Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 26
________________ ( ११ ) तस्य तदिच्छाया वा नित्यस्वभावाया इति न तदन्वयव्य. तिरेकप्रसिद्धिः। न च सामय्यन्तर्गतैकान्वयव्यतिरेकसिद्धौ सत्यां कार्यजन्मनि सकलसामग्र्यास्तदन्वयव्यतिरेकसिद्धिरिति वक्तुं युक्तं, सामध्यन्तर्गतानां प्रत्येकानां कार्योत्पत्तावन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारिभिरन्वेषणात् घटसामग्र्यन्तर्गतानां कुलालचक्रदण्डादीनां प्रत्येकस्ये । यथैव हि मृत्पिण्डचक्रदण्डादीनामन्वयव्यतिरेकाभ्यां घटस्योत्पत्तिदृष्टा तथा कुलालान्वयव्यतिरेकाभ्यामपि तदुपभोक्तृजनादृष्टान्वयव्यतिरेकाभ्यामिवेति सुप्रतीतम् । ननु सर्वकार्योत्पत्ती दिक्कालाकाशादिसामग्र्यन्वयव्यतिरेकानुविधानवदीश्वराद्यन्वयव्यतिरेकविधानस्य सिद्धत्वान्न व्यापकानुलम्भः सिद्ध इति चेत्, न, दिक्कालाकाशादीनामपि नित्यसर्वगतनिरवयवत्वेनान्वयव्यतिरेकानुविधानासम्भवात् । ननु तेषां परिणामित्वसप्रदेशत्वाभ्यां सर्वकार्योत्पादे निमित्तकारणत्वसिद्धौ का क्षतिरिति चेत्, तर्हि महेशस्यापि परिणामित्वसप्रदेशत्वापत्तिः । ननु महेश्वरस्यापि बुद्ध्यादिपरिणामः स्वतोऽर्थान्तरभृतैः परिणामित्वस्य सकृत्सर्वमूर्तद्रव्यसंयोगनिबन्धनसप्रदेशत्वस्य च सिद्धत्वान्न तस्य तन्वादिकार्योत्पत्ती निमित्तकारणत्वमनुपपन्नं तस्य स्वतोऽनन्तरभूतैरेव हि ज्ञानादिपरिणामैः परिणामित्वं स्वारम्भकावय. वैश्च सावयवत्वमनिष्टं न त्वन्यथा विरोधाभावात् । न चैवं द्रव्यान्तरपरिणामैरपि तस्य परिणामित्वापत्तिरिति वाच्यं,

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88