SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [ ७३ ] ४६ - ( मूलम् ) यच्चोक्त ं " प्रमाणपञ्चाकावृत्तेस्तत्राभावस्य मानता " ( " लो० १३ ) इति एतदप्ययुक्तं विकल्पानुपपत्तेः, तथाहि - असावभावः किं प्रमाणपञ्चक विनिवृत्तिमात्रमभाव एव ? आहोश्चिदात्मा ज्ञानविनिर्मुक्तः २, उताहो उपलब्ध्यन्तरात्मक ३ इति, न तावत्तुच्छ एव तस्य निरुपाख्यत्वेन तदभावपरिच्छेदकत्वानुपपत्तेः, विकल्पासहत्वादिति तत्तात्पर्य्यम्, विकल्पप्रकारं तदनुपपत्तिवोपपादयति तथाहीत्यादिना - असौ प्रमाणपञ्चकातिरिक्तप्रमाणकत्वेन बुद्धिविषयीभूतः । प्रमाणपञ्चक विनिवृत्तिमात्रम् - केवलं प्रमाणपचकराहित्यम् । वादिनां सर्वज्ञे प्रमाणत्वेनाभिमतोऽभावः किं प्रमाणपञ्चकराहित्यमात्रमभाव एव ? अथवा ज्ञानविनिर्मुक्ताऽऽत्मस्वरूप ? आहोस्वित् अन्योपलब्धिरूपः ? इत्येवंविधास्तिस्रो विप्रतिपत्तयो मत्कृताः सम्भवन्तीति भावः तत्राभावस्य प्रमाणपञ्चकविनिवृत्तिमात्रतां खण्डयति "न तावत्तुच्छ एवेत्यादिना " " सदाभावादिप्रसङ्गः " इत्यन्तेन सन्दर्भेण प्रमाणत्वेनाभिमतस्याभावस्य तुच्छत्वं न स्वीकरणीयम् सचाभावो यदि तुच्छः स्यात्तर्हि तस्य निर्वक्तुमशक्यत्वेन अनिर्वचनीयस्य गगनकुसुमादेः सौरभादिदायकत्वमिव तुच्छस्य तस्य सर्वज्ञाभावपरिच्छेदकत्वं न स्यादिति प्रमाणपञ्चकविनिवृत्तिमात्रमभावो नाभावस्वरूपतामर्हतीति तत्र हेतुमाह - " ज्ञानस्य हीत्यादि " - ४७ - ( मूलम् ) ज्ञानस्य हि परिच्छित्तिर्धर्मो नाभावस्य, नचाभ परिच्छेदकज्ञानजनकत्वमभावस्य, अभावत्वविरोधात्,
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy