Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 82
________________ ( ६७ ) न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥१॥ चार्वाकीयमतावकेशिषु फलं नैवास्ति बौद्धोक्तयः, कर्कन्धूपमितास्तु कण्टकशतैरत्यन्तदुःखप्रदाः॥ उन्मादं दधते रसैः पुनरमी वेदान्ततालद्रुमाः, गीर्वाणद्रुम एव तेन सुधिया जैनागमः सेव्यताम् ॥१॥ न काकैश्चार्वाकः सुगततनयैर्नापि शशकैर्षकैर्नाद्वैतज्ञैरपि च महिमा यस्य विदितः ।। मरालाः सेवन्ते तमिह समयं जैनयतयः, सरोजं स्याद्वादप्रकरमकरन्दं कृतधियः ॥२॥ कचिद भेदच्छेदः कचिदपि हताऽभेदरचना, कचिदू नात्मख्यातिः कचिदपि कृपास्फातिविरहः।। कलङ्कानां शङ्का न परसमये कुत्र तदहो !, श्रिता यत्स्याद्वादं सुकृतपरिणामः सुविपुलः ॥३॥ सत्तर्निशितैः शरैरिव वरैर्मीमांसके दुर्जये, लुण्टाके सुपथस्य मुष्णति धनं सर्वज्ञमस्तौजसि ॥ तस्यैवाऽवगमं च लम्पति परे बाढं हते सौगते, साम्राज्यं जिनशासनस्य जयति न्यायश्रिया सुन्दरम्।। उत्सर्पदव्यवहारनिश्चयकथाकल्लोलकोलाहलत्रस्यदुनयवादिकच्छपकुलभ्रश्यत्कुपक्षाचलम् ॥

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88