Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 219
________________ [१०८] कार्यस्य कियन्तमपि कालमवस्थानाविरोधात् खनित्राद्यभावेऽपि घटादिविनाशासिद्धेः। ____ अयं भाव लोके कपालादेरुपादानकारणस्य विनाशादेव कार्यस्य घटादेर्विनाशो दृश्यते न तु निमित्तकारण विनाशेऽपि कार्य्यनाशः कचिदृष्टो दृश्यते वा, दण्डादेरुपादानकारणस्य नाशेऽपि घटाद्यात्मककार्यदर्शनात्. अन्यथा खनित्राद्यभावेऽपि घटादिविनाशापत्तिः स्यात्, एवञ्च रागादीनां देहादिकार्य प्रति निमित्तकारणत्वे न तदीयविनाशस्य देहनाशाप्रयोजकत्वान्न तन्निवृत्ती तन्निवृत्तिरिति । ननु रागादीनां वक्तृत्वोपादानकारणत्वे रागादिनाशप्रयोज्यो वक्तृत्वनाश इति रागादिविनाशे वक्तृत्वविनाशोऽप्यापद्येत, दृश्यते च रागादिविरहितस्यापि वक्तृत्वमिति वक्तृत्वोपादानकारणं पूर्व. पक्षी पृच्छति-उपादाननिबन्धनमिति. समाधत्ते-उच्यते इति ६९ (मूलम् )-उपादान निबन्धन किमस्य वक्तृत्वस्येति चेद् ? उच्यते, भाषाद्रव्याण्यात्मप्रयत्नश्च, अत एव कचित् प्रक्रान्तवस्तुनि रागायभावेऽपि सतां साक्षादेव वक्तृत्वोपलब्धेः, अन्यथा तदभावप्रसङ्गात् , तथा सति व्यवहारोच्छेद इति, ... .भाषाद्रव्याण्यात्मनः प्रयत्नवक्तृत्वोपादाननिबन्धनमिति । ननु कथमेतज्ज्ञायत इति चेदत आह-अत एवेति-कचित्

Loading...

Page Navigation
1 ... 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244