयैव वा तवापि निर्वाहात् , अस्माकं तु सम्यग्दर्शनस्यैव गुणत्वात्॥ सङ्ख्याविशेषादपि नेश्वरसिद्धिः, तवापि लौकिकापेक्षाबुद्धेरेव तद्धेतुत्वात् , ममाप्य. पेक्षाबुद्धेरेव तथाव्यवहारनिमित्तत्वात् , तजन्यातिरिक्तसंख्याऽसिद्धेः, परिमाणेऽपि सङ्घातभेदादिकृतद्रव्यपरिणामविशेषरूपे सङ्ख्याया अहेतुत्वाच्च, द्विकपालात्रिकपालघटपरिमाणोत्कर्षस्य दलोत्कर्षादेवोपपत्तेरितिदिग् । तस्मान्नेश्वरसिद्धौ किमपि

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88