Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( २० )
वित्वम् । तथापि तनुभुवनादौ सर्वत्रानभ्युपगमाद् भागासिद्धो हेतुः । नहि महीमहीधरादयः प्रागभूत्वा भवन्तोऽभ्युपगम्यन्ते परैः, तेषां तैः सर्वदावस्थानाभ्युपगमात् । अथ सावयवत्वेन तेषामपि सादित्वं प्रसाध्यते इत्येतदप्यशिक्षितलक्षितम् । तथाहि, सावयवत्वं नाम किं अवयवेषु वृत्तित्वमुतावयवैरारब्धत्वम् । तत्र न तावत्प्रथमपक्षः, अवयवत्वसामान्येन व्यभिचारात् । न द्वितीयः, साध्याविशिष्टत्वात् । अथ सनिवेश एव सावयवत्वं तच्च घटादाविव पृथिव्यादावप्युपलभ्यते इत्यभूत्वाभावित्वमभिधीयते, तदपि न पेशलं, विचारासहत्वात् , स हि अवयवसम्बन्धो वा रचनाविशेषो वा स्याद् । तत्र तावद् यदि प्रथमपक्षः तदा गगनादिना व्यभिचारः तत्र सकलमूर्तिमद्रव्यसम्बन्धस्य सत्वेन तनिबन्धनप्रदेशनानात्वस्य सद्भावेन तत्प्रदेशरूपावयवसम्बन्धस्य सद्भावात् । अथ तत्र प्रदेशनानात्वस्य सद्भावेऽपि तस्योपचरितत्वेनावयवस्वरूपत्वाभावान व्यभिचार इति चेत् , न, तत्र सकलमूर्तिमद्रव्यसंयोगस्याप्युपचरितत्वेन सर्वगतत्वलक्षणविभुत्वस्याप्युपचरितत्वापत्तेः श्रोत्रलक्षणाकाशस्याप्युपचरितप्रदेशत्वेनार्थक्रियाकारित्वाभावापत्तेश्च । न च धर्मादिना संस्कारान्न तत्रार्थक्रियाकारित्वाभाव इति वाच्यं, उपचरितस्यासद्रूपस्य तेनोपकारायोगात् खरविषाणस्येव, ततो न किञ्चिदेतत् । अथ रचनाविशेषस्तदा परं प्रति भागासिद्धत्वं तदवस्थमेव, तथाहि, एकनिष्ठरचनाविशेषस्यापरनिष्ठत्वाभा

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88