Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
(११) अभूत्तेषां पट्टे निरुपमगुणो ब्रह्मनिलयस्तपागच्छाधीशः सुरगुरुरिवाशेषनिगमे । क्षमाधीशैः पूज्य: सुविहितवरः सूरिमुकुटो, रतस्तीर्थोद्धारे मुनिगणनतो नेमिरतुलः ।।
(१२) तत्पट्टाम्बरभास्करो मधुरवाक् पीयूषपाणि : कविधीमान्छास्त्रविशारदो जिनमतप्रख्यापकः संयतः । न्यायव्याकृतिदर्शनादिनिपुणो व्याख्यानवाचस्पत्तिः, सूरिः श्रीविजयामृतो विजयतेऽनल्पान्तिषसंवृतः ।।
यः षड्दर्शनसागरं वरमतिः प्रोन्मथ्य मन्थाद्रिवद्, वेदाध्यब्धिशशाङ्कसङ्ख्यकमहामन्थान् व्यधादद्भुतान् । नद्यः सिन्धुमिवाविर्शश्च निखिला विद्या यमाप्तोत्तम, स श्रीमान हरिभद्रसूरिभगवाजातो जगद्भूषणम् ॥
ये केचित्कुमतान्धकारविगलत्तत्त्वार्थसहृष्टयः, सर्वज्ञं नहि मन्वतेऽघरहितं विश्वत्रयालोकिनम् । " तेषां बोधकृते कृतार्थवचनः सूरीश्वरः सहयो,.... विस्पष्टामकरोत् कृति बुधहितां. सर्वज्ञसिद्धथाख्यिकाम् ॥
(१५) वृत्त्या विना नैव तदर्थबोधं, कर्तुं समर्थोऽपि भवेत्समर्थः । चित्ते विमृश्येति चकार वृत्ति, सूर्यमृतः सर्वहिताभिधानाम् ।।

Page Navigation
1 ... 240 241 242 243 244