Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 217
________________ [१०६] शक्यते-शक्तिमता भूयते। पूर्वपक्षी पुनः शङ्कते-तथाऽप्रसिद्धत्वादित्यादि-अप्रसिद्धत्वात् सर्वज्ञाधिकरणकवक्तृत्वाप्रसिद्धेः । तथा-तेन प्रकारेण “य: सर्वज्ञः स वक्ता न" इत्येवं प्रकारेणेति यावत् । उच्यते-पूर्वपक्षिणा मया प्रयोक्तुं शक्यते चेत्-( इदम् ) युक्तिमत्युक्तम् । न-नहि । कुत इति चेत्तत्राह-तदभावात्-अप्रसिद्धत्वाभावात् । “ वक्तृत्वं न सर्वज्ञवृत्ति अप्रसिद्धत्वात्" इत्येवं पूर्वपक्षिणा नो कथयितुं शक्यते-वक्तृत्वात्मकपक्षेऽप्रसिद्धत्वात्मकहेतोरसत्त्वेनासिद्धिदोषदुष्टतयाऽननुमापकत्वादिति भावः। अथसमुच्चयार्थकमव्ययम् । तव-पूर्वपक्षिणः । हेतो:-असर्वज्ञत्वानुमापकलिङ्गस्य ( तत्र-विपक्षे सर्वज्ञे ) मानतः-प्रमाणतः । अवृत्तिःअवर्तनम् । न-नहि। एवञ्च तव हेतोय॑भिचारित्वमिति भावः । इति-एवं प्रकारेण। सन्न्यायात्-समीचीनन्यायतः, सत्तर्कादिति यावत् । सः-प्रसिद्धः सर्वज्ञः, वीतरागत्वादिना प्रसिद्धः सर्वज्ञपदबाच्यः। सिद्धः-निष्पन्नः सिद्धिंगत इति यावत् । व्यतिरेक:सर्वज्ञाभावः । पुष्कल:-पर्याप्तः । न-नहि । इति ॥ ४६॥ यञ्च पूर्वम् " असौ न सर्वज्ञो वक्तृत्वात् देवदत्तवत्" इत्यनुमानेन सर्वज्ञत्वं खण्डितम् "न वक्तृत्वमदेहस्य" इत्यादिना वक्तृत्वे रागादिनिबन्धत्वप्रतिपादनात् तत्प्रतिसमाधीयते सिद्धान्तिभिःयञ्चोक्तं न वक्तृत्वमदेहस्य (श्लो० २० ) इत्यादिनेति ६६-(मूलम् ) यच्चोक्तं "न वक्तत्वमदेहस्य" (लो० २०) इत्यादिना वक्तृत्व रागादिनिबन्धनमिति. एतदपि पारम्पर्येण तेषां तन्निबन्धनत्वे दोषाभावात अबाधकमेव,

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244