Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 38
________________ ( २३ ) यदि कुम्भकारः कुम्भादिकार्य कुर्वन् सशरीरत्वेन कुर्वीत तदा सर्वस्य सशरीरस्य कुविन्दादेरपि कुम्भादिकरणप्रसङ्गात् । नाप्यशरीरत्वेन कश्चित्कुम्भादिकायं कुरुते, मुक्तस्यापि तत्करणत्वप्रसङ्गात् । किं तर्हि ? कुम्भादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुम्भकारः कुम्भादिकार्य कुर्वन्नुपलभ्यते तदन्यतमापायेऽपि तदनुपपत्तेः, ज्ञानापाये कस्यचिदिच्छतोऽपि कार्योत्पादनादर्शनात् , कार्योत्पादनेच्छापाये च ज्ञानवतोऽपि तदनुपलब्धेः, प्रयत्नापाये च ज्ञानेच्छावतोऽपि तदसम्भवात् । ज्ञानादित्रयसद्धावे तु कार्योत्पत्तिदर्शनात् इति ज्ञानादित्रयनिमित्तमेव कार्यमनुमन्तव्यम् । ज्ञानादित्रयं च महेश्वरेऽस्त्येव, ततोऽसौ महेशो मोक्षमार्गप्रणयनं कायादिकार्यवत्करोत्येव, विरोधाभावात् इति केचित् , तेऽपि न युक्तिवादिनः, तथाहि, कर्मरहितस्य क्वचिदिच्छाप्रयत्नयोरयोगात्, न हि कुम्भकारस्येच्छाप्रयत्नौ कुम्भाधुत्पत्तौ निष्कर्मणः प्रतीतौ, सकर्मण एव तस्य तत्प्रसिद्धेः । ननु निष्कर्मण इच्छाप्रयत्नविरहेऽपि ज्ञानशक्तिस्तु तस्य न विरुध्यते इति ज्ञानशक्त्या एव सर्वकार्याण्युत्पादयति इति न कश्चिद्दोष इति चेत्, न, दृष्टान्ताभावात् , न च साधोदाहरणाभावेऽपि यो ज्ञानशक्त्यैव न कार्यमुत्पादयति स न प्रभुः यथा संसारी कर्मपरतन्त्र इति वैधर्योदाहरणसम्भवादुदाहरणाभावोऽसिद्ध इति वाच्यं, साधोदाहरणविरहेऽन्वयनिर्णयाभावान्यतिरेकनिश्चयस्य कर्तुमशक्यत्वात् शक्रादेर्शानेच्छाप्रयत्नविशेषैः स्वकार्य कुर्वतः

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88