Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 290
________________ वर्धमान जीवन - कोश २४३ धर्मत्वाच्चैतन्यस्य, तेन चामूनि किल शरीरातिरिक्तात्मोच्छेदपराणि वर्त्तन्ते, 'सत्येन लभ्यस्तपसा प इत्यादीनि तु देहतिरिक्तात्मप्रतिपादकानि ततः संशयः, युक्ता च भूतसमुदायमात्रधर्म्मता चेतनायाः, तस्याः भूतसमुदायमात्र एवोपलम्भात् गौरतादिवन् । प्रत्यक्षादिप्रमाणगोचरातिक्रान्तश्च देहातिरिक्त आत्मा इति, तत्र वेदपदानां चार्थं न जानासि, च शब्दात युक्तिहृदये च तेषामयमर्थ:: - तत्र विज्ञानघनेत्यादीनां वेदपदानामर्थः प्रागेव व्याख्यातः, सत्येन लभ्य इत्यादीनि तु सुप्रतीतानि भूतातिरिक्तात्मप्रतिपादकानि, तथाहि - सत्येन - सत्यवचनेन तपसाअनशनादिरूपेण ब्रह्मचर्येण च स्फुटं नित्यं नियमेन ज्योतिर्मयो- - ज्ञानमयः शुद्धो भवति, यं तथाभूतमात्मानं धीराः - परमज्ञानकलिता यतयो - महर्षयः संयतास्मानो ध्यानैकनिषण्णा पश्यति, न च चेतनाया भूतसमुदायमात्र एवोपलभ्यात् भूतधर्म्मता, विलक्षणतया तस्या मूर्त्तत्वायोगात्, एतच्चत्रागेव भावितम्, नच तस्मिन् सत्येवोपलम्भस्तद्धर्मत्वानुमानायालं, व्यभिचारदर्शनात्, तथाहि - स्पर्शे सत्येव रूपादय उपलभ्यन्ते, न च तेषां तद्धर्म्मतेति । ततः शरीरातिरिक्तात्माख्यपदार्थ धर्मश्चेतनेति स्थितं, प्रत्यक्षसिद्धोऽप्येष आत्मा, तद्गुणस्यावप्रहादिज्ञानस्य स्पष्टसंवेदनप्रत्यक्ष सिद्धत्वात् । अनुमानगम्योऽपि तच्चेदं – देहेन्द्रियातिरिक्त आत्मा, तदुद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुम्मतृ देवदत्तवत्, इह स्मरणमनुभव पूर्व तया व्याप्तं, व्याप्यव्यापकभावश्चानयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि - योऽर्थोऽनुभूतः स स्मर्यते न शेषस्तथा स्वसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूते हि विषयेयदि स्मरणं भवेत् ततोऽननुभूतत्वाविशेषात् खरविपाणादेरपि स्मरणप्रसक्तिरित्यतिप्रसङ्गः, विवक्षिते देहे विवक्षितेषु च इन्द्रियेषु सत्सुपलभ्यो योऽर्थः स भवान्तरे तद्विगमेऽपि जातिस्मरणे स्मर्यते, ततोऽवश्यं तस्यार्थम्योपलम्भको देहातिरिक्त आत्मा प्रतिपत्तव्यो न तन्मात्रः, तन्मात्रत्वे तदविगमे तदुपलब्धार्थानुस्मरणायोगात् अधिकृतदेहेन्द्रियमात्रेण तस्यानुपलब्धत्वारिति, आगमगम्यता त्वस्य सुप्रसिद्धैव, सत्येन लभ्य इत्यादिवेद - प्रमाणाभ्युपगमात् । एवं भगवता व्याकृते स किं कृतवान् ? इत्याह- छिन्नंमि संसयंमी जाइजरामरणविप्प मुक्केण । सो समणो पव्त्रइतो पंचहिं सह खंडियस एहिं || ६०६ || मलय टीका - अस्या व्याख्या पूर्ववत् । प्रथम गणधरादिदं नानात्वं तस्य जीवसत्तायां संशयः, अस्य तु शरीरातिरिक्त खल्वात्मनि, न तुतत्सत्तायामिति || - आव० निगा ६०६ / भाग २ (ख) सस्मिन्नपि प्रत्रजिते वायुभूति चिन्तय ॥ ! जितौ मे भ्रातरौ येन सर्वज्ञः खल्वयं ततः ||१११।। तदेतस्य भगवतोऽभ्यर्हणा वन्दनादिभिः । धौतकल्मषकालुष्यः स्यां छिनयि च संशयम् ॥ ११२ ॥ एवं विचिन्त्य सोऽप्यागात् स्वामिनं प्रणनाम च । स्वाम्यप्युवाच जीवः स तद्वपुश्चेतिते भ्रमः ||११३|| प्रत्यक्षाद्यग्रहणेन जीवो भिन्नस्तनोर्न हि । जलबुदबुदवत्सोऽङ्ग मूर्च्छतीति तवाशयः ॥ ११४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392