Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ७० ) सम्पूर्ण त्ववभासते कृतधियां कृत्लाद्विवक्षाक्रमात्, तां लोकोत्तरभङ्गपद्धतिमयीं स्याद्वादमुद्रां स्तुमः ॥११॥
आत्मीयानुभवाश्रयार्थविषयोऽप्युच्चैर्यदीयक्रमो,, म्लेच्छानामिव संस्कृतं तनुधियामाश्चर्यमोहावहः ।। ___ व्युत्पत्तिप्रतिपत्तिहेतुविततस्याद्वादवाग्गुम्फितं, तंजैनागममाकलय्य न वयं व्याक्षेपभाजः कचित् ।१२।
मूलं सर्ववचोगतस्य विदितं जैनेश्वरं शासनं, तस्मादेव समुत्थितैर्नयमतैस्तस्यैव यत्खण्डनम् ॥
एतत्किञ्चन कौशलं कलिमलच्छन्नात्मनःस्वाश्रितां, शाखां छेत्तुमिवोद्यतस्य कटुकोदाय तार्थिनः॥१३॥
त्यक्त्वोन्मादविभज्यवादरचनामाकर्ण्य कर्णामृतं, सिद्धान्तार्थरहस्यवित् कलभतामन्यत्र शास्त्रे रतिम् ।।
यस्यां सर्वन या विशन्ति न पुनर्व्यस्तेषु तेष्वेव या, मालायां मणयो लुठन्ति न पुनर्व्यस्तेषु मालापि सा१४
अन्योन्यप्रतिपक्षभाववितथान् स्वस्वार्थसत्यान्नयान्, नापेक्षाविषयाग्रहर्विभजते माध्यस्थ्यमास्थाय यः ।।
स्याद्वादे सुपथे निवेश्य हरते तेषां तु दिङ्मूढतां, कुन्देन्दुप्रतिम यशो विजयिनस्तस्यैव संवर्द्धते ॥१५॥ इति सिद्धं जगतोऽनादिसंसिद्धत्वं वीतरागस्य च तत्प्रवृत्त्य
भाव इति तत्प्रणीतजिनशासनमेव श्रेयोमार्गः ।।

Page Navigation
1 ... 83 84 85 86 87 88