Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 198
________________ [८७ ] भवतीत्युक्तम् सा पुनः कथं कीदृशीति जिज्ञासां निराकरोतिसमासादयतामित्यादि ६५-(मूलम् ) समासादयतां ज्ञानवृद्धि सूक्ष्मेक्षिकयापि वस्तुनि पश्यतां तदतदात्मकत्वमभ्यासातिशयेन प्रकृष्टौदासीन्यरूपा जायते इति प्रयासः, तदेव परमार्थतो वीतरागत्वं, उक्तश्च ज्ञानवृद्धिमू-सम्यग्ज्ञानातिशयम् । समासादयताम्-लभमानानाम , सूक्ष्मेक्षिकया-सूक्ष्मदृष्टया, अपि-खलु। अभ्यासातिशयेनअतिशयाभ्यासबलेन । वस्तुनि-पदार्थसार्थे, · तदतदात्मकत्वम्सदसदात्मकत्वम् समीचीनासमीचीनात्मकत्वमिति यावत् , गुणदोषवत्त्वमिति हृदयम् । पश्यताम्-अवलोकयताम् , जनानामितियावत् । प्रकृष्टौदासीन्यरूपा-प्रकृष्टं प्रकर्षयुक्तं यत् औदासीन्यम्उदासीनता तद्रूपोपेक्षा जायते-समुत्पद्यते इति लागुपेक्षाधिगमार्थ करणीयो महान् प्रयत्नः सर्वथा भव्यात्मभिः । ननु जायतामेतादृश्युपेक्षा, किन्तावतेत्येवमनुसन्धायाह-तदेवेत्यादि-तदेव-बुद्धिविषयीभूतं प्रकृष्टमौदासीन्यं खलु, परमार्थतः-वस्तुगत्या वीतरागत्वम-रागरहितत्वम् सर्वज्ञत्वमितियावत् । उक्तार्थप्रमापकत्वेनाभियुक्तोक्तिमुपस्थापयति-उक्तश्चेत्यनेन तदेवाहऔदासीन्यं तु सर्वत्र, त्यागोपादानहानितः । वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते ॥ इति.

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244