Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 206
________________ [९५] इत्याकारकवाक्यसन्दर्भविशेषः । ते-तव । भावम् सर्वज्ञभावम् भवन्मतसिद्धसर्वज्ञात्मकं पदार्थमिति यावत , न-नहि । व्यपोहतेदूरीकरोति । भवदनुमानव्यवहारघटकसर्वज्ञपदेन भवन्मतसिद्धसर्वज्ञस्याप्रतिपादने मानाभावात् सर्वज्ञपदस्य सर्वज्ञत्वावच्छिन्ने शक्तत्वात् अन्यथा अनीलघटानयनतात्पर्येणापि “घटमानय " इत्येवं व्यवहारापत्तेरिति भावः ॥ २९ ॥ एवं वक्तृत्वहेतुना न तवेष्टसिद्धिरित्याहसर्वज्ञत्वेन वक्तत्व, यतश्च न विरुध्यते । अतस्तेन स(न)सन्न्यायात् , तदभावोऽत्र साध्यते ॥३०॥ ( अन्वयः) च, यतः, सर्वज्ञत्वेन, वक्तृत्वम्, न, विरुध्यते, ससन्यायात् , अतः, ते, तदभावः, अत्र, न, गम्यते । वृत्तिः-च-पुनः । यतः-यस्मात् कारणात् । सर्वज्ञत्वेनसकल विषयकज्ञानवत्त्वेन । वक्तृत्वम्-प्रवक्तृत्वम् । न-नहि । विरुध्यते-विरुद्धं भवति । ससन्न्यायात्-सन्न्यायसंवलितात् । अतःअस्मात्कारणात् । ते-तव । तदभावः-सर्वज्ञत्वाभावः । अत्र-पक्षे । न-नहि । गम्यते-प्रतीयते ॥ " अतस्तेन न सन्यायात्" तदभावोऽत्र गम्यते " इत्येवं द्वितीयार्द्धस्वीकारे तु अतः, तेन, सन्न्यायात्, अत्र, तदभावो न गम्यते” इत्येवमन्वयं विधाय अत:-अस्माद्धेतोः । तेन-वक्तृत्वेन हेतुना । सन्न्यायात्-समीचीनन्यायप्रयोज्यः । तदभाव:-सर्वज्ञत्वाभावः । अत्र-पक्षे । ननहि । गम्यते-प्रत्येतुं शक्यते” इत्येवं व्याख्येयम् ॥ ३०॥ पूर्वपक्षी पुनः शङ्कते

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244