Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 201
________________ [९०] यज्ञादिविधय इति यावत् । दुर्गतिहेतवः-दुःस्थितिकारणानि । प्रोक्ताः-निगदिताः, सर्वज्ञैरिति शेषः । इत्थश्च-किश्चिज्ज्ञो यागादिधर्मिकमिथ्यार्थत्वनिश्चयवान् दुर्गतिहेतुतया हिंसादिप्रतिपादकत्वात् इत्यनुमानेन यदि मिथ्यार्थत्वेन यागादिविषयकं ज्ञानं किश्चिज्ज्ञे सम्पन्नन्तदा “एको भावस्तत्त्वतो येन" इत्यादिरीत्या सर्वभावावेदकत्वमकामेनापि स्वीकरणीयमिति पर्यवसितम्, तदाह-तेनेत्यादिना-(तर्हि) तेन-तादृशेन किश्चिज्ज्ञेन । मतम्-अभीष्टम् । किं न ज्ञातम् अपि तु सर्वमेव ज्ञातमिति सर्वज्ञवं तस्मिन् समायातमेवेति ॥ २४॥ तन्मतखण्डने प्रकारान्तरमाहअन्यत्वं च विरोधो वा, नबर्थश्चेद्विकल्प्यते । यमपेक्ष्य विरूद्धोऽसा-चन्यो वा स हि सर्ववित् ।।२५।। (अन्वयः) च, नबर्थः, अन्यत्वम् , वा, विरोधः, इति चेत्, विकल्प्यते, (तदा) असो, यम् , अपेक्ष्य, विरुद्धः, वा, अन्यः, हि, सः, सर्ववित् । वृत्तिः-च-पुनः । ( " असौ न सर्वज्ञः” इत्यत्र ) नबर्थ:नशब्दार्थः । अन्यत्वम्-भेदः । वा-अथवा । विरोध:-सहानवस्थानादिलक्षणः । (इति-इत्येवंप्रकारेण) चेत्-यदि । विकल्प्यतेविमतिः समुपस्थाप्यते । (तदा) असौ-अनुमाने पक्षतयाऽभिमतः पदार्थः । यम्-बुद्धिविषयीभूतं सर्वज्ञम् । अपेक्ष्य-लक्ष्यीकृत्य । यं प्रतीत्यर्थः । विरुद्धः-सहानवस्थानादिलक्षणविरोधाश्रयः । वा-अथवा । अन्य. विलक्षणः, भिन्न इति यावत् । हि-निश्चयेन । सः-विरोधप्रतियोगी। सर्ववित्-सर्वज्ञः । स्यादिति शेषः ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244