Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 199
________________ [८८] (अन्वयः) वासीचन्दनकल्पानाम , सर्वत्र, त्यागोपादानहानित:, औदासीन्यम् , तु, नाम, वैराग्यम् , कथ्यते । वृत्तिः-वासीचन्द नकल्पानाम्-तक्षणीचन्दनसदृशानाम् , तक्षणीमपि प्रति सौरभमापादयतां चन्दनानामिव अङ्गच्छेदकमपकारिणमपि मधुरोपदेशेन प्रमोदमनुभावयतामितियावत् , योगिनामितिशेषः । सर्वत्र-सर्वस्मिन् वस्तुनि । त्यागोपादानहानित:-हानग्रहणराहित्येन । औदासीन्यम्-प्रागुदीरितोपेक्षा । तु-पुनः । नामकोमलामन्त्रणे । वैराग्यम्-रागराहित्यम् वीतरागत्वमितियावत् । कथ्यते-निगद्यते ॥ एतद्विषये पुनरिह विस्तरेण कथनं नावश्यकमित्यावेदयति"प्रपश्चितमेतदभावनासिद्धाविति नेह प्रयासः" इत्यादिना । अथेदानी " किश्च जात्यादियुक्तत्वाद् , वक्ताऽसौ गीयते परैः” इत्यादिना सन्दर्भेण पूर्वपक्षिणा प्रसञ्जितमसर्वज्ञत्वं सर्वज्ञस्य तमुपदर्शितप्रमाणपरीक्षणव्याजेन खण्डयितुमुपक्रमते-यच्चोक्तमित्यादिना श्लोककदम्बकेन यच्चोक्त किश्च जात्यादि-युक्तत्वादेवमादिना । असर्वज्ञत्वसंसिद्धयै, प्रमाण तत् परीक्ष्यते ॥ २२ ॥ असाविति न सर्वज्ञो, वक्तृत्वाद्देवदत्तवत् ॥ (अन्वयः ) च, किश्च जात्यादियुक्तत्वादेवमादिना, असर्वज्ञ. त्वसंसिद्धयै, यत, उक्तम् , " असौ न सर्वज्ञः वक्तृत्वाद्देवदत्तवत्" इति, तत्, प्रमाणम् परीक्ष्यते ॥

Loading...

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244