Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 33
________________ ( १८ ) समस्ति, तत्प्रक्षयस्य प्रध्वंसरूपत्वेन सत्तासमवायस्वकारणसमवाययोरभावात्, सत्ताया द्रव्यादित्रयाणामेवाधारत्वाभ्यनुज्ञानात् समवायस्य च द्रव्यादिपञ्चसम्बन्धित्वस्वीकारात् । अथ अभावपरित्यागेन भावस्यैव विवादाध्यासितस्य पक्षीकरणान्नायं दोषः प्रवेशभागिति चेत् तर्हि मुक्त्यर्थिनां तदर्थमीश्वराराधनमनर्थकमेव स्यात् तत्र तस्याकिञ्चित्करत्वात् । सत्तासमवायस्य विचारमधिरोहतः शतधा विशीर्यमाणत्वात् स्वरूपासिद्धत्वं च कार्यत्वस्य स हि समुत्पन्नानां भवेदुत्पद्यमानानां वा, यदि समुत्पन्नानां तदा सतामसतां वा, न तावदसतां, गगनारविन्दादेरपि तत्प्रसङ्गात् । सतां चेत्, सत्तासमवायात्स्वतो वा न तावत्सत्तासमवायादनवस्थावल्लीविस्तारप्रसङ्गात् प्रागुक्तविकल्पद्वयानतिवृत्तेश्च । स्वतः सतां तु सत्तासमवायानर्थक्यम् । अथोत्पद्यमानानां सत्तासम्बन्धो निष्ठासम्बन्धयोरेककालत्वाभ्युपगमादिति मतम्, तदा सत्तासम्बन्ध उत्पादाद्भिन्न उताभिन्नः १ यदि भिन्न इति पक्षस्तदोत्पत्तेरसत्त्वाविशेषादुत्पत्यभावयोः किं कृतो भेदः, अथोत्पत्तिसमाक्रान्तवस्तु सच्वेनोत्पत्तिरपि तथा व्यपदिश्यते इति मतम् । तदा अतिजाड्यवल्गितमेव । उत्पत्तिसवं प्रति विवादे वस्तुसच्वस्यातिदुर्घटत्वात् । इतरेतराश्र - यदोषोऽपि स्यात्, तथाहि - उत्पत्तिसच्चे वस्तुनि तदेककालीनसत्तासम्बन्धावगमस्तदवगमे च तत्रत्य सत्त्वेनोत्पत्तिसत्त्वनिश्चय इति । अथैतद्दोषपरिजिहीर्षया तयोरैक्यमभ्युपगम्यते, ,

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88