Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 31
________________ - ( १६ ) अकर्वपूर्वकत्वलक्षणो विशेषः कुतो न स्वीक्रियते ? इति पुनरपि प्रकृतहेतोर्व्यभिचारित्वं स्यात् । किञ्च तज्ज्ञानं क्षणिकमक्षणिकं वा स्वीकर्तव्यम् "परस्परविरोधे हि, न प्रकारान्तरस्थितिः ॥" इति वचनात् । तत्र यदि क्षणिक तदात्मानं समवायिकारणम् , आत्म-मनःसंयोगं चाऽसमवायिकारणम् , तच्छरीरादिकं च निमित्तकारणमन्तरेण कथं द्वितीयक्षणे तस्योत्पत्तिः १ तदनुत्पत्तौ चाचेतनस्य परमाण्वादेश्चेतनानधिष्ठितस्य कथं तन्वादिकार्यकरणे प्रवृत्तिः? वास्यादेरिवाचेतनस्य चेतनानधिष्ठितस्य भवता प्रवृत्यनभ्युपगमात् , ततश्चेदानीं भूभूधरादिकार्याणामनुत्पत्तिप्रसङ्गात् का. यशून्यं जगत्प्रसज्येत । न च समवाय्यादिकारणमन्तरेणापि तद्बुद्धिभावे को दोषः, भवदभ्युपगतकार्यकारणव्यवस्थालोपं मुक्त्वा नान्य इति । किञ्च यदि तद्बुद्धेर्बुद्धित्वेनास्मदादिबुद्धितौल्येऽपि तस्याः समवाय्यादिकारणमन्तरेण भवनलक्षणो विशेषोऽभ्युपगम्यते तदा कार्यत्वेन घटादिना समानत्वेऽपि भूरुहादिकार्यस्य विलक्षणत्वं किं नाभ्युपगम्यत इति व्यभिचारस्तदवस्थ एव । अथ यदि तबुद्धिरक्षणिका तदाऽस्मदादिबुद्धेरक्षणिकत्वेन किं अपराद्धं येन बुद्धित्वेन तौल्येऽपि तयोः क्षणिकत्वाक्षणिकत्वलक्षणो विशेषोऽभ्युपगम्यते । अथ प्रत्यक्षादिप्रमाणविरोधानास्मदादिबुद्धिरक्षणिका तर्हि भूरुहादीनामपि तत एव बुद्धिमनिमित्तकत्वं नाभ्युपगन्तव्यम् । नन्वस्मदादिबुद्धेः क्षणिकत्वसाधकानुमानस्याक्षणिकत्वाभ्यु.

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88