Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 48
________________ ( ३३ ) यामविश्वासः,इति तद्व्याख्यातृतयेश्वरसिद्धिः॥धृतिर्धारणं मेधाख्यज्ञानम् , आदिपदार्थोऽनुष्ठानम् , ततोऽपि वेदा वेदविषयकजन्यधारणान्यधारणाविषयाः, धृतिवाक्यत्वात् , लौकिकवाक्यवत् । यागादिकं यागादिविषयकजन्यज्ञानान्यज्ञानवदनुष्ठितम् , अनुष्ठितत्वात् , गमनवत् इति प्रयोगः ॥ पदं प्रणवेश्वरादिपदम् , तत्सार्थक्यात् , स्वतन्त्रोच्चारयितृशक्तश्रुत्यादिस्थाहंपदाद् वा । न चेश्वरादिपदस्य स्वपरता, यदाह" सर्वज्ञता तृप्तिरनादिबोधः, स्वतन्त्रता नित्यमलुप्तशक्तिः ॥ अनन्तशक्तिश्व विभोविधिज्ञाः, षडन्तरङ्गाणि महेश्वरस्य ॥१॥" इत्यादिवाक्यशेषेण 'ईश्वरमुपासीत' इत्यादिविधिस्थेश्वरादिपदशक्तिग्रहात् , 'यथा यवमयश्चरुर्भवति' इत्यत्र यवपदस्य दीर्घशूकविशेष आर्याणां प्रयोगः कङ्गौ तु म्लेच्छानाम् । तत्र हि यत्रान्या ओषधयो म्लायन्तेऽथैते मोदमाना इवोत्तिष्ठन्ति । "वसन्ते सर्वसस्यानां, जायते पत्रशातनम्॥मोदमानाश्च शोभन्ते, यवाः कणिशशालिनः॥१॥" इति वाक्यशेषाद्दीर्घशूके शक्तिर्निीयते, कङ्गौ तु शक्तिभ्रमात्प्रयोगः । प्रत्ययो विधिप्रत्ययः, ततोऽपि, आप्ताभिप्रायस्यैव विध्यर्थस्वात् । न हीष्टसाधनत्वमेव तथा, "अग्निकामो दारुणी मथ्नीयाद्" इति श्रुत्वा कुत इति प्रश्ने यतो दारुमथनमग्निसाधनम् , इत्युत्तरेऽग्निसाधनत्वेन विध्यर्थवत्वानुमानानुपपत्तेः, अभेदे हेतुत्वेनोपन्यासानौचित्यात् । 'तरति मृत्यु योऽश्वमेधेन यजत'

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88