Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
[ ७३ ]
४६ - ( मूलम् ) यच्चोक्त ं " प्रमाणपञ्चाकावृत्तेस्तत्राभावस्य मानता " ( " लो० १३ ) इति एतदप्ययुक्तं विकल्पानुपपत्तेः, तथाहि - असावभावः किं प्रमाणपञ्चक विनिवृत्तिमात्रमभाव एव ? आहोश्चिदात्मा ज्ञानविनिर्मुक्तः २, उताहो उपलब्ध्यन्तरात्मक ३ इति, न तावत्तुच्छ एव तस्य निरुपाख्यत्वेन तदभावपरिच्छेदकत्वानुपपत्तेः,
विकल्पासहत्वादिति तत्तात्पर्य्यम्, विकल्पप्रकारं तदनुपपत्तिवोपपादयति तथाहीत्यादिना - असौ प्रमाणपञ्चकातिरिक्तप्रमाणकत्वेन बुद्धिविषयीभूतः । प्रमाणपञ्चक विनिवृत्तिमात्रम् - केवलं प्रमाणपचकराहित्यम् । वादिनां सर्वज्ञे प्रमाणत्वेनाभिमतोऽभावः किं प्रमाणपञ्चकराहित्यमात्रमभाव एव ? अथवा ज्ञानविनिर्मुक्ताऽऽत्मस्वरूप ? आहोस्वित् अन्योपलब्धिरूपः ? इत्येवंविधास्तिस्रो विप्रतिपत्तयो मत्कृताः सम्भवन्तीति भावः तत्राभावस्य प्रमाणपञ्चकविनिवृत्तिमात्रतां खण्डयति "न तावत्तुच्छ एवेत्यादिना " " सदाभावादिप्रसङ्गः " इत्यन्तेन सन्दर्भेण प्रमाणत्वेनाभिमतस्याभावस्य तुच्छत्वं न स्वीकरणीयम् सचाभावो यदि तुच्छः स्यात्तर्हि तस्य निर्वक्तुमशक्यत्वेन अनिर्वचनीयस्य गगनकुसुमादेः सौरभादिदायकत्वमिव तुच्छस्य तस्य सर्वज्ञाभावपरिच्छेदकत्वं न स्यादिति प्रमाणपञ्चकविनिवृत्तिमात्रमभावो नाभावस्वरूपतामर्हतीति तत्र हेतुमाह - " ज्ञानस्य हीत्यादि "
-
४७ - ( मूलम् ) ज्ञानस्य हि परिच्छित्तिर्धर्मो नाभावस्य, नचाभ परिच्छेदकज्ञानजनकत्वमभावस्य, अभावत्वविरोधात्,

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244