Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
. [९२] उपपन्नं भवतीति । एवञ्चात्र “विपरीतज्ञपक्षकमनुमानमिदं भवदनिष्टसाधनम् अनेकान्तदर्शनसाधकत्वादित्यनुमानं फलतीति ।।२६।।
कुत्सितज्ञस्य पक्षतयाऽभिमतत्वेऽप्याह
इत्येव कुत्सितज्ञश्चेत्, कुत्सिता नरकादयः । तज्ज्ञानसाधने तस्य, भवेदिष्टप्रसाधनम् ॥ २७ ॥
(अन्वयः) इत्येवम् , चेत्, कुत्सितज्ञः, कुत्सिताः, नरकादयः, तस्य, तज्ज्ञानसाधने, इष्टप्रसाधनम् , भवेत् ॥
वृत्तिः–इत्येवम्-इत्यनेन प्रकारेण । चेत्-यदि । कुत्सितज्ञःकुत्सितं निन्दितं जानातीति तथा, पक्षतयाऽभिमतो भवतामितिशेषः । (तर्हि) कुत्सिताः-निन्दताः । नरकादय:-नरकप्रमुखाः । प्रायः सर्व एव लौकिका इति यावत् । एवञ्च समस्तनरकादिविषयकज्ञानवत्त्वमवश्यमपेक्षणीयं स्यात् । तस्य-कुत्सितज्ञस्य । तज्ज्ञानसाधने-अखिलकुत्सितपदार्थविषयकज्ञानसाधने । इष्टप्रसा. धनम्-इष्टस्य-अभिमतस्य अखिलकुत्सितपदार्थविषयकज्ञानवत: सर्वज्ञस्येति यावत् प्रसाधनम्-प्रकर्षेण साधनम् , इष्टप्रसाधनम् , तस्मिन् तथा । भवेत्-स्यात् । एवञ्च कुत्सितज्ञपक्षकमनुमानमिदमस्मदभिमतसाधकम् , फलतः सर्वज्ञसाधकत्वादिति । ननु न मया विपरीतज्ञः कुत्सितज्ञो वा पक्षः क्रियते किन्तु यः किश्चिन्न जानीते एवंविधोऽकिश्चिज्ज्ञस्तत्र सर्वज्ञभेदसाधने न तवेष्टसिद्धिरित्याशङ्कय समाधत्ते-अथेत्यादिना
अथ किञ्चिन्न जानीते, ताहरवक्ता कथं भवेत् ? । एवं तावत्पतिज्ञार्थः, सर्वथा नोपपद्यते ॥ २८ ॥

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244