Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha
View full book text
________________
__ [८६ ] एकान्तग्रहविपक्षरूपात्, अनेकान्तत:-अनेकान्तग्रहात् इदं गुणवदोषवच्चेत्येवमनेकान्तज्ञानादिति यावत्, एव-अवधारणार्थकमन्यव्यवच्छेदपरं वाऽव्ययम् , उपेक्षायाः-इदमसेव्यमगम्यमकरणीयमध्यानीय मित्यादिबुद्धिविषयतायाः सम्भवो-योग्यता, अन्यथाअनेकान्तव्यतिरिक्तात् , न-नहि उपेक्षासम्भव इति शेषः । तत्र युक्तिमुपपादयति-तथाहीत्यादिना-उभयात्मकैकत्वोपग्रहात्-उभयात्मकमेकमिदमित्याकारकज्ञानादित्यर्थः । तद्विदाम्-प्रत्येकं वस्तुन्युभयात्मकत्वं जानतां सहृदयानाम् । स्त्रीशरीरादिषु उपेक्षैव असेवनीयमित्यादिबुद्धिविषयतैव दृश्यते-अवलोक्यते । तस्याम्बुद्धिविषयीभूतायां खियाम् । गुणा:-वात्सल्य-भक्तिभाव-व्रतोपवासशक्त्यादयः । च-पुनः । दोषा:-मात्सर्यातिलुब्धत्वादीनि दूषणानि सन्तीति हतयाऽनया किमिति व्यावहारिकाणां व्यवहारदर्शनादिति शब्दार्थः । नन्वनेकान्तत्वं, जानतामपि न सर्वेषां भवत्युपेक्षा किन्तु संवरशा लिनामेव जीवानामिति दिदर्शयिषयाऽऽह सा चोपेक्षेत्यादि ।
६४-(मूलम् ) सा चोपेक्षा संघरवतां सचानां. निमित्ताभावेन अभावादागन्तुकमलस्य तच्चोपेक्षा परिणामादिहेतुतः, प्रक्षयात् (च)माक्तनस्य ।
"सा चोपेक्षा संवरवतां सत्त्वानाम् , तच्च निमित्ताभावेन आगन्तुकमलस्याभावात् उपेक्षापरिणामा दिहेतुतः प्राक्तनस्य प्रक्षयात्" इत्येवमन्वयः कल्पनीयः । तच्च-संवरवत्त्वश्च । उपेक्षापरिणामादिहेतुत:-उपेक्षापरिपाकादिकारणतः । प्राक्तनस्य पूर्वकाल जातस्य । प्रक्षयात्-विनाशात् । नन्वेतावता संवरवतां सत्त्वानामुपेक्षा

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244