Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 212
________________ [१०१] " तथाभूतां दृष्ट्वा नृपसदसि पाचालतनयां, वने व्याधैः सार्द्ध सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं, गुरुः खेदं खिन्ने भजति मयि नाद्यापि कुरुषुः ॥ " इति । 99 अत्र श्लोके " नाद्यापि कुरुषु 99 इत्यत्र काकोः प्रश्नाभिव्यञ्जकत्वमपि, अन्यथा " मयि न योग्यः खेद: (अप्रियत्वेन ज्ञानम् ) कुरुषु तु योग्य: इत्यस्य काकुव्यङ्ग्यस्य वाच्यसिद्धयङ्गत्वेन काव्यस्यास्य गुणीभूतव्यङ्ग्यत्वं स्यात् प्रश्नाभिव्यञ्जकत्वे तु तेनैव व्यङ्ग्येन वाच्यसिद्धौ पूर्वोक्तस्य व्यङ्ग्यस्यार्थस्य वाच्यसिद्धयङ्गत्वा - भावेन न गुणीभूतव्यङ्गयत्वमपि तु ध्वनित्वमेवेत्येतत्सर्वं काव्यप्रकाशे तृतीयोल्लासे स्पष्टमिति ॥ ३७ ॥ नचादर्शनतोऽस्यैत्र, साम्राज्यस्यैव नास्तिता । सर्वैरदर्शनं चास्य, पूर्वमेव निराकृतम् ॥ ॥ ३८ ॥ (अन्वयः) अध्य, एव, अदर्शनतः, साम्राज्यस्य, एव, नास्तिता, न, च, च, अस्य, सर्वैः, अदर्शनम्, पूर्वम्, एव, निराकृतम् । वृत्तिः — अस्य - तस्य, सर्वज्ञाधिकरणका सर्वज्ञत्वज नितगुणकर्मकावलोकनाभाववतः पुंस इति यावत् । इदं शब्दस्य तच्छन्दार्थबोधकत्वं पूर्वपक्षनिरूपणप्रसङ्गे पूर्वमावेदितमवसेयम् । एत्र - खलु । अदर्शनतः सर्वज्ञाधिकरणका सर्वज्ञत्वजवस्तुकर्म का नवलोकनतः । साम्राज्यस्य - सर्वज्ञत्वात्मकस्य । एव खलु । नास्तिता - अभावः । न च - नैव । स्वीकर्तुं शक्येति । केनचिदेकेन सर्वज्ञेऽसर्वज्ञत्वजनित

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244