Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 210
________________ [९९] वृत्ति:-धूम:-वह्नयनुमापकतया पर्वतचत्वरगोष्ठमहानसादौ प्रसिद्धः पदार्थः । अपि-खलु । अत्र-अस्मिल्लोके । अग्निदोषादिवह्निदोषप्रमुखम् । अनासृत्य-अननुसृत्य । अग्निहेतुक:-अग्निर्वह्निहेतुर्यस्य स तथा वह्नि कारणकः । धूमो वह्निदोषाद्यननुसृत्यैव वनेः सकाशादुत्यन्नो भवति न तु वह्निदोषादुत्पद्यते इति, एवञ्च वक्तृत्वमपि न आत्मगतादनन्तभूतदोषादेरुत्पत्तुमर्हति किन्तु आत्मनः, सकाशादेव, तथा च वक्तत्वस्य नात्मगतदोषभूतादसर्वज्ञत्वादुत्पत्तिरिति न तस्य सर्वज्ञत्वाभावाविनाभूतत्वमिति भावः । विपक्षे बाधकमाह द्वितीयार्द्धन-अन्यथा-वक्तृत्वस्याऽऽत्मगतदोषभूतादसर्वज्ञत्वादुत्पत्तिस्वीकारे। अन्य:-अपरः, धूम इतिः यावत् । अपि-खलु । इत्थम-अनेन प्रकारेण । तस्य-वह्नः । स्फुटनादिवेण्वादिदलनजनितस्फोटारवादि । अपि-सम्भावनायाम् । गमयेत्अनुमापयेत् । यथा धूमेन वन्यनुमितिस्तथा वहनिदोषादेरप्यनुमितिः स्यात् न च भवति, एवश्च सदोषादात्मन आत्मगतदोषाद्वा न वक्तृत्वोत्पत्तिः स्वीकतुं शक्या, तथा च सति न वक्तत्वेऽसर्वज्ञत्वाविनाभूतत्वमिति न तेनासर्वज्ञत्वानुमितिरितिभावः ॥ ३५ ॥ सर्वज्ञे वक्तृत्वमुपपादयतिजानाति बहु यः सम्यक, वक्ति किश्चित् स तत्र यत् । जानानः सर्वमप्येवं, ननु कस्मान वक्ष्यति ॥ ॥३६ ॥ - (अन्वयः) यः, सम्यक्, बहु, जानाति, सः, तत्र, यत्, किचित्, वक्ति, एवम् , सर्वम् , अपि, जानानः, कस्मात्, न, वक्ष्यति ।। वृत्तिः-य:-बुद्धिविषयीभूतः कश्चित् । सम्यक्समीचीनतया। बहु-बाढम् । जानाति-अवगच्छति । सः-तादृशः। तत्र-तस्मिन्

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244