Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 193
________________ [ ८२ ] शङ्कय समाधत्ते तदतत्स्वभावत्वे इत्यादि अयं भावः कस्यचित् पद्मरागादे कदाचित् विशुद्धर्भवति न तु सर्वदेति वस्तुस्थितिः तदतत्स्वभावत्वस्वीकारे अमलस्वभावत्वात् सर्वस्य पद्मरागादेर्विशुद्धयापत्तिः स्यादिति भावः । तत्र हेतुमाह- अमलस्वभावत्वेऽपीति, अमलस्वभावत्वे स्वीकृतेऽपि मलस्वभावतापन्नवद् मलादेरनुपपत्तेरिति भावः । ननु दृष्टान्तदाष्टान्तिकयोर्महदन्तरम् पद्मरागादेर्मलस्य भिन्नस्तुत्वेन पद्मरागोपरञ्जकत्वात् सांसिद्धिकत्वं नास्ति रागादीनां पुनरात्मनः सांसिद्धिकत्वमेवेत्याशङ्कते न पद्मरागादेरिति । समाधत्ते - आत्मनोऽपीत्यादि ५९ - ( मूलम् ) आत्मनोऽपि रागादिषु तुल्यः परिहारः, तथाहि - रागादिवेदनीय कर्माणोऽप्यात्मनो भिन्नवस्तुतामनुभवन्तस्तदुपरञ्जका इति तत्रनीतिः, निसर्गशुद्धस्य कथ तदुपरञ्जकाः कथं वा न भूयोऽपवर्गावस्थायामिति चेत्, पद्मरागादिष्वपि समानमेतत्, रागादीनामपि भिन्नवस्तुत्वेनात्मोपरञ्जकत्वात् सांसिद्धिकत्वस्यैव स्वीकरणीयत्वादिति भावः । सांसिद्धिकत्वमेवोपपादयति - तथाही - त्यादि - तत्त्वनी तिरित्यन्तेन ग्रन्थेन । ननु स्वभावशुद्धस्याऽऽत्मनस्ते रागादय उपरञ्जका न भवितुमर्हन्ति तेषामात्मोपरञ्जकत्वे चापवर्गावस्थायामप्युपरञ्जकत्वमापद्येतेत्याशङ्कते - निसर्गशुद्धस्येत्यादिसमाधत्ते - पद्मरागादिष्वपीत्यादि - निसर्गशुद्ध पद्मरागो परञ्जकत्वमपि मलस्य न स्यात् क्षारमृत्तिकापुटपाकादितो विशुद्धयवस्थायामप्युपरञ्जकत्वञ्च स्यान्न च तथा भवतीति निसर्गशुद्धस्याप्यात्मन उप " -

Loading...

Page Navigation
1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244