Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
__ ( ४४ )
कल्पनौचित्यात , इतरकारणवैयापत्तेश्च । तदनुमतदण्डत्वादिनाऽहेतुत्वात् दण्डादीनां हेतुत्वनियमस्य च स्वभावत एव सम्भवात् , न तदर्थमपीश्वराऽनुसरणम् , अन्यथा तज्ज्ञानादेस्तत्तत्कारणानुमतत्वेऽपि नियामकान्तरं गवेषणीयम् । ननु धर्मिग्राहकमानेन तत् स्वतो नियतमेवेति चेत् , न, दण्डादी. नामपि स्वतो नियतत्वस्वीकारे बाधकाभावाद्, इत्यन्यत्र विस्तरः॥ तथाहि " न चाचेतनानामपि स्वहेतुसंनिधिसमासादितोत्पत्तीनां चेतनाधिष्ठातृव्यतिरेकेणापि देशकालाकारनियमोऽनुपपन्नः, तनियमस्य स्वहेतुबलायातत्वात् " इत्यादि सम्मतिटीकायाम् । किञ्च एतादृशनियामकत्वं भवस्थसिद्वादिज्ञान एव, इति किं शिपिविष्टकल्पनाकष्टेन ? ___ तदिदमुक्तं कलिकालसर्वज्ञेन “ सर्वभावेषु कर्तृ. त्वं, ज्ञातृत्वं यदि सम्मतम् ॥मतं नः सन्ति सर्वज्ञा, मुक्ताः कायभृतोऽपि हि ॥१॥" इति । युक्तं चैतत् , "जं जहा भगवया दिटुं तं तहा विपरिणामई" इति भगवद्वचनस्यापीत्थमेव व्यवस्थितत्वात् । एवं च ।। .. "समालोच्य क्षुद्रेष्वपि भवननाथस्य भवने । नियोगाद् भूतानां मितसमय-देश-स्थिति-लयम् ॥ - अये ! केयं भ्रान्तिः सततमपि मीमांसनजुषां। व्यवस्थातः कार्ये जगति जगदीशाऽपरिचयः ॥१॥ ___इति पद्येऽपि न्यायाचार्याणां पद्यानि ॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88