Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 80
________________ ( ६५ ) णेणत्थे, णाउं जे तत्थ पन्नवणजोग्गे ।। ते भासइ तित्थयरो, वइजोगसुअं हवइ सेसं ॥ १ ॥ |" इत्थं च रागाद्यभावे वचनादिप्रवृत्तिरपि व्याख्याता, तदभावेऽप्यदृष्टविशेषात्तदुपपत्तेः, तीर्थकर - नामकर्मवेदनार्थत्वाद् भगवद्देशनायाः, “तं च कहं वेइज्जह, अगिलाए धम्मदेसणाए उ ||" इत्याद्यागमप्रामाण्यात् ॥ नचैवमदृष्टस्य दृष्टघातकत्वापत्तिः, दृष्टहेतुवैचित्र्यस्याप्यदृष्टनियम्यत्वात् । देशनाबीजं भगवतो निरुपधिपरदुःखप्रहाणेच्छा, सा च न रागः, सामायिकचिद्विवर्तरूपत्वात् । अत एव “तोमुअ नाणवुट्ठि, भविअजणविबोहणडाए ।। " इत्यागमोक्तिरप्यस्ति । न चैवं कृतकृत्यत्वहानिः, क्षीणघातिकर्मकत्वेन कथञ्चित्कृतकृत्यत्वेऽपि जीवदवातिकर्मविपाकभाजनतया सर्वथा तत्त्वासिद्धेः, आहुश्च भगवन्तो भाष्यकर्त्तारः - " णेगतेण कयत्थो, जेणोदिनं जिणिंदनामं से । तदवंझफलं तस्स य, खवणोवाओऽयमेव जओ ॥ १ ॥ " ये तु जैनाभासा परोक्तदोषभीता अक्षररूपाया वाचो रागनियतत्वाद् नियत्यैव मुखाद् मूर्ध्नो वा निरित्वरीं ध्वनिरूपामेव पारमेश्वरीं वाचमुपयन्ति, तेऽभिनिवेशलुप्तविवेकाः । ध्वनिरूपायास्तस्याः प्रतिसर्वज्ञ श्रोतृभाषापरिणामवदक्षरपरिणामा योगात्, अव्यक्तैकरूपतया सत्याऽसत्यामृषादलद्वयनिष्पादकवाग्योगद्वयवैयर्थ्यात् ॥ अद्धमागहाए भासाए भासंति " इति सूत्रविरोधात् ; नियत्यैव प्रयत्नं विना वचनोपपत्तौ च तयैव तद्विनापि परानुग्रहो - 66

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88