Book Title: Sarvagna Siddhi
Author(s): Vijayamrutsuri
Publisher: Jain Sahityavardhak Sabha

View full book text
Previous | Next

Page 211
________________ [१००] विषये । यत्-यस्माद्धेतोः। किश्चित् किमपि । वक्ति-निगदति । एवम्-अनेन प्रकारेण । सर्वम्-निखिलम् । अपि-खलु । जानान:जानन् , अवगच्छन्निति यावत् । कस्मात्-केन हेतुना। न-नहि । वक्ष्यति-निगदिष्यति । अपि तु सर्व वदिष्यत्येवेति भावः । यस्मिन् विषये यो बहु जानाति तस्मिन् विषये सोऽप्रतिहतं वक्ति यश्च पुनः सर्व जानाति स सर्वज्ञः कथं न ब्रूयादपि तु सर्वथैव ब्रूयादेवश्च सर्वज्ञे वक्तृत्वमबाधितमेवेति भावः ॥ ३६ ।। पुनः श्लोकेनैकेन पूर्वोत्तरपक्षौ दर्शयतिसर्वज्ञे न कचिद्दष्ट-मसर्वज्ञत्वजं यदि । न तद्दष्टौ न दृष्टं यत्, तत्र तन्नेत्ययुक्तिमत् ॥ ॥ ३७ ।। ( अन्वयः) कचित्, सर्वज्ञ, असर्वज्ञत्वजम् , न, दृष्टम् , यदि, तद्दष्टौ, (यत्र) यत्, न, दृष्टम् , तत्र, तन्न, इति, अयुक्तिमत्, न ? ___ वृत्ति:-क्वचित्-कुत्रचित् । सर्वज्ञे-सर्वज्ञपदबोध्ये। असर्वज्ञत्वजमू-असर्वज्ञत्वजनित वस्तु । न-नहि। दृष्टम्-अवलोकितम् । ( इति ) यदि-चेत् । उच्यते इति शेषः । समाधत्ते-द्वितीयार्द्धन( यत्र) तद्दष्टौ-तदीयदर्शने, तदीयनेत्रे वा। यत्-यादृशम् । वस्त्विति यावत् । न-नहि । दृष्टम्-अवलोकितम् । तत्र-तस्मिन् स्थाने । तत्-तादृशम् । वस्त्विति शेषः । न-नहि। वर्तते इति शेषः। इति-अनेन प्रकारेण कल्पनम् । अयुक्तिमत्-अयुक्तम् । न-नहि ? नब: काकर्थकत्वात् , प्रश्नस्य च काकुव्यङ्गयत्वात् । अपि तु अयुक्तमेवेति । काकुतो नबः प्रश्नाभिव्यञ्जकत्वं यथा (यत्र) तावत् । न-नहि पति शेषः ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244