Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 34
________________ ( १९ ) तर्हि तत्सम्बन्ध एव कार्यत्वमिति बुद्धिमनिमित्तकत्वे साध्ये गगनादिभिरनेकान्तः । एतेन स्वकारणसम्बन्धोऽपि चिन्तितः । अथोमयसम्बन्धः कार्यत्वम् , तदपि न, तत्सम्बन्धस्यापि कादाचित्कत्वे समवायस्यानित्यत्वप्रसङ्गात् । अथाकादाचित्कत्वं तदा सर्वदोपलम्भप्रसङ्गः । अथ वस्तूत्पादककार. णानां सन्निधानाभावान्न सर्वदोपलम्भप्रसङ्गः, ननु तदुत्पत्यर्थ कारणानां व्यापारः, उत्पादश्च स्वकारणसत्तासमवाय एव स च सर्वदाप्यस्ति इति तदर्थं कारणोपादानमनर्थकमेव स्यात् । अभिव्यक्त्यर्थं तदुपादानमित्यपि मृढभाषितम् । उत्पादापेक्षाया अभिव्यक्तेरघटनात् । उत्पादापेक्षाया अस्वीकारे कारणसम्पातात्प्रागपि कार्यवस्तुसद्भावप्रसङ्गात् तल्लक्षणत्वाद्वस्तुसत्वस्य । प्राक् सत एव हि केनचित् तिरोहितस्याभिव्यञ्जकेनाभिव्यक्तिस्तमसि तिरोहितस्य घटस्येव प्रदीपादिनेति । तन्नाभिव्यक्त्यर्थं कारणोपादानं युक्तं, तन्न खकारणसत्तासमवायः कार्यत्वम् । नाप्यभूत्वाभावित्वम्, विचारासहत्वात् । अभूत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधिकरणभूते कर्तरि सिद्धे सिद्धिमध्यास्ते । क्त्वान्तपदविशेषितवाक्यार्थत्वाद्भूत्वा व्रजतीत्यादिवाक्यार्थवत् । न चात्र भवनाभव. नयोराधारभूतस्य कर्तुरनुभवोऽस्ति । अभवनाधारस्याविद्यमानत्वेन भवनाधारस्य च विद्यमानतया भावाभावयोरेकाश्रयविरोधात् । अविरोधे च तयोः पर्यायमात्रता किन्तु न वास्तविको भेद इति । अस्तु वा कथश्चिदभूत्वाभा

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88