Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 87
________________ ( ७२ ) जगत्कर्तृत्वाद्या नयगुणयुता तत्त्वसुभगा, कृता मीमांसेयं परममुनिवाक्यैकशरणा। सदामोदं धत्तां विबुधगणवंशेषु नितरां, क्षमन्तां सन्तो यजिनमतविचाराद्विरहितम् ॥ ९॥ स्याद्वादकल्पलतिका, वृत्तिर्वाचकनिर्मिता, श्रीहरिभद्रसूरीये, शास्त्रवार्तासमुच्चये ॥ १० ॥ तथा श्रीसम्मतेष्टीका, तत्त्वबोधविधायिनी, ताभ्यामुद्धृतरूपेयं, नन्दत्वाजैनशासनम् ॥ ११ ॥ रसतुवेदनेत्राब्दे, श्रीवीरजिननिर्वृतेः ॥ वीरपञ्चमकल्याण-तिथौ पूर्णाऽस्तु सिद्धिदा ॥१२॥ इति सर्वतंत्रस्वतंत्र-जगद्गुरु-शासनसम्राट्-मरिचक्रचक्रवर्तिप्रभृततीर्थोद्धारक-सन्दृब्धानेकग्रन्थकदम्ब--प्रौढप्रभाव-तपागच्छाधिपतिभट्टारकाचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरपट्टालङ्कारसिद्धान्तवाचस्पति-न्यायविशारद श्रीविजयोदयसूरिपुरन्दरपट्टपूर्वाचलदिनमणिन्यायवाचस्पति-सिद्धान्तमार्तण्ड-शास्त्रविशारद-कविरत्न प्रौढप्रतिभाप्रभावश्रीविजयनन्दनसूरिशेखरान्तिपदणुमुनिशिवानन्दविजयविनिर्मितमिदं जगत्कर्तृत्वमीमांसाऽपरनामश्रीजिनशासन__ माहात्म्यस्तुत्यभिधेयं प्रकरणं समाप्तम् ।। - -

Loading...

Page Navigation
1 ... 85 86 87 88