Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( ६८ ) उद्याक्तिनदीप्रवेशसुभगं स्याद्वादमर्यादया, युक्तं श्रीजिनशासनं जलनिधि मुक्त्वा परं नाश्रये ॥१॥
पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः ॥
एतस्मात् पतितैःप्रवादकुसुमैः षड्दर्शनारामभूभूयः सौरभमुद्रमत्यभिमतैरध्यात्मवार्तालवैः॥२॥
चित्रोत्सर्गशुभापवादरचनासानुश्रियालङ्कृतः, श्रद्धानन्दनचन्दनद्रुमनिभप्रज्ञोल्लसत्सौरभः ।।
भ्राम्यद्भिः परदर्शनग्रहगणैरासेव्यमानः सदा, तर्कस्वर्णशिलोच्छ्रितो विजयते जैनागमो मन्दरः॥३॥
स्याद्दोषापगमस्तमांसि जगति क्षीयन्त एव क्षणादध्वानो विशदीभवन्ति निबिडा निद्रा दृशोर्गच्छति॥
यस्मिन्नभ्युदिते प्रमाणदिवसप्रारम्भकल्याणिनी, प्रौढत्वं नयगीर्दधाति स रवि नागमो नन्दतात् ॥४॥
अध्यात्मामृतवर्षिभिः कुवलयोल्लासं विलासैर्गवां, तापव्यापविनाशिभिर्वितनुते लब्धोदयो यः सदा॥
तर्कस्थाणुशिरःस्थितः परिवृतः स्फारैर्नयैस्तारकैः, सोऽयं श्रीजिनशासनामृतरुचिः कस्यैति नो रुच्यताम्
बौद्धानामृजुसूत्रतो मतमभूद्वेदान्तिनां सङ्ग्रहात्, साडयानां तत एव नैगमनयाद् योगश्च वैशेषिकः॥

Page Navigation
1 ... 81 82 83 84 85 86 87 88