Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
( २९ ) तदुपादाने साध्येऽपि तदावश्यकत्वात् । यदि च खजनकादृष्टजनककृतेन स्वजनकत्वम् मानाभावादिति विभाव्यते तदा पक्षे तद् नोपादेयम् , साध्ये तु देयमेव, अन्यथा सर्गान्तरीयज्ञानादीनां व्यणुकाद्युपादानागोचरत्वेन व्यणुकादौ सिद्धसाधनाभावेऽप्युक्तकाश्यचालनादावदृष्टजनककृतिजन्यत्वसिद्ध्या अर्थान्तरापत्तेर्वस्तुगत्या स्वोपादानगोचरकृतिजन्यं यत् , तत्त्वावच्छिन्नभेदकूटवत्त्वेन काश्यचालनादेरपि पक्षान्तर्गतत्वात् इत्याहुः। अन्ये तु द्रव्याणि ज्ञानेच्छाकृतिमन्ति कार्यात् कपालवत् , साध्यता त्वत्र विशेष्यतया हेतुता च समवायेन इति न दोषः। पक्षतावच्छेदकावच्छेदेन साध्यसिद्धरुद्देश्यत्वाद् नांशतः सिद्धसाधनम् । न च बहिरिन्द्रियग्राह्यत्वमुपाधिः, अनुकूलतर्केण हेतााप्यतानिर्णये तदनवकाशात् । न च त्रितयस्य मिलितस्य साध्यत्वेऽप्रयोजकत्वम् , मिलितत्वेनाहेतुत्वात् प्रत्येकं साध्यत्वे ज्ञानेच्छावत्वेन साधने सर्गान्तरीयज्ञानादिना सिद्धसाधनमिति वाच्यं । मिलितत्वेन साध्यत्वेऽपि कार्यकारणभावत्रयस्य प्रयोजकत्वात् । सर्गाद्यकालीनं द्रव्यं ज्ञानवत् कार्यात् पक्षतावच्छेदककालावच्छेदेन साध्यसिद्धरुद्देश्यत्वान दोष इत्यप्याहुः । क्षित्यादिकं सकर्तृकं कार्यत्वात् इत्येवाऽनुमानम् प्रकृतविचारानुकूलविवादविषयत्वेन च क्षित्यादीनामनुगमः, सकर्तकत्वं च प्रतिनियतकर्वनिरूपितः सम्बन्धो व्यवहारसाक्षिको घटादिदृष्टान्तदृष्टो नित्यवर्गव्यावृत्त इति नानुपपत्तिः इत्यपि केचित् । आयोजनादपि, सर्गाद्यकालीनद्व्यणु

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88