Book Title: Jagat Kartutva Mimansa Prakaranam
Author(s): Shivanandvijay
Publisher: Jain Granth Prakashak Sabha

View full book text
Previous | Next

Page 17
________________ स च श्रेयोमार्गो न जिनशासनादन्यो भवितुमर्हति जिनशासनस्यैव सतां प्रमाणविषयत्वात् , उक्तं चहितोपदेशात् सकलज्ञक्लुप्ते मुमुक्षुसत्साधुपरिग्रहाच । पूर्वापरार्थेष्वविरोधसिद्धे स्त्वदागमा एव सतां प्रमाणम् ॥१॥ इति ननु मोक्षोपायानुष्ठानोपदेशमात्रे न दार्शनिका विप्रतिपद्यन्त इति जिनशासनादिवान्यशासनादपि न मोक्षावाप्तिरनुपपन्ना इति कश्चित् । स न विशेषज्ञः, सम्यगमिथ्योपदेशविशेषाभावप्रसङ्गात् । स्यादेतद्, वैशेषिकाभिमतस्याऽऽप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस्तावत्समीचीन एव बाधकप्रमाणाभावात् । तदभिमताप्तस्योपदेशोऽयं-" श्रद्धाविशेषोपगृहीतं हि सम्यरज्ञानं वैराग्यनिमित्तं परां काष्ठामापन्नं निःश्रेयसहेतुः," तत्र श्रद्धाविशेषश्चोपादेयेषूपादेयतया हेयेषु हेयतया श्रद्धानं, सम्यग्ज्ञानं तु यथावस्थिततत्त्वावगमलक्षणं तद्धेतुकं वैराग्यं च रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावनाभ्यास इति, एतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो न प्रत्यक्षेण बाध्यते, जीवन् मुक्तः प्रत्यक्षतः केषाश्चित् स्वयं संवेदनात्, परैः संहर्षायासविमुक्तेरनुमीयमानत्वात् “ जीवन्नेव हि विद्वान् संहर्षाया• साभ्यां विमुच्ये" इत्युपदेशाच, नानुमानागमाभ्यां बाध्यते ।

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88