Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
__ [९७] यदि, अन्यभावः, असौ, सकृत् , अपि, अन्यथा, (तदा) ततः, धूमः, न, स्यात् , इह, च, एवम् वक्तृत्वम् , तन्निबन्धनम् . न ।।
वृत्तिः-अतीतादे:-भूतप्रमुखस्य, भूतस्य अनागतस्य चेतियावत् । अदर्शनात्-अनवलोकनात् । सर्वत्र-सर्वस्मिन् स्थाने । दर्शनस्य-असर्वज्ञाविनाभूतवक्तृत्वकर्मकावलोकनस्य असिद्धिः सिद्धयभावो दर्शनासिद्धिस्तस्यास्तथा। अग्निधूमादौ वह्निधूमादिस्थले। न-नहि । तुल्यम्-समानम् । वन्य विनाभूतत्वस्यापि धूमे सर्वत्रादर्शनं न समानमित्यर्थः । यतः-यस्माद्धेतोः । अग्ने:वह्नः सकाशात् । धूमभावतः-धूमस्य भाव उत्पत्तिधूमभावस्तस्मात्तथा । एवञ्च धूमस्य वह्नः सकाशादुत्पत्त्या वन्यविनाभूतत्वं धूमे निर्विवादं सिद्धमिति । एतदेव स्फोटयति एवमित्यादिना श्लोकेन-एवम्-अनेन प्रकारेण । यदि-चेत् । अन्यभाव:-अन्यपदार्थः । असौ-बुद्धिविषयीभूतो धूमः । सकृत्एकवारम् । अपि-खलु । अन्यथा-वन्यनविनाभूतः, वहिन विनाभूत इतियावत् (स्यात्, तदा) ततः-वह्नः । धूम:-धूमपदार्थः । न नहि । स्यात् भवेत्-जायेतेत्यर्थः । एवञ्च धूमे यदि वन्यविनाभूतत्वं न स्वीक्रियेत तदा वह्नः सकाशात्तदुत्पत्तिरेव न समुदियात् अतो धूमे वन्यविनाभूतत्वं स्वीकरणीयमकामेनापि . पूर्वपक्षिणाऽपि, प्रकृते तु तन्नियमो नास्तीत्याह-नचेहैवामित्यादिनाइह-असर्वज्ञवक्तृत्वादो। च-पुनः । एवम् - अनेनप्रकारेण । वक्तृत्वम्-हेतुतयोपन्यस्तम् । तन्निबन्धनम्-सोऽसर्वज्ञो निबन्धनं कारण यस्य तत्तथा, असर्वज्ञजनितमितियावत् । न-नहि । एवञ्च दृष्टान्तदा न्तिकयोवैषम्यमित्यवसेयम् ॥ ३२ ॥ ३३ ॥
पुनः शङ्कते

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244