Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 221
________________ [११०] " विवक्षां विनापि कचित् वक्तृत्वदर्शनात् "विवक्षया च वक्तृत्वम् ” इति तदुक्तिरसङ्गतेति भावः । ननु विवक्षां विनापि वक्तृत्वमिति भवतां कथनमप्रमाणम्. विवक्षयैवास्मदादीनां वक्तृत्वोत्पत्तेरतो विवक्षां विनापि वक्तृत्वं दर्शयति सुप्तेति सुप्तमत्तादीनां जनानां पूर्वतो विवक्षाभावेऽपि वक्तुत्वं सर्ववादिसिद्धमिति भावः । सुप्तमत्तादिषु तथादर्शनात् इत्यस्य- सुप्तमत्तादिषु जनेषु विवक्षा - भावेऽपि तथादर्शनात् तेन प्रकारेण वक्तृत्वदर्शनात् इत्यर्थः, अथवा तथादर्शनात् इत्यत्र तथाऽदर्शनात् इत्येवंच्छेदः कार्य्यः । सुप्रमत्तादिषु तथा तेन प्रकारेण विवक्षापूर्वकत्वेन वक्तृत्वस्य अदर्शनात् - अनुपलब्धेरित्यर्थो बोध्यः उभयथापि ग्रन्थसङ्गतेः । - ननु सुप्तमत्तादिषु विवक्षा नास्ति कथम् वक्तृत्वानुपपत्तेरेवख दृष्टान्तासङ्गतिमाशङ्कते तत्रापीति ७२ (मूलम् ) - तत्रापि साऽस्त्येवेति चेत्, न, तथा प्रतीत्यभावात्, प्रबुद्धादावुक्तस्मरणानुपलब्धेः, तत्रापि-सुप्तमत्तादिजनेष्वपि सा - बुद्धिविषयीभूता वक्तृत्वकारणीभूता विवक्षेत्यर्थः, समाधत्ते नेति - यदि तत्रापि विवक्षा स्यात्तदा तेषु जनानां विवक्षुरयमिति प्रतीतिः स्यात् न च भवति प्रतीतिरतः प्रतीत्यभावाद तेषु वत्कृत्वाभाव उपपादनीयः । तथातेन प्रकारेण विवक्षुत्वप्रकारेण प्रतीतेरभावादित्यक्षरार्थः । नन्वेता वता सुप्तमत्तादयो विवक्षाभाववन्तो विवक्षाभाववत्त्वेन प्रतीयमानत्वात् इत्येवमनुमाने हेतुसाध्ययोरैक्यात् " अयं घटो घटत्वात् " इति वदनुमानमप्रयोजकं स्यादित्याशङ्कय समाधत्ते - प्रबुद्धेतिस्वप्नात् उन्मादावस्थायाश्च विनिर्मुक्त प्रबुद्धादौ जने प्रागुक्तस्य स्मरणं न -

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244