Book Title: Vardhaman Jivan kosha Part 2
Author(s): Mohanlal Banthia, Shreechand Choradiya
Publisher: Jain Darshan Prakashan

View full book text
Previous | Next

Page 324
________________ वर्धमान जीवन-कोश २७७ विशिष्टकालादिसामग्रीसद्भावे भावनाप्रकर्षविशेषभावतो निर्मूलमपि क्षयः, अथ यदि प्रतिपक्षभावनातः प्रतिक्षणमपचयो दृष्टस्तथापि तेषामात्यन्तिकोऽपि क्षयः सम्भवतीति कथमवसीयते ? उच्यते, अन्यत्र तथा प्रतिबन्धग्रहणात् , यथाशीतस्पशसम्पाद्याः रोमहर्षादयः शीतप्रतिपक्षस्य वह्नमन्दतायां मंदा उपलब्धाः उत्कर्षे च निग्न्वयविनाशधर्माणः, ततोऽन्यत्रापि बाधकस्य मन्दतायां बाध्यस्य मन्दतादर्शनाद्वाधकोत्कर्षे बाध्यस्यावश्यं निरन्वयविनाशो वेदितव्यः, अन्यथा बाधकमन्दतायां मन्दता न स्यात् , अथास्ति ज्ञानस्य ज्ञानावरणीयं बाधकं, ज्ञानावरणीयकर्ममन्दतायां च ज्ञानस्यापि मनाक् मन्दता, अथ च प्रबलज्ञानावरणीयकर्मोदयोत्दर्षेऽपि न ज्ञानस्यनिरन्वयो विनाशः, एवं प्रतिपक्षभावनोत्कर्षेऽपि न रागादीनामत्यन्तोच्छेदो भविष्यति, तदयुक्तं, द्विविधंहि बाध्यं-सहभूस्वभावं तदन्यथाभूतं च, तत्र यत् सहभूस्वभावभूतं तन्न कदाचनापि निरन्वयं विनाशनुपयाति, ज्ञानं चात्मनः सहभूस्वभावम , आत्माच परिणामिनित्यः, ततोऽत्यन्तप्रकर्षवत्यपि ज्ञानावरणीयकम्र्मोदये ज्ञानस्य न निरन्वयो विनाशः, रागदयस्तु लोभादिकर्मविपाकोदयसम्पादितसत्ताक स्ततः कर्मणो निर्मूलमपगमे तेऽपि निर्मूलमपगच्छन्ति, नन्वासतां कर्मसम्पाद्या रागादयः, तथापिकर्मा निवृत्तौ ते निवर्तन्ते इति नावश्यं नियमो, नहि दहननिवृत्तौ तत्कृता काष्ठे अङ्गुरता निवत्तते, तदसत् , यत इह किञ्चित् कचित् निवर्त्य विकारमापादयति, यथा अग्निः सुवर्णे द्रवतां, तथाहि-अग्निनिवृत्तौ तत्कृता सुवर्ण द्रवता निवर्त्तते, किञ्चित् पुनः कचित् अनिवर्त्यविकारारम्भकं, यथा स एवाग्निः काष्ठे, न खलु श्यामतामात्रामपि काष्ठदहननिवृत्तौ निवर्त्तते, कर्म चात्मनि अनिवर्त्य विकारारम्भक, भवेत्तर्हि यदपि तदपि कर्मणा कृतं न कर्मनिवृत्तौ निवत्तेत. यथा अग्निना श्यामतामात्रमपि काष्ठे कृतमग्निनिवृत्तौ, ततश्च यदेकदाकर्मणाऽऽपादित मनुव्यत्वममरत्वं कृमिकोटत्वं शिरोवेदनादि च तत्सर्वकालं तथैवावतिष्ठेत, न चैतत् दृश्यते, तस्मान्निवर्त्य विकारारम्भकं कर्म, ततः कर्मनिवृत्तौ रागादीनामपि निवृत्तिः, यदपि च प्रागुपन्यस्तं प्रमाणं 'यदनादिमत् न तद्विनाशमाविशति यथाऽऽकाश' मिति तदप्यप्रमाणं हेतोरनैकान्तिकत्वात् , प्रागभ वेन व्यभिचारात् , तथाहि -प्रागभावोऽनादिमानपि विनाशमाविशति, अन्यथाकार्यानुत्पत्ते ?, भावनाधिकारी च सम्यग्दर्शनादिरत्नत्रयसम्पत्समन्वितो वेदितव्यः, इतरस्य तदनुरूपानुष्ठानप्रवृत्त्यभावेन तस्या मिथ्यात्वरूपत्वात् , आह च प्रवचनम"नाणी तवमि निरओ चारित्ती भावणाए जोगो" त्ति, सा च भावना रागादिदोषनिदानस्वरूपविषयफलगोचग यथागममवसा तव्या, जं कुच्छियाणुजोगो पयइविसुद्धस्स चेव जीवस्स। एएसिमो नियाणं बुहाण न य सुन्दरं एयं ॥१॥ रूवपि संकिलेसोऽभिस्संगापीइमाइलिंगाउ । परमसुहपच्चणीओ एयपि असोहण चेव ।।२।। विसओ य भंगुरो खलु गुणरहिओ तह य तहऽतहारूवो! संपत्तिनिप्फलो केवलं तु मूलं अणत्थाणं ।३। जम्मजरामरणाई विचित्तरूवो फलं तु संसारो। बुहजणनिव्वेयकरो एसोवि तहाविहो चेव ॥४॥ (धर्म० ११६६-७०-१-२) Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392