SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ एवं जीवन्मुक्तिवत् परमुक्तेरप्यत एवानुष्ठानात् सम्भावनोपपत्तेः। न चान्यत् प्रमाणं तदुपदेशस्य बाधकं, तद्विपरीतार्थव्यवस्थापकत्वाभावादिति, तदपि न रमणीयम् । तदुपदिष्टश्रद्धा. विशेषविषयपदार्थानां यथावस्थितार्थत्वाभावात् , उक्तं चस्वतोऽनुवृत्तिव्यतिवृत्तिभाजो, भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतत्त्वाद्, द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥ । अधिकं तु स्याद्वादमञ्जरी-स्याद्वादकल्पलता-अष्टसहस्री-सम्मतिवृत्यादावस्मत्कृतायोगव्यवच्छेदस्तुतिटीकायां वा विलोकनीयं विस्तृतत्वभयादप्रस्तुतत्वाचेह न प्रपञ्चयत इति । नचानादिसंसिद्धज्ञानेच्छाप्रयत्नादिमद्विहितशासनमेव श्रेयोमार्ग इति वाच्यं, तस्यैवासिद्धेः। अत्राहुर्गोतमीयाः तनुभुवनकरणादौ निमित्तकारणत्वादीश्वरस्य तदनादित्वं सिद्धमेव । न चैतदसिद्धं । तथाहि, तनुभुवनकरणादिकं विवादास्पदीभूतं बुद्धिमनिमित्तकं, कार्यत्वात् । यद्यत्कार्य तत्तबुद्धिमनिमित्तकं दृष्टं । यथा घटादिः । कार्यं चेदं तनुभुवनादिकं ततो बुद्धिमनिमित्तकम् , योऽसौ बुद्धिमान् तन्निमित्तं स ईश्वर इति प्रसिद्ध साधनं तदनादित्वं साधयत्येव । तत्सादित्वे ततः पूर्व तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्धेतुत्वाभावप्रसङ्गात् । यदि पुनस्ततः पूर्वमन्य इति परम्पराकल्पनेऽनादि
SR No.022431
Book TitleJagat Kartutva Mimansa Prakaranam
Original Sutra AuthorN/A
AuthorShivanandvijay
PublisherJain Granth Prakashak Sabha
Publication Year1944
Total Pages88
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy