Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( २८ )
नगोचरतादृशकृत्य प्रसिद्ध्या पक्षत्वाभावप्रसङ्गः । तत्र शब्द-फूत्कारादेरपक्षत्वे सन्दिग्धसाध्यकत्वेन तत्रानैकान्तिकत्वसंशयः स्यात्, अतः प्रतियोगिकोटौ गोचरान्तम् तेन शब्दादेर्मृदङ्गादिगोचरतादृशकृतिजन्यत्वेऽपि न स्वोपादानगोचरतादृशकृतिजन्यत्वमिति न दोषः । मन्त्रविशेषपाठपूर्वक स्पर्शजन्यकांश्यादिगमनस्य स्पर्शजन्यादृष्टद्वारा स्वोपादानकांश्यगोचरस्पर्शजनकजन्यकृतिजन्यस्यापक्षत्वे तत्र सन्दिग्धानैकान्तिकत्वं स्यात् । एवं स्वोपादानशरीरगोचरोर्ध्व चरणादितपः कृतिजन्यश्यामशरीरीयगौररूपादौ तत् स्यात् अतः तत्कोटौ स्वजनकेत्यादि । कांश्यगमनादिकं तु स्वजनकादृष्टजनकजन्यकृतिजन्यमेवेत्यदोषो, ध्वंसस्य पक्षतावारणाय समवेत मिति, गगनैकत्वादेः पक्षतावारणाय जन्यमिति । शब्द - फूत्कारादौ सिद्धसाधनवारणाय साध्ये गोचरान्तम् । उक्तकांश्यचालनादौ तद्वारणाय स्वजनकेत्यादि, न च साध्ये पक्षे च गोचरान्तद्वयं माऽस्तु मृदङ्गादिगोचरकृतिजन्यशब्दादिस्तु पक्षबहिर्भूत एव दृष्टान्तोऽस्त्विति वाच्यम्, अदृष्टेतरव्यापारद्वाराऽस्मदादिकतिजन्यत्वसिद्ध्यार्थान्तरप्रसङ्गवारणाय साध्ये तन्निवेशावश्यकत्वे शब्दादावनैकान्तिकत्वसंशयवारणाय पक्षेऽपि तदावश्यकत्वात् तादृशशब्दादिकर्तृतयापि भगवत्सिद्धये पक्षे तनिdisशतः सिद्धसाधनवारणाय साध्ये तन्निवेशावश्यकत्वाच्च । एतेन 'स्वजनकादृष्टजन्यकान्यत्त्वमप्युभयत्र माऽस्तु' इत्यपास्तम्, तादृशकांश्यचालनादिकर्तुतयाऽपि भगवत्सिद्ध्यर्थं पक्षे
-

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88