Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 86
________________ ॥ अथ प्रशस्तिः ॥ निर्ग्रन्थाख्यो गणधरवराच्छीसुधर्माभिधाद्यः, ख्यातो गच्छस्तदनु विदितः कोटिकः सुस्थितार्यात्॥ चन्द्राचार्यात्प्रथित इह वै चन्द्रनाम्ना स गच्छः, सामन्तार्या वि स विदितस्तुर्यनाम्ना बनाख्यः॥१॥ श्रीसर्वदेवसूरेः स, वटगच्छाभिधोऽभवत् ।। वटाऽधोऽनेकसाधूना-माचार्यपददानतः ॥२॥ तपोगुणमहाम्भोधेः, श्रीजगच्चन्द्रसूरितः॥ नाम्ना तपागच्छ इति, षष्ठ्याख्या वर्ततेऽधुना ॥३॥ चन्द्रज्योत्स्नाविशदविमले, श्रीतपागच्छसंज्ञे, गच्छे धुर्या विमलचरिताः, सर्वतन्त्रस्वतन्त्राः॥ वन्द्या विश्वे नरपतिमुखैः, प्रौढसाम्राज्यभाजो, जीयासुस्ते विजयपदयुग्-नेमिसूरीशवर्याः ॥४॥ तेषां विजयिनि पट्टे,सिद्धान्ते गीष्पतिप्रभा विदिताः। न्यायविशारदबिरुदा, विजयोदयसूरयो भान्ति ॥५॥ तेषां पट्टे पूज्याः, कविरत्नानैकगुणभृतो विबुधाः॥ विजयन्ते परवादिषु, गजेषु पञ्चानना नूनम् ॥ ६ ॥ न्याये वाचस्पतय-स्सूरीशा विजयनन्दनाः सुभगा। सिद्धान्ते मार्तण्डा, शास्त्रेषु विशारदा नित्यम् ॥७॥ तेषां सविजयनन्दन-सूरीणां पूज्यचरणपद्मानाम् ।। शिष्याणुकशिवानन्द-विजयेनाऽभ्यासिना सम्यक् ।।

Loading...

Page Navigation
1 ... 84 85 86 87 88