Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 222
________________ [१११] भवति तस्मात् तदवस्थायां वक्तृत्वस्य विवक्षापूर्वकत्वाभावः स्वीकरणीयतामा पद्यते, विवक्षयोक्तस्य स्मरणं लोके दृश्यते यच्चान्यथोक्तं भवति न तत्स्मरणपथमायातीति निश्चितम् एवम्ब शयनादितः प्रबुद्धस्य जनस्य प्रागुक्तस्मरणाभावात्तदीयवक्तृत्वस्य विवक्षार्पूवकत्वं न सम्भवतीति भावः । ननु प्रबुद्धादो जने प्रागुक्तस्मरणानुपलब्धौ सत्यामपि मया विवक्षा स्वीक्रियत एवेति चेत् का क्षतिरित्याशङ्कय समाधत्तेतथापीति___७३ ( मूलम् ) तथापि तत्कल्पनेऽतिप्रसङ्गः, कातरविवक्षायां क्वचिच्छूरशब्दप्रयोगदर्शनात्, . तथापि प्रबुद्धादौ जने प्रागुक्तस्मरणानुपलब्धौ सत्यामपि । तत्कल्पने विवक्षाभ्युपगमे अतिप्रसङ्गः-अन्यत्राप्यन्यदनिष्टस्यापत्तिशक्यस्वीकरणा स्यात् । विवक्षया वक्तृत्वमितिनियमाभावमुपपादयति -कातरविवक्षायामिति-अयं भाव:-"तत्पदार्थविवक्षायां तद्वाचकशब्दप्रयोगः, तत्पदार्थाविवक्षायां तत्पदार्थवाचकशब्दाप्रयोगः “इत्येवमन्वयव्यतिरेको यदि वक्तृत्वविवक्षयोः स्यात् तदा विवक्षया वक्तृत्वमित्येवं नियमः स्वीकरणीय: स्यात् तावेव तु न तयोः स्तो यतः कातरविवक्षायां कातरशब्दे प्रयोक्तव्ये कचित् शूरशब्दप्रयोगोऽपि दृश्यते, एवश्च कातरविवक्षायां कातरशब्दप्रयोगाभावादन्वयव्यभिचारः एवं शूरपदार्थाविवक्षायां शूरशब्देऽप्रयोक्तव्येऽपि शूरशब्दप्रयोगदर्शनाद् व्यतिरेकव्यभिचारोऽपि वर्तते तथा च " विवक्षया वक्तत्वम्" इतिनियमो नेति सिद्धम । ननु कातरविवक्षया शूरशब्दप्रयोगस्थलेऽपि कातरविवक्षानन्तरं शूरविवक्षातः

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244